________________ उवसग्ग 1052 - अभिधानराजेन्द्रः - भाग 2 उवसग्ग रायाणो रायमचा य,माहणा अदुव खत्तिया। निमंतियांति मोगेहिं, भिक्खूणं साहुजीविणं // 15 // राजानश्चक्रवदियो राजामात्याश्च मन्त्री पुरोहितप्रभृतयस्तथा ब्राह्मणा अथवा क्षत्रिया इक्ष्वाकुवंशप्रभृतयः / एते सर्वेऽपि भोगैः शब्दादिविषयैर्निमन्ायन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति कं भिक्षुकं (साहुजीविणमिति) साध्वाचारेण जीवितुं शीलमस्येति साधुजीविनमिति / यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चिासाधुरुपनिमन्त्रित इत्येवमन्येऽपि केनचित्संबन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुं विषयोद्देशेनोपनिमन्त्रयेयुरिति। 15 / एतदेव दर्शयितुमाह। हत्थस्सरहजाणेहिं, विहारगमणेणिया। मुंज भोगे इमे सग्घे, महरिसी पूजयामुतं / 16 / हस्त्यश्वरथयानैस्तथा विहारगमनैः विहरणं क्रीडनं विहारस्तेन | गमनान्युद्यानादौ क्रीडया गमनानीत्यर्थः / चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमन्त्रायेरंस्तद्यथा भुवि भोगान् शब्दादिविषयानिमानस्माभिटाकितान्प्रत्यक्षासन्नान्श्लाघ्यान्प्रशस्तान्न निन्द्यान् महर्षे ! साधो ! वयं विषयोपकरणढोकनेन त्वां भवन्तं पूजयामः सत्कारयाम इति।१६। किञ्चाऽन्यत्। वत्थगंधमलंकार, इत्थीओ सयणाणि य। मुंजा इमाई भोगाई, आउसो पूजयामु तं / 17 / वस्त्रं चीनांशुकादि गन्धाः काष्ठपुटपाटकादयः वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः / तथा अलङ्कारं कटककेयूरादिकं तथा स्वियः प्रत्यग्रयौवनाः शयनानिचपर्यवृत्तूलीप्रवरपटोपधानयुक्तानि इमान् भोगानिन्द्रियमनोनुकूलानस्माभिढौंकितान् भुक्ष्व तदुपभोगेन सफलीकुरु हेआयुष्मन् ! भवन्तं पूजयामः सत्कारयाम इति / 17 / अपिच। जो तुमे नियमो चिनो, भिक्खुभावम्मि सुथ्वय / अगारमावसंतस्स, सव्वो संविजए तहा।१५। यस्त्वया पूर्व भिक्षुभावे प्रव्रज्यावसरे नियमो महाव्रतादिरूप-- श्चीर्णोऽनुष्ठितः इन्द्रियनोइन्द्रियोपशभगतेन हेसुव्रत! स सांप्रतमप्यगारं गृहमावसतो गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति।न हि सुकृतस्यानुचीर्णस्य नाशोऽस्तीति भावः / 18 / किञ्च / चिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव। इचेवणं निमंतेति, नीवारणेव सूयरं / 16 / चिरंप्रभूतकालं संयमानुष्ठानेन (दूइज्जमाणस्सत्ति ) विहरतः सतइदानीं साम्प्रतं दोषः कुतस्तव नैवास्तीति भावः / इत्येवं हस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोप-करणैः करणभूतैः / णमिति वाक्याङ्कारे / तं भिक्षु साधुजीविनं निमन्त्रयन्ति भोगबुद्धिं कारयन्ति / दृष्टान्तं प्रदर्शयति / यथा नीवारेण व्रीहिविशेषकणदानेन सूकरं वराहं कूटके प्रवेशयन्त्येवं तमपि साधुमपि। 16 / अनन्तरोपन्यस्तवार्तो पसंहारार्थमाह। चोइया भिक्खचरिया, अचयंताजवित्तए। तत्थ मंदा विसीयंति, उज्जाणंसि वदुबला / 20 // भिक्षूणां साधूनामुधुक्तविहारिणां चर्या दशविधचक्रवालसामाचारी इच्छामिच्छेत्यादिका तया नोदिताः प्रेरिता यदि वा भिक्षुचर्यया करणभूतया सीदन्तश्चोदितास्तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तचोदनामशक्नुवन्तः संयमानुष्ठाने नात्मानं यापयितुं वर्तयितुमसमर्थाः सन्तस्तत्रा तस्मिन् संयमे मोक्षैकगमनहे तौ भवकोटिशतावाप्तेर्मन्दा जडा विषीदन्ति शीतलविहारिणो भवन्ति / तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयम परित्यजन्ति / दृष्टान्तमाह। ऊर्द्धयानमुद्यानं मार्गस्योन्नतो भाग उड्डयमित्यर्थः। तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्थाः पूर्वोक्तभवावर्ते : पराभग्ना विषीदन्ति। 20 किञ्च। अचयंता व लूहेण, उवहाणेण तजिया। तत्थ मंदा विसीयंति, उजाणंसि जग्गवा।२१।। रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तस्तथोपधानेनानशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता बाधिताः सन्तस्तत्र संयमे मन्दा विषीदन्त्युद्यानशिरस्युडकमस्तके जीर्णो दुर्बलो गौरिव यूनोऽपि हि तत्रावसीदनं संभाव्यते किं पुनर्जरद्गवस्येति जीर्ण ग्रहणम् / एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं संभाव्यते किं पुनरावर्तरुपसर्गितानां मन्दानामिति 21 सर्वोपसंहारमाह। एवं निमंतिए लद्ध, मुच्छिया गिद्धइत्थीसु। अज्झोववन्ना कामेहि, चोइजंता गया गिहं (तिवेमि) / एवं पूक्तिया नीत्या विषयोपभोगोपकरणं दानपूर्वकं निमन्त्राणं विषयोपभोगं प्रति प्रार्थनं लब्ध्वा प्राप्य तेषु विषयोपकरणेषु हस्त्यश्वरथादिषु मूञ्छिता अत्यन्ताशक्तास्तथा स्त्रीषु गृद्धा दत्तावधाना रमणीरागमोहितास्तथा कामेषु इच्छामदनरूपेष्वध्युपपन्नाः कामगतचिताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणो नोद्यमानाः संयम प्रति प्रोत्सह्यमाना नोदनं सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्वा गृहं गता गृहस्थीभूताः इति परिसमाप्तौ ब्रवीमीति पूर्ववत्। सूत्र०१ श्रु०३१०३ उ०। आ० चू० आत्मविसीदनादयोऽन्यत्र (भिक्षाटनाय गतस्योपसर्गसहनं गोयरचरिया शब्द) (6) अनुकूलोपसर्गसहनमत्र। उडियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं / डहरा वुड्डा य पत्थए, अविसुस्से णय तं लभेजणो॥१६॥ अगारं गृहं तदस्य नास्तीत्यनगारस्तमेवंभूतं संयमोत्थानेनैषणां प्रत्युत्थितं प्रवृत्तं श्राम्यतीति श्रमणस्तं तथा स्थानस्थितमुत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं तपस्विनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् डहरा पुत्रानप्ञादयो वृद्धाः पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुर्याचेरंस्त एवमूचुर्भवता वयं प्रतिपाल्या न त्वामन्तरेणास्माकमेकः प्रतिपाल्य एवं भणन्तस्ते जना अपि शुष्येयुः श्रमंगच्छेयुर्न चतंसाधु विदितपरमार्थ लभेरन् नैवाऽऽत्मसात्कुर्युर्नवाऽऽत्मवशगं विदध्युरिति / 16 / / किञ्च जइ कालुणियाणिकासिया, जइ रोयंति य पुत्तकारणे। दवियं भिक्खुं समुट्टियं,णो लभंतिण संठवित्तए।|१७|| यद्यपि ते मातापितृपुत्राकलत्रादयस्तदन्तिके समेत्य करुणाप्र