________________ उवसमणा १०६३-अभिधानराजेन्द्रः - भाग 2 उवसमणा ध्यातसंक्रमेण मिथ्यात्वसम्याग्मिथ्यत्वयोर्दलिकं सम्यक्त्वं प्रविशतीति एवं दर्शनमोहनीयत्रितये उपशान्ते संक्लेशविशोधिवशात् प्रमत्तत्वमितरप्रमत्तत्वं बहुशोऽनेकशोऽनुभूय चारित्रमोहनीयोपशमनाय सम्यक्त्वं प्रतिपद्यते इत्यर्थः। पुण तिन्नी उ करणाई, करेइ तइयम्मि एत्थ पुण तेउ। अंतो कोडाकोडी, बंधं संतं च सत्तण्हं / / चारित्रमोहनीयोपशमयनार्थं पुनरपि त्रीणि याप्रवृत्तापूर्वानिवृत्ताख्यानि करणानि करोति करणवक्तव्यता प्राग्वद्दष्टव्या केवलमत्र तृतीयकरणे भेदस्तमेव दर्शयति अतः कोटाकोटीनामबन्धसत्कविसमानामायुर्वर्जानां करणं प्रथमसमये करोति तत्र यद्यपि प्रागुक्तेष्वपि करणेष्वेतेषां बन्धः सत्कर्मणां प्राप्यते तथाऽप्यत्र बन्धसत्कर्मणी तदपेक्षया संख्येयगुणहीने द्रष्टव्ये इति विशेषः / कर्मप्रकृतौ त्वत्र सत्कर्म त्रिःसागरोपमकोटाकोटीप्रमाणमुक्तं बन्धस्त्वन्तः सागरोपमकोटाकोटीप्रमाणः तदुक्तम्। “अंतो कोडाकाडी, संतं अनियट्टि णो उ उदहीणं / ठिइखंड उक्कोस्सं पि तस्स पल्लस संखतमभागं"। ठिइखंडबहुसहस्से, एककं जं भणिस्सामो। स्थितिखण्डमुत्कृष्टमपि पल्योपमसंख्येयभागमानं खण्डयति / तथा एतस्य प्राक्तनबन्धस्य पल्योपममसंख्येयभागमात्रं हापयित्वा अन्य स्थितिबन्धं करोतीति शेषः / तत्र यद्यपि शतानामपि कर्मणां पल्योपमसंख्येयभागाणतया उक्तस्तथाऽपिएवं सत्कर्म द्रष्टव्यं तद्यथा नामगोत्रे सर्वस्तोके हीनस्थितिकत्वात् ततो ज्ञानावरणदर्शनीयावरणवेदनीयान्तरायाणि विशेषादधिकानि स्वस्थाने तु परस्परतुल्यानि ततोऽपि मोहनीयं विशेषाधिकस्थितिखण्डसहस्रेषु च बहुष्वतिक्रान्तेषु एकैकं यत्करोति तद्वयं भणिष्यामः। तदेवाह। करणस्स संखभागे, सेसे असण्णिमाइयाणं / समो बंधो कामण, पल्लवसेगतीसाणउदिवढें / करणस्यानिवृत्तिकरणस्य संख्येयेषु भागेषु सत्सु एकस्मिन् शेषे असंज्ञिकादीनां समो बन्धः क्रमेण भवति सचैवमनिवृत्तिकरणस्य संख्येयेषु भागेषु गतेष्वेकस्मिन् अशेष असंज्ञिपञ्चेन्द्रियबन्धतुल्यस्थितिबन्धो भवति तदनन्तरं स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियबन्धतुल्यस्थितिबन्धः ततो भूयोऽपि स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबन्धतुल्यस्थितिबन्धस्तत एवमेव द्वीन्द्रियबन्धतुल्यः ततोऽप्येवमेकै केन्द्रियबन्धतुल्यस्ततोऽपि स्थितिबन्धसहस्रेषु गतेषु विंशतिकयोः विशतिसागरोपमकोटीप्रमाणयोर्नामगोत्रयोरित्यर्थः / पल्योपममात्र स्थितिबन्धो भवति त्रिंशत्कानां ज्ञानावरणदर्शनावरणान्तरायवेदनीयानामर्द्धपल्योपममात्रः। मोहस्स दोण्णि पल्ला, संतो विहु एवमेव अप्पबहू / पलियम्मि तम्मि बंधे, अन्नो संखेजगुणहीणो।। मोहनीयस्य द्वौ पल्योपमो स्थितिबन्धः स्थितिसत्कर्मणि वाल्यपबहुत्वं बन्धक्रमेण वक्तव्यं तच्च सर्वस्तोकं नामगोत्रयोः ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां विशेषाधिकं मोहनीयस्य विशेषाधिकं तथा यस्य यस्य कर्मणो यदा यदा पल्योपमप्रमाणः स्थितिबन्धो भवति तस्य तस्य तदा तत्कालादारभ्यान्योऽन्यः / स्थितिबन्धः संख्येयगुणहीनो भवति ततश्चेदानीं नामगोत्रयोः | पल्योपमप्रमाणात् स्थितिबन्धादन्यः स्थितिबन्धस्संख्येयगुणहीनं करोति शेषाणां तु कर्मणां पल्योपमसंख्येयभागहीनं ततः। एवं तीसाण पुंणो, पल्लमोहस्स होइ हु दिवढं। एवं मोहे वल्लं, सेसाणं पल्लसंखंसो॥ एवमुक्तेन प्रकारेण स्थितिबन्धसहस्रेष्वतिक्रान्तेषु त्रिंशत्कानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धः पल्योपम प्रमाणं करोति माहनीयस्य तु सार्द्धपल्योपममात्रं ततो ज्ञानावरणीयादीनामन्यः स्थितिबन्धः संख्येयगुणहीनो भवति मोहनीयस्य तु संख्येयभागहीनः तत एवं पूर्वक्र मेण स्थितिबन्धसहस्रेष्वतिक्रान्तेष्वित्यर्थः मोहनीयस्य स्थितिबन्धः पल्योपमप्रमाणं भवति ततो मोहनीयस्याप्यन्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते तदानीं चशेषकर्मणां स्थितिबन्धः पल्योपमसंख्येयभागमात्रप्रमाणो वेदितव्यः / वीसगतीसगमोहाण, सकम्मंजह कमेण संखगुणं। पल्लअसंखेजंसो, नामगोयाण तो बंधो। विंशत्कत्रिंशत्कमोहानां सत्कर्म यथाक्रम संख्येयगुणं वक्तव्यं तद्यथा सर्वस्तोकं नामगोत्रयोः सत्कर्म ततो ज्ञानावरणदर्शनावराणान्तरायवेदनीयानां सगुणं स्वस्थाने तु परस्परं तुल्यम्। ततोऽपि मोहनीयस्य संख्येयगुण मोहनीयस्य पल्योपममात्रे स्थितिबन्धे जाते सति नामगोत्रयोरन्यस्थितिबन्धो ऽसंख्येयगुणहीनो भवति पल्योपमासंख्येयभागमात्रो भवतीत्यर्थः / अत्र सत्कर्मापेक्षया अल्पबहुत्वं चिन्त्यते सर्वस्तोक नामगोत्रयोः सत्कर्म ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणाम संख्येयगुणं स्वस्थाने तु परस्परं तुल्यं ततोऽपि मोहनीयस्यसंख्येयगुणं ततः। एवं सहस्साणंपिहु, एकपयारेण मोहनीयस्य। तीसगणसंखभागो, ठिइबंधो संत पंच भवे / / एवं पूर्वोक्तेन प्रकारेण स्थितिबन्धसहस्रष्वतिक्रान्तेष्वित्यर्थः / ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धेऽसंख्येयगुणाहीनो भवति पल्योपमासंख्येयभागमात्रयोर्भवनादिति तात्पर्यार्थः इदानीं च सत्कर्मापेक्षया अल्पबहुत्वं चिन्त्यते सर्वस्तोकनामगोत्रयोः सत्कर्म ज्ञानावरणयादीनां चतुर्णामसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यं ततो मोहनीयस्य संख्येयगुणं ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु. एकप्रकारेण एकहेलयैव मोहनीयस्य पल्योपमासंख्येयभागमात्रो ज्ञानावरणीयादीना चतुण्णमिसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यम्। वासगअसंखभागो, मोहपवाउघाइतइयस्स। वासाणंत होनइ, असंखभागम्भिवझंति।। ततः स्थितिबन्धसहस्रेषु गतेषु एकहेलयैव विंशतिकयो मगोत्रयोरधस्तात् असंख्येयगुणहीनो मोहनीयस्य स्थितिबन्धो भवति / अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वं चिन्त्यते सर्वस्तोको मोहनीयस्य स्थितिबन्धस्ततो नामगोत्रयोः संख्येयगुणः स्वस्थाने तु परस्परं तुल्यः / ततो ज्ञानावरणादीनां चतुण्णामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः। स्थितिबन्धसहस्रेष्वतिसंक्रान्तेषु पश्चात् तृतीयस्य वेदनीयस्य घातानि ज्ञानावरणदर्शनावरणान्तरायाणि अधोजातानि। अत्र स्थितिबन्धमा-श्रित्याल्पबहुत्वं चिन्त्यते सर्वस्तोको मोहनीयस्य स्थितिबन्धः ततो नामगोत्रयोरसंख्येयगुणः / स्वस्थाने तु तयोः परस्परं तुल्यः ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः