________________ उवसग्ग 1050 - अभिधानराजेन्द्रः - भाग 2 उदसरग (4) सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धेतृतीयाऽध्ययने उपसर्गसहनं तत्र तावदुद्देशार्थाधिकारमधिकृत्याह। पढमम्मि य पडिलोमा, हुंती अणुलोमगा य वितियम्मि। तइए अज्झत्तविसीदणं य परवादिवयणं च // 5 // प्रथमे उद्देशके प्रतिलोमाः प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति। तथा | द्वितीये ज्ञातिकृताः स्वजनापादिता अनुलोमा अनुकूला इति / तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाऽधिकार इति॥ हेउसरिसेहिं अहेउएहिं,समयपडिएहिं णिउणेहिं। सीलखणितपण्णवना, कथा चउत्थम्मि उद्देशे // 6|| चतुर्थोद्देशके अयमर्थाऽधिकारः तद्यथा हेकतुसदृशैर्हेत्वाभासैरन्यतैर्थिकैर्युद्गृहिताः प्रतारितास्तेषां शीलस्खलितानां व्यामोहितानां प्रज्ञापना यथाऽवस्थितार्थप्ररूपणा स्वसमयप्रतीतैर्निपुणभणितैर्हेतुभिः कृतेति।साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयंतच्चेदम् // सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती। जुज्झंतं दधम्माणं, सिसुपालो व महारहं / / 1 / / कश्चिल्लघुप्रकृतिः संग्रामे समुपस्थिते शूरमात्मानं मन्यते / निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति। न भत्कल्पः परानीके कश्चित्सुभटोऽस्तीत्येवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति। तथा चोक्तं। "तावद्गजः प्रस्तुतदानगण्डः करोत्यकालाम्बुदगर्जितानि / यावन्न सिंहस्य गुहास्थलीषु लाङ्ग लविस्फोटरवं शृणोति / / 1 / / न दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह। यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् आत्मश्लाघाप्रधानं गर्जितवान् पश्चाच युध्यमानं शस्त्राणि व्यापारयन्तं दृढः समर्थों धमः स्वभावः संग्रामाभङ्गरूपो यस्य स तथा तम् / महान् रथोऽस्येति महारथः स च प्रक्रमादत्र नारायणस्तंयुध्यमानं दृष्ट्वा प्रागगर्जनाप्रधानोऽपि क्षोभं गतः / एवमुत्तरत्र दाान्तिकेऽपि योजनीयमिति। भावार्थस्तु कथानकादयवसेयः (सूत्र०) (तच सिसुवालशब्दे वक्ष्यते) ' साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह पयाता सूरा रणसीसे, संगामम्मि उवहिते। मायापुत्तं न याणाइ, जेएण परिवित्थए / / 2 / / यथा वाग्भिर्विस्फूर्जन्तः प्रकर्षेण विकटपादपातं रणशिरसि संग्राममूर्धन्यग्रानीके याता गताः / के ते शूराः शूरमन्याः सुभटाः ततः संग्रामे समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसंघाते सति तत्र च सर्वस्याऽऽकूलीभूतत्वात् माता पुत्रं न जानाति कटीते। भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रतिजागर्तीत्येवं मातापुत्रीये संग्रामे परानीकसुभटेनजेत्राच शक्यादिभिः परि समन्तात् विविधमनेकप्रकारं क्षतो हतश्छिन्नो वा कश्चिदल्पसत्वो भङ्गमुपयाति दीनो भवतीति यावदिति / दान्तिकमाह एवं सेहे वि अप्पुढे, मिक्खायरिया अकोविए। सूरं मण्णंति अप्पाणं, जाव लूहं न सेवए।।३।। एवमिति प्रक्रान्तपरामर्शार्थः / यथाऽसौ शूरमन्य उत्कृष्टसिंहनादपूर्वकं संग्रामशिरस्युपस्थितः पश्चाजेतारं वासुदेवमन्यं वा युध्यमानं दृष्ट्वा दैन्यमुपयाति। एवं शिष्यकोऽभिनवप्रव्रजितः परीषहैरस्पृष्टोऽच्छुप्तः किं प्रव्रज्याया दुष्करमित्येवं गर्जन् भिक्षाचर्यायां भिक्षाटनेऽकोविदोऽनिपुणः | उपलक्षणार्थत्वादन्यत्रा-ऽपि साध्वाचारेऽभिनवप्रव्रजितत्वादप्रवीणः स एवंभूत आत्मानं तावच्छिशुपालवत् शुरं मन्यते यावजेतारमिवं रूक्षं संयमकर्म संश्लेषकारणाभावात् न सेवते न भजत इति / तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्वा भङ्गमुपयान्ति। संयमस्य रूक्षत्वप्रतिपादनायाह जया हेमंतमासम्मि, सीतं फुसइ (सवायगं) सव्वगं / तत्थ मंदा विसीयंति, रजहीणा विखत्तिया॥४॥ यदा कदाचित् हेमन्तमासे पौषादौ शीतं सहिमकणवातं स्पृशति लगति तत्र तस्मिन्नसह्ये शीतस्पर्श लगति सति एके मन्दा जडा गुरुकर्माणो विषीदन्ति दैन्यभावमुपयान्ति राज्यहीना राज्यच्युताः यथा क्षत्रिया राजान इवेति॥४|| सूत्र०३ अ०१ उ०। उक्तः प्रथमोद्देशकः / साम्प्रतं द्वितीयः समारभ्यते / अस्यचायभिसंबन्धः इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपादितास्ते। चानुकूलाः प्रतिकूलाश्च / तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिता इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्योद्देशकस्या-दिमं सूत्रम्। अहिमे सुहमासंगा, भिक्खुणं जे दुरुत्तरा। जत्थ एगे विसीयंति,ण चयंति जवित्तए॥१॥ अथेत्यानन्तर्ये प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः / इमे त्वनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमभिधीयन्ते। ते च सूक्ष्माः प्रायश्चेतोविकारकारित्वेनान्तरा न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया वादरा इति। सङ्गाः मातापित्रादिसंबन्धाः। य एते भिक्षूणां साधुनामपि दुरुत्तरा दुर्लक्या दुरतिक्रमणीया इति / प्रायो जीवितविघ्नकरेरपि प्रतिकूलोपसर्गरुदीर्णर्माध्यस्थ्यमवलम्बयितुं महापुरुषैः शक्यमेते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माच्चयावयन्त्यतोऽमी दुरुत्तरा इति। यत्र येषूपसर्गेषु सत्स्वेके अल्पसत्वाः सदनुष्ठानं प्रति विषीदन्ति शीतलविहारित्वं भजन्ते सर्वथा वा संयमं त्यजन्ति नैवात्मानं संयमानुष्ठानेन यापयितुं वर्तयितुं तस्मिन् व्यवस्थापयितुं शक्नुवन्ति समर्था भवन्तीति // 1 // तानेव सूक्ष्मसङ्गान् दर्शयितुमाह। अप्पेगे नायओदिस्स, रोयंति परिवारया। पोसणे ताय पुट्ठोसि, कस्स ताय जहासिणे // 2|| अपिः संभावने / एके तथाविधा ज्ञातव्यः स्वजना मातापित्रादयः प्रव्रजन्तं प्रव्रजितंवा दृष्ट्वोपलभ्य परिवार्य वेष्टयित्वा रुदन्ति रुदन्तो वा वदन्तिच दीनं यथा वाल्यात्प्रभृति त्वमस्माभिः पोषितो वृद्धानां पालको भविष्यतीति कृत्वा ततो धुनानोऽस्मानपित्वं तात! पुत्र ! पोषय पालय। कस्य कृते केन कारणेन कस्य वा वलेनताताऽस्मान् त्यजसि नाऽस्माकं भवन्तमन्तरेण कश्चित्राता विद्यत इति। किञ्च / पिया ते थेरओ तात, सासा ते खुड्डिया इमा। भायरो ते सगातात, सोयरा किं जहासिणे / / 3 / / मायरं पियरं पोस, एवं लोगो भविस्सति। एवं खु लोइयं ताय, जे पालंति य मायरं / / 4 / / हे तात ! पुत्र ! पिता ते तव स्थविरो वृद्धः शतातीतः स्वसा च भगिनी तव क्षुल्लिका लघ्वी अप्राप्तयौवना इमा पुरोवर्तिनी प्रत्यक्षेति। तथा भ्रातरस्ते तव स्वका निजास्तात! सोदरा एकोद