________________ उवसमणा 1064 - अभिधानराजेन्द्रः - भाग 2 उवसमणा स्वस्थाने तु परस्परं तुल्यः / ततोऽपि वेदनीयस्यासंख्येयगुणः ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु विंशतिकयो मगोत्रयोरसंख्येयभागो जातानि ज्ञानावरणीयादीनि त्रीणि दध्यन्ते नामगोत्रापेक्षया ज्ञानावरणादीनां स्थितिबन्धोऽसंख्येयगुणहीनो भवतीत्यर्थः / अत्राल्पबहुत्वं सर्वस्तोको मोहनीयस्य स्थितिबन्धः ततो ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः ततोऽपि नामगोत्रयोरसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः। ततोऽपि वेदनीयस्या संख्येयगुणः। असंखसमयबद्धा, णामुदीरणा होइ तम्मि कालम्मि। देसघाइरसत्तो,मणपजवअंतरायाणं॥ यस्मिन्काले सर्वकर्मणां पल्योपमासंख्येयभागमात्र स्थितिबन्धो जातस्तस्मिन् काले असंख्येयसमयबद्धानामुदीरणा भवति कथमेतदवसीयते इति चेदुच्यते इह यदा पल्योपमासंख्येयभागमात्रं स्थितिबन्धं करोति तदा बध्यमानप्रकृतिस्थिल्यपेक्षया याः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति नान्याः ताश्च चिरकालमबद्धा एव क्षीणशेषाः संभवन्तीत्यसंख्येयसमयबद्धानां तदानीमुदीरणा ततः स्थितिबन्धसहस्रेषु एतेषु देशघातिनः समनुभाग मनः पर्यवज्ञानावरणादीनामन्तराययोर्बध्नाति॥ लोहादीणं पच्छा, भोग अचक्खुमुयाण तो वक्खा। परिभोगमईणंते, विरयस्स असेठिगाथाई॥ पश्चास्थितिबन्धसहस्रेष्सतिक्रान्तेषु भवान्तरायावधिज्ञानावरणावधिदर्शनावरणानां देशधातिनं रसं बध्नाति ततोऽपि संख्येयेषु स्थितिबन्धनसहस्रेष्वतीतेषु भोग्यान्तरायाचक्षुः कुदर्शनावरणश्रुतज्ञानावरणानां देशघातिनं रसं बध्नाति ततोऽपि स्थितिबन्धसहस्रेष्वतिक्रान्तेषु देशघातिनं रसं बध्नाति ततोऽपि स्थितबन्धसहस्रेष्वतिक्रान्तेषु परिभोगान्तरायमतिज्ञानावरणयोर्देशघातिनंरसंबध्नातितोऽपि स्थितिबन्धसहस्रेषु वीर्यान्तरायस्य देशयति न संबध्नाति एतेषामेवानन्तरोक्तानां कर्मणां श्रेणिगताः क्षपकोपशमश्रेणिरहिताः सर्वघातिनमेव रसं बध्नन्ति। संजमघाईण तओ, अंतरमुदउ जाण दोण्हं तु / वेयकसायन्नयरे, सोदयतुल्ला पट्टविई॥ वीर्यान्तरादेशघात्यनुभागबन्धान्तरंसंख्येयेषु स्थितिबन्धसहस्रेषुगतेषु सत्सु संयमघातिनामनन्तानुबन्धे वर्जानां द्वादशकषायाणां नवानां च नोकषायाणां सर्वसंख्यया एकविंशतिप्रकृतीनामन्नतरकरणं करोति तत्र चतुर्णा सङ्कलनानामन्यतमस्य यस्य संज्वलनस्योदयो यस्यचत्रयाणां वेदानामन्यतमस्य वेदस्य तयोर्वेदकषायान्यतरयो कर्मणोः प्रथमा स्थितिः खोदयकालप्रमाणा भवत्यन्येषां चैकादशकषायाणामष्टानां च नो कषायाणां प्रथमा स्थितिरावलिकामात्रा। संप्रति चतुर्णा संज्वलनानां त्रयाणां च वेदानां स्वोदयकालप्रमाणमाह -- थीअधुवोदयकाली, संखातगुणो उ पुरिसवेयस्स। तस्स हि विसेसअहिओ, कोहे तत्तो विजयकमसो।। स्त्रीवेदनपुंसकवेदयोरुदयकालः पुरुषवेदाधुदयकालापेक्षया सर्वस्तोकः स्वस्थाने तु परस्परं तुल्यः ततः पुरुषवेदेभ्य उदयकालः संख्येयगुणस्तस्यापि पुरुषवेदस्योदयकालात् क्रोधस्योदयकालो विशेषाधिकस्ततोऽपि क्रोधोदयकालान्मानमायालोभानां यथाक्रमशो यथाक्रमेण विशेषाधिकस्तद्यथा संज्वलक्रोधोदयकालात्संज्वलनमानस्य उदयकालो विशेषाधिक स्ततोऽपि संज्वलनमायाया विशेषाधिकस्ततोऽपि संज्वलनलोभस्य विशेषाधिकस्तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो भवति तावत् संज्वल-नक्रोधस्योदयः संज्वनमानेनोपशमश्रेणिं प्रतिपन्नस्य यावद प्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न भवति तावत्संज्वलनमानस्योदयः संज्वलनमायया चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानावरणमायोपशमो नोपजायते तावत्संज्वलनमायायाः उदयः संज्वलनलोभेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानावरणलोभोपशमो न भवति तावद्वादरसंज्वलनलोभस्योदयस्ततः परं सूक्ष्मसंपरायादा तदेवमन्तरकरणमुपरितनभागापेक्षया समस्थितिकम्। अधोभागापेक्षया चोक्तनीत्या विषमस्थितिकमिति। अंतरकरणेण समं, ठिइखंडगबंधगद्धनिप्पत्ती। अंतरकरणाणंतर, समये जायंति सत्तइमो॥ अन्तरकरणेन समं सममित्यव्ययं ततोऽयमर्थः। अन्तरकरणेन समाना स्थितिखण्डस्य बन्धकाद्धायाश्च अभिनवबन्धाद्धायाश्च निष्पत्तिः। किमुक्तं भवति यावता कालेन स्थितिखण्डकं घातयति यता अन्यस्थितिबन्धं करोति तावता कालेनान्तरकरणमपि करोति त्रीण्यप्येतानि युगपदारभते युगपन्निष्क्रामयति अत्रान्तकरणकाले चानुभागखण्डसहस्राणि व्यतिक्रामन्ति अन्तरकरणसत्कदलिकस्य प्रक्षेपविधिस्य येषां कर्मणा तदानीं बन्ध उदययश्च विद्यते तेषामन्तरकरणसत्कंदलिकं प्रथमस्थितिद्वितीयस्थितिंच प्रक्षिपति यथा पुरुषवेदोदयारूढः पुरुषवेदस्य येषां तु कर्मणामुदय एव केवलो न बन्धस्तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति न द्वितीयस्थितावपि। यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य येषांपुनरुदयोन विद्यते किं तु केवलो बन्ध एव तेषामन्तरकरणसरकं दलिकं द्वितीय स्थितावेव प्रक्षिपति न प्रथमस्थितौ यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानां तेषांपुनर्न बन्धो नाप्युदयः तेषामन्तरकरणसत्कं दलिक परप्रकृतिषु यथा द्वितीयवृतीयकषायाणां तथा अन्तरकरणानन्तरसमये अन्तरकरणे कृते सति द्वितीये समये इत्यर्थः / इमे सप्त पदार्थाः युगपज्जायन्ते तानेवाह। एगट्ठाणाणुभागचं, स उदीरणा य संखेया। अपुवं संकमणं, लोभस्य असंकम्मे मोहे / / बद्धं बद्धं छाउ, आवलीसु उवरेयुईरणं // पइपडं गवेउवसमणा, असंखगुणणाय जावंतं / / मोहे मोहनीयस्यानुभागबन्धो रसबन्धः एकस्थानकः उदीरणा संख्येयसमा संख्येयवर्षप्रमाणा चशब्दात्स्थितिबन्धः संख्येयवार्षिक: स च सर्वोऽपि पूर्वस्मात् संख्येयगुणहीनो भावी तथा मोहनीयस्य पुरुषवेदसंज्वलनचतुष्टयरूपरसस्य आनुपूर्व्या क्रमेणैवसंक्रमो लोभस्य च संज्वलनलोभस्य वा संक्रमस्तथा 'बद्धं बद्ध मित्यादि इह प्राक् बद्धं बद्धं कर्म बन्धावलिकायामतीतायामुदीरणामायातिस्म अन्तरकरणे तु कृते तदनन्तरसमयेषु यद्बध्यते कर्म तत् षडावलिकाकालमवस्थाप्योदीरणामायाति तथा पण्डकवेदस्य नपुंसकवेदस्योपशमना असंख्ये यगुणनया तावद्भवति यावदन्तश्चरमसमया तथा हि नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति ततो द्विती