________________ उवसमणा 1061 - अभिधानराजेन्द्रः - भाग 2 उवसमणा . . . न्तरर्मुहूर्ते कालं यावदवश्यं वर्तते प्रवर्द्धमानपरिणामो भवति कोऽपि हीयमानपरिणामः ततो यदि प्रवर्द्धमानपरिणामो भवति तत ऊर्द्धमपि गुणश्रेणिं प्रवर्द्धमानां करोति / अथ हीयमानपरिणामस्ताहि हीयमानामवस्थितपरिणामश्चावस्थितस्वभावस्थां हीनपरिणामो वा देशविरते स्थितिघातरसघातौ न भवतः। परिणामपञ्चएणं, गमागमं कुणइ करणरहिओ वि। आभोगनट्टवरुणो, करणे काऊण पावेइ॥ परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणात् देशविरतोविरतिं प्रतिपन्नः सर्वविरतो वा देशविरतिं गच्छति ततः स भूयोऽपि तां पूर्वप्रतिपन्नां सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते एवम कृतिकरणेऽनेकशोगमागमं करोति यः पुनराभोगतः प्रतिपत्तया नष्टकरणो देशविरतेः सर्वविरतेयं परिभ्रष्टो मिथ्यात्वं च मतः स भूयोऽपि जघन्येनान्तर्मुहूर्तेन कालेन उत्कर्षतः प्रभूतेन कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिं वा उक्तप्रकारेण करणेन कृत्वा करणद्वयस्य पुरस्सरमेव प्रतिपद्यते॥ परिणामपचएणं, चउविहं होइ वड्डई वावि। परिणामवड्डयाए, गुणसेदि तत्तियं कीरइ। परिणामप्रत्ययेन परिणामात्कारणात् चतुर्विधः चत्वारः प्रकारो यथा भवति एवं हीयते वर्द्धते वा गुणश्रेणिरिति विभक्तिविपरिणामेन संबद्ध्यते इदमुक्तं भवति यदि हीयमानपरिणामो भवति तर्हि तथा तथा परिणामहानिमध्ये कृतगुणश्रेणिः चतुर्धा हीयते तद्यथा कदाचिदसंख्येयभागेन कदाचित्संख्येयभागेन कदाचिदसंख्येयगुणेन कदाचित्संख्येयगुणेन / अथ परिणामः प्रतिसमयं प्रवर्द्धते तर्हि तत्परिणामानुसारेण गुणश्रेणिरप्युक्तप्रकारेण वर्द्धते यदि पुनरवस्थितपरिणामो भवति तर्हि तावन्मात्रामेव गुणश्रेणिमाख्याति एषा चैव दलिकापेक्षया द्रष्टव्या। कालश्च पुनः सर्वदाऽपितावन्मात्रेणैवयावश्च देशविरतिं सर्वविरतिं वा परिपालयति तावद्गुणश्रेणिमपि समये समये करोति। स्थापना चेयं तदेवमुक्तो देशविरतिसर्वविरतिलाभ:। संप्रत्यनन्तानुबन्धेनाविसंयोजनमाभण्यते।। सम्मुप्पायणविहिणा, चउगइया सम्मदिट्ठिपज्जत्ता। संजोयणा विजोएति, न उण पढमठिइं करें ति॥ सम्यक्त्वोत्पादविधिना सम्यक्त्वोत्पादभणितकरणत्रयरूपेण प्रकारेण चतुर्गतिकाः सम्यग्दृष्टयो वेदकसम्यग्दृष्टयः पर्याप्तास्त-त्राविरतसम्यग्दृष्टयश्चतुर्गतिका अपि देशविरतास्तिर्यग्गतिका वा मनुष्या वा सर्वाविरतास्तु मनुष्याः संयोजनातोऽनन्तानुबन्धिनो वियोजयन्ति नाशयन्ति पुनरत्रान्तरकरणं कुर्वन्ति तदभावाच प्रथमस्थितिमपि न कुर्वन्ति अन्तरकरणस्य ह्यस्तना स्थितिरित्युच्यते। द्वितीया तु द्वितीया ततोऽन्तरकरणकारणाभावे प्रथम-स्थितिमपि न कुर्वन्तीति। अत्रैव विशेषमाह। उवरिमगे करणदुर्ग, दलियं गुणसंकमेण तेसिं तु / मासेइंतइ पच्छा, अंतमुहुत्ते सभावत्थो॥ उपरितनके द्विके अपूर्वकरणानिवृत्तिकरणाख्ये तेषामनन्तानुबन्धिनां / दलिकं परमाण्वात्मकं गुणसंक्रमेणोज्ज्वलनासंक्रमस्तु विद्धन नाशयति अनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमानुविद्धेनोज्ज्वलनासंक्रमण निरवशेषान् विनाशयति। किं त्वधस्तादावलिकामात्रं मुञ्चति तदपि च स्तिवुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति ततोऽन्तर्मुहूर्तात्पर तोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणामपिस्थितिघातरसगुणश्रेणयोन भवन्ति किं तु स्वभावस्थ एव भवति चतुर्विशतिसत्कर्मा तदेवमुक्तानन्तानुबन्धेनाविसंयोजना / ये त्वाचार्या अनन्तानुबन्धिनामुपशमनामपि मन्यन्ते तन्मतेनोपशमनाविधिः षडशीतिवृत्तेः सप्ततिकावृत्तेर्वा अवसेयः। संप्रति दर्शनमोहनीयक्षपणाविधिमाह। दंसणखवणस्स रिहो, जिणकालीओ दुग्गट्ठवासुवरि। अणणासकमाकरणाइं, करइ गुणसंकमं तइयं / / दर्शनं मिथ्यात्वसम्यक्त्वरूपं तस्य क्षपणा तस्या अझै योग्यो जिनकालीयो जिनविरहेण कालसंभवी प्रथमसंभवी प्रथमसंहननी च दुर्गतिं मनुष्यगतौ वर्तमानो जीवो वर्षाष्टकस्योपरि वर्तमानो-- ऽनन्तानुबन्धेन विसंयोजनक्रमेण यथाप्रवृत्तादीनि त्रीणि करणानि यथा गुणसंक्रमं च कृत्वा साकल्येन क्षपयति / इयमत्र भावना दर्शनमोहनीयक्षपणार्थमभ्युद्यतस्त्रीणि करोति तद्यथा यथाप्रवृतकरणमपूर्वकरणमनिवृत्तिकरणं वा एतानि च त्रीण्यपि करणानि प्रागेण वक्तव्यानि नवरं पूर्वकरणस्य प्रथमसमये एवं गुणसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिकेसम्यक्त्वे प्रक्षेपयति उद्बलनासंक्रममपि तयोरेवमारभते / तद्यथा प्रथमस्थितिखण्डं वृहत्तरं धातयति ततो द्वितीय विशेषहीनमेवं तावद्वक्तव्यं यावन्मिथ्यात्वसम्य-ग्मिथ्यात्वयोः करोति। तकरणाई जंतं, तस्संते संखभागो होइ / / तत्करणादावपूर्वकारणादौ यत् स्थितिसत्कर्मासीत्तत्तस्यैव करणस्यान्ते चरमसमये संख्येयभागमानं भवति। प्रथमसमयापेक्षया संख्येयगुणहीनं भवतीत्यर्थः। एवं ठिबंधो विय, पविसइ अनियट्टिकरणसमयम्मि। अपुष्वगुणसेढिठिइरसघायठिइबंधं च / / एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबन्धोऽपि वेदितव्यः अपूर्वकरणप्रथमसमये यावान् स्थितिबन्ध आसीत् तदपेक्षयाऽस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो भवतीत्यर्थः ततोऽनिवृत्तिकरणसमये प्रविशति तत्र च प्रविष्टः सन् प्रथमसमयादेवारभ्यापूर्वी गुणश्रेणिं अपूर्व स्थितिघातं रसघातमपूर्वं च स्थितिबन्धमनुक्रममारभते। देसुवसमणनिकायण, निहत्तिरहियं च होइ तिगं॥ अनिवृत्तिकरणप्रथमसमये एवं च देशोपशमना निकाचनानिधत्तिरहितं दर्शनत्रिकं भवति देशोपशमादीनां त्रयाणां करणानां मध्ये नैकमपि तदानीं दर्शनत्रिकस्य करणं प्रवर्तते इत्यर्थः / दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्मास्थितिघातादिभिर्घात्यमानसंज्ञिपञ्चेन्द्रिय स्थितिसत्कर्मसमानं भवति / ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति तु चतुरिन्द्रियस्थितिसत्कर्मसमानं ततोऽपि तावन्मात्रेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानं ततोऽपितावन्मात्रेषु खण्डेषु गतेषुद्रीन्द्रियस्थितिसत्कर्मसमानं ततोऽपि तावन्मात्रेषुखण्डेषु गतेषुपल्योपमसंख्येयभागमात्रप्रमाणं भवति तदेवाह। कमसो असण्णिचउरि-दियाण तुल्लं किट्टई संतं / ठिइखंडसहस्साइ, एकेके अंतरम्मि गच्छति / / पलिओवमसंखाणं, दसणसातंतउजाणं। अनिवृत्तिकरणादारभ्य क्रमशोऽसंज्ञिपञ्चेन्द्रियचतुरिन्द्रियादि