________________ उवसमणा 1062 - अभिधानराजेन्द्रः - भाग 2 उवसमणा तुल्यं स्थितिसत्कर्म वक्तव्यम्। एकैकस्मिश्चोत्तरे स्थितिखण्डसहस्राणि स्थितिघातसहस्राणि व्रजन्ति भावना प्रागेव कृता एवं पल्योपमसंख्येयभागमात्रदर्शनज्ञानमोहनीयतेति यावत् सत्कर्मणि जाते सति यद्भवति संख्येयान् भागान् खण्डयति / इयमत्र भावना पल्योपमसंख्येयभागमात्रस्य स्थितिकर्मण एकसंख्येयभाग- मुक्त्वा शेषानशेषानपि संख्येयान् भागान् त्रयाणामपि मिथ्यात्वादीनां विभासयति ततः प्रागुक्तस्य संख्येयभागस्य एकसंख्येयभाग मुक्त्वा शेषानशेषानपि संख्येयान् भागान् विनाशयति एवं ते संख्येयभागाः खण्ड्यमानासहस्रशोऽपिव्रजन्ति ततो मिथ्यात्वस्यासंख्येयान् भागान् खण्डयति सम्यक्त्वसम्यग्मिथ्यात्वयोस्तुसंख्येयान् भागान्। तत्तो बहुखंडते, खंडइ उदयावलीरहियमिच्छत्तं / तत्तो असंखभागो, सत्तामीसाण खंडेइ।। ततोऽनेन विधिना स्थितिखण्डानां प्रभूतानामन्ते उदयावलिकारहितसकलमपि मिथ्यात्वं खण्डयति विनाशयति / तदानीं सभ्यक्त्वसम्यग्मिथ्यात्वयोर्दलिकं पल्योपमासंख्येयभागमात्रमवतिष्ठते अमूनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वसम्यक्त्वानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति सम्यग्मिथ्यात्वसम्यक्त्वा तिसम्यक्त्वानि सम्यक्त्वाधस्तात् स्वस्थाने इति तदपि च मिथ्यात्वदलिकमात्रं स्तिवुकसंक्रमेण सम्यक्त्वे प्रक्षिपति मिथ्यात्वस्यावलिकामात्रायां स्थितौ सत्यां तत ऊर्द्ध सम्यक्त्वं सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान् भागान् खण्डयति एवं ते विशिष्येतेततस्तस्याप्यसंख्येयान्भागान्खण्डयतिएकमुञ्चति एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यग्मिथ्यात्वमावलिकामात्रं जातं तदानीं च सम्यक्त्वस्य स्थितिसत्कर्म च षष्टिकप्रमाणं विद्यते स चाष्ट-वर्षप्रमाणसम्यक्त्वसत्कर्म तत्काले सकलप्रत्यूहापगमतो निश्चयनियमतो दर्शनमोहनीयस्य क्षपक उच्यते। अंतमुहुत्तियखंडं, तत्तो उकिरइ उदयसमयाउ। पक्खिवइ असंखगुणं, नाऊण गुणसेठिपरे हीणं / / ततो निश्चयनयमतेन क्षपकस्वभवनादूर्द्ध सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणमुत्किरतिधातयति तद्दलिकमुदयसमया-दारभ्य प्रक्षिपति तचेदभुदयसमये स्तोकं ज्ञात्वा द्वितीयसमये असंख्येयगुणं ततोऽपि तृतीये समये असंख्येयगुणम् / एवं तावद्वक्तव्यं यावत् गुणश्रेण्यशिरः तत उर्द्ध विशेषहीनं शेषहीनस्तावत्यावच्चरमा स्थितिः। उकिरइ असंखगुणे, जाव दुचरिमं वि अंतिमे खंडे। सेजंसो खंडेइ, गुणसेटीए तहा देइ / / ततो द्विस्थितिखण्डमन्तर्मुहूर्तप्रमाणं पूर्वस्मादसंख्येयगुणमुत्किरति खण्डयति प्रागुक्तप्रकारेण च उदयसमयादारभ्य निक्षिपति एवं पूर्वस्मात् पूर्ववदसंख्येयगुणसंस्थितिखण्डमुत्किरति तावद्वक्तव्यो यावद्विचरिमं स्थितिखण्डं द्विचरिभाच स्थितिखण्डादन्तिमं स्थितिखण्ड संख्येयगुणं तस्मिंश्चन्ति स्थितिखण्डेखण्ड्यमाने संख्येयभागं गुणश्रेण्या खण्डयति अन्याश्च तदुपरितनीः संख्येयगुणाः स्थितीरुत्कीर्य तद्दलिकमुदय समयादारभ्य संख्येयगुणतया प्रक्षिपति। तद्यथा उदयसमये स्तोकं ततो द्वितीयसमये आसंख्येयगुणं ततोऽपि तृतीयसमये असंख्येयगुणम् / एवं तावदच्यं यावद् गुणश्रेणिशिरः / अत ऊर्द्धमुत्कीयैमाणयेव दलिक ततस्तत्र न प्रक्षिपति एवमेव स्थितिखण्डे उत्कीर्णे सति असौ क्षपकः कृतकरण उच्यते। कयकरणो तक्काले, कालं पि करेइ च उसु वि गईसु। वेइयसेसो सेढी; अन्नइए वा समारुदइ / / कृतकरणः सन्कश्चित्तत्कालमपि करोति कृत्वा च तत्कालं चतसृणां गतीनां गतावुत्पद्याते तदेवं प्रस्थापको मनुष्यो निस्सूचकेषु चतसृष्वापि गतिषु भवति। उक्तं च। “पट्टवणा उमणुस्सो निट्टवणो होइचउसु विगईसु " यदि पुनस्तदानीं कालंन करोति तर्हि वेदितशेषोऽनुदितसम्यक्त्वशेषः क्षायिकसम्यग्दृष्टिः सन् अन्यतरां श्रेणिं क्षपक श्रेणिमुपशमश्रेणिं या समारोहति वैमानिकेष्वेव बद्धायुष्क उपशमश्रेणिम् / अबद्धयुष्कस्तु क्षपक श्रेणिं चतुर्गतिबद्धयुष्कस्तु न कामपि श्रेणिमित्यर्थः / अथाप्येतत्क्षीण सप्तकः कतिथे भवे मोक्षमुपयातीत्युच्यते। तइये चउत्थे तम्मिव, भवम्मि सिज्झंति देसणो खीणे। जं देवनिरय संखाउ, चरमदेहेसु ते हॉति॥ तृतीयेचतुर्थ तस्मिन्वा भवे क्षीणे दर्शने दर्शनमोहनीये सिद्ध्यन्ति जीवाः कुत इत्याह / यत् यस्मात्कारणात् क्षीणसप्तकदेवनारका संख्येयवर्षायुष्केषु भवन्ति उत्पद्यन्तेते चरमदेहेषु वा भवन्ति चरमदेहा वा भवन्ति ततस्तृतीये चतुर्थे तस्मिश्च भवे सिध्यन्तीत्युच्यते इयमत्र भावना देवगतौ बद्धयुष्कास्ते तत्प्रकृत्ये यत्कृत्वा देवेषु मध्ये उत्पद्यन्ते येतुनरकेषुबद्धायुष्कास्तेनरकेषु ततो देवेषु देवभवात्समागत्येक मनुष्यो भूत्वा मोक्षं यातीति चतुर्थे भवे सिद्व्यन्तीत्यभिधीयते ये त्वबद्धायुष्काः सप्तकं क्षपयन्ति ते चरमदेहा उच्यन्तेन च सप्तकायानन्तर क्षपक श्रेणिमेव प्रतिपद्यन्ते इति तस्मिन्नेव भवे सिद्ध्यन्ति उक्ता दर्शनीयमोहनीयस्योपशमना। संप्रति दर्शनमाहनीयोपशमना भण्यते / सा च क्षीणसप्तकस्य वैमानिकेष्वेवबद्धायुष्कस्य भवति। अबद्धायुष्कस्तुक्षपक श्रेणिमारोहति यस्तु वेदकसम्यग्दृष्टिः स तूपशमश्रेणिं प्रतिपद्यते सोऽनियतो बद्धायुष्को वासे च केषाञ्चिन्मतेनानन्तानुबन्धिनो विसंयोज्य चतुर्विंशति सप्तकम्मसिन् प्रतिपद्यते के षांचित्पुनर्मतेनोपशम्यापि ततो विसंयोजितानन्तानुबन्धिकषाय उपशमितानन्तानुबन्धिकषायो वा सन् दर्शनत्रितयमुपशमयति। तथा चाह। अहवा दंसणमोहं, पढम उवसामइत्तु सामन्ने। दिव्या अणुह पियाण, पढमठिई आवलीनियमा।। पढममुवसमुवसेसे, अंतमुहुत्ता उतस्स विज्झा उ। संकेसविसोविपमत्त, इयरपमत्तत्तणं बहुसो॥ अथवेति प्रकारान्तरे आदौ दर्शनमोहनीय प्रथममुपशमय्याऽपि प्रतिपद्यते कथमुपशमय्योत्पद्यत इत्याह / श्रामण्ये संयमे स्थिता उपशमनाविधेश्च प्रागुक्तः करणत्रयानुगो वेदितव्यः। न तु उपशमश्रेणिं प्रतिपद्यते / अथवा दर्शनमोहनीयं प्रथममुपशमय्यापि प्रतिपद्यते कथमुपशमय्योत्पद्यत इत्याह। श्रामण्ये संयमे स्थिता उपशमनाविधेश्च प्रागुक्तः करणत्रयानुगो वेदितव्यः नवरमन्तरकरणं कुर्वन् अनुदितयोर्मध्ये सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रथमस्थि तिरावलिकामात्रा नियमाद्वेदितव्या सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणा उत्कीर्यमाणं च दलिकमन्तरेण त्रयाणामपि सम्यक्त्वोत्पत्तिं प्रथमस्थितौ प्रक्षिपति शेषं प्रथमोपशमवत् प्रथमोपशमिकसम्यक्त्ववद्वेदितव्यं (अंतमुहूत्ता उतस्सेत्यादि) बहुशो ऽन्तरकरणप्रदेशसमयादारभ्यान्तर्मुहूर्तेऽतिकान्ते गुणसंक्रमावसाने विध्यातसंक्रमस्तस्य सम्यक्त्वस्य भवति किमुक्तं भवति / वि.