________________ उवसग्ग 1051 - अभिधानराजेन्द्रः - भाग 2 उवसग्ग राः किमित्यस्मान् परित्यजसीति // 3 // तथा(मायरमित्यादि मातरं जननी तथा पितरं जनयितारं पुषाण षिभृहि। एवं च कृते तवेह लोकः परलोकच भविष्यति। तातेदमेव लौकिकं लोकाचीर्णमयमेव लौकिकः पन्था यदुत वृद्धयोर्मातापित्रोःप्रति पालनमिति तथा चोक्तम् / “गुरयो यत्रा पूज्यते,यत्रा धान्यं सुसंस्कृतम् / अदन्तकलहो यत्र, तत्र शक! वसाम्यहमिति" 4 अपिच उत्तरा महुरुल्लावा, पुत्ता ते तात खुड्डया। भारिया ते णवा तात, मा सा अन्नं जणं गमे / / उत्तरा प्रधाना उत्तरा जाता वा मधुरो मनोज्ञ उल्लाप आलापो येषां ते तथाविधाः पुत्रास्ते तव तात! पुत्र! क्षुल्लकालघवः। तथा भार्या पत्नी ते नवा प्रत्यग्रयौवना अतिनवोढा वा माऽसौ त्वया परित्यक्ता सत्यन्यं जनं गच्छेदुन्मार्गयायिनी स्यादयं च महाजनापवाद इति। अपि च। एहि ताय घरं जामो, मा य कम्मं सहावयं / वितियं पिताय पासामो, जामु ताव सयं गिहं / / 6 / / जानीमो वयं यथा त्वं कर्मभीरुस्तथाप्येहि आगच्छ गृहं यामो गच्छामः / मा त्वं किमपि सांप्रतं कर्म कृथाः। अपि तु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः साहाय्यं करिष्यामः / एकवारं तावद् गृहकर्मभिर्भग्नस्त्वंतात! पुनरपि द्वितीयवारंपश्यामोद्रक्ष्यामोयदस्माभिः सहायैर्भवतो भविष्यतीत्यतो यामो गच्छामस्तावत् स्वकं गृहं कुर्वेतदस्यद्वचनमिति॥६॥ गंतु ताय पुणो गच्छे, ण य तेणासमणो सिया।। अकामगं पराकम्मं, को उ ते वारेउमरिहति / / 7 / / तात! पुत्र! गत्वा गृहं स्वजनवर्गं दृष्ट्वा पुनरागन्तासि न च तेनैतवता गृहगमनमाोण चाश्रमणो भविष्यसि / (अकामगंति) अनिच्छन्तं गृहव्यापारेच्छारहितंपराक्रमन्तं स्वाभिप्रेतानुष्ठानं कुर्वाणं कस्त्वां भवन्तं वारयितुं निषेधयितुमर्हति योग्यो भविति / यदि वा (अकामगंति) वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति / अन्यच्च। जं किंचि अणगं तात, तं पिसव्वं समीकतं। हिरण्णं ववहाराइ, तं पिदाहासु ते वयं // 8 // तात ! पुत्र ! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य समीकृतंसमभागेन व्यवस्थापितं यदिवोत्कटंसत्सभीकृतं सुदेयत्वेन व्यवस्थापितं यच हिरणयं द्रव्यजातं व्यवहारादावुपयुज्यते। आदिशब्दात् येन वा प्रकारेण तवोपयोग यास्यति तदपि वयं दास्यामो निर्धनोऽहमिति मा कृथा भयमिति / / उपसंहारार्थमाह। इचेवणं सुसेहंति, कालुणीय समुट्ठिया। विवद्धो नायसंगेहिं, ततो गारं पहावइ / / जहा रुक्ख वणे जायं, मालुया पडिबंधइ। एवणं पडिबंधंति, णातओ असमाहिण। 10 // णमिति वाक्यालडकारे / इत्येवं पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्यचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थितास्तं प्रव्रजितं प्रव्रजन्तं वा (सुसेहंतित्ति) सुष्ठ शिक्षयन्ति व्युद्ग्रायन्ति। स चापरिणतधर्माऽल्पसत्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो मातापितृपुत्रकलत्रादिमोहितस्ततो गारं गृहं प्रतिधावति प्रव्रज्यां परित्यज्य गृहपाशगनुबध्नातीति / / किञ्चान्यत् (जहारुक्खमित्यादि ) यथा वृक्ष वने अटव्यांजातमुत्पन्नं मालूयावल्लीप्रतिबध्नाति वेष्टयत्येवंणमिति वाक्यालंकारे ज्ञातयः स्वजनास्तं यतिमसमाधिना प्रतिबध्नन्ति ते तन्कुर्वन्ति येनास्यासमाधिरुपद्यत इति / तथा चोक्तं / " अमित्तो मित्तवेसेण, कंठे घेत्तूण रोयइ / मा मित्त ! सोगई जाई, दो वि गच्छासु दुग्गई"। 10 / अपि च। विबद्धो नातिसंगेहि, हत्थी वा वि नवग्गहे। पिट्टतो परिसप्पंति, सुयगो व अदूरए।११ विविधं बद्धः परवशीकृतः विबद्धो ज्ञातिसगैातापित्रादिसंबन्धस्ते च तस्य तस्मिन्नवसरे सर्वमनुकूलमनुत्तिष्टन्तो धृतिमुत्पादयन्ति हस्तीवापि नवगृहे अभिनवग्रहणे धृत्युत्पादनार्थभिक्षुशकलादिभिरुपचर्यत। एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते। दृष्टान्तान्तरमाह ! यथाऽभिनवप्रसूता गौर्निजस्तनधयस्यादूरगा समीपवर्तिनी सती पृष्ठतः परिसर्पत्येवं तेऽपि निजा उत्प्रव्रजितं पुनर्जातमिय मन्यमानाः पृष्ठतोऽनुसर्पन्ति तन्मार्गानुयायिनो भवन्तीत्यर्थः / 11 / सङ्गदोषदर्शनायाह। एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नायसंगेहिं मुच्छिया / / 12 // एते पूर्वोक्ताः सज्यन्त इति सङ्गाः मातृपित्रादिसंबन्धाः कर्मापादानहेतवः मनुष्याणां पातालाइव समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते (अतारिमत्ति ) दुस्तरा एवमेतेऽपिसङ्गाअल्पसत्वैर्दुःखेनातिलडध्यन्ते। तत्र च येषु सङ्गेषु क्लीवा असमर्थाः क्लिश्यन्ति क्लेशमनुभवन्ति संसारान्तर्वर्तिनो भवन्तीत्यर्थः। किंभूताः ज्ञातिसङ्गैः पुत्रादिसंबन्धमुंछिता गृद्धा अध्युपपन्नाः सन्तो न पर्यालो चयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्ति अपिच। तंच भिक्खू परिन्नाय, सव्वे संगा महासवा।। जीवियं नावकंखिञ्जा, सोचा धम्ममणुत्तरं / / 13 / / तं च ज्ञातिसङ्ग संसारहेतुं भिक्षुपिरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् / किमितियतः सर्वेऽपिकेचन सङ्गास्ते महाश्रवा महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते / ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवित गृहावासपाशं नाभिकाङ्केत नाभिलषेत्। प्रतिकूलैश्चोपसर्ग : सद्भिर्जीविताभिलाषी न भवेदसमञ्जसकारित्वेन भवजीवितं नाभिकाङ्क्षत् / किं कृत्वा श्रुत्वा निशम्यावगम्य कं धर्म श्रुतचारित्राख्यम / नास्योत्तरोऽस्तीत्यनुत्तरं प्रधानं मौनीन्द्रमित्यर्थः / अन्यच। अहिमे संति आवट्टा, कासवेणं पवेइया। बुद्धा जत्थ व सप्पंति, सीयंति अबुहा जहिं // 14 // अथेत्यधिकारान्तरदर्शनार्थः। पाठान्तरं वा (अहो इति) तच्च विस्मये। इमे इति प्रत्यक्षासन्नाः सर्वजनविदितत्वात् सन्ति विद्यन्ते वक्ष्यमाणा आवर्तयन्ति प्राणिनं भ्रामयन्तीत्यावर्तास्ता द्रव्या वर्ता नद्यादेर्भावावर्तास्तूत्कटमोहोदया पादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषा एते चावाः काश्यपेन श्रीमन्महावीरवर्द्धमानस्यामिना उत्पन्नदिव्यज्ञानेनावेदिताःकथिताः प्रतिपादिताः। यत्र येषु सत्सु बुद्धा अवगततत्त्वा आवर्तविपाक वेदिनस्तेभ्यो ऽवसर्पन्ते प्रमत्ततया तद्दूरगामिनो भवन्त्यबुधास्तु निर्विवेकतया ये हावसीदन्त्यासक्तिं कुर्वन्तीति तानेवावर्तान् दर्शयितुमाह।