________________ उवसंपया 1040- अभिधानराजेन्द्रः - भाग 2 उवसंपया एगे अपरिणते य, अयाहारे य थेरए। गिलाणे बहुरोगे य, पाहुडे मंदधम्मए। एकाकिनभाचार्य मुक्त्वा स समागतः। अथवा तस्याचार्यस्य पार्वे ये तिष्ठन्ति ते अपरिणता आहारवस्त्रपात्रशय्यास्थण्डिलानामकल्पिकास्तैः सहितमाचार्य मुक्त्वा आगतः / अथवा स आधार्याधारस्तमेवपृष्ट्वा सूत्रार्थवाचनां ददाति स्थविरो वा स आचार्यः / यद्वा तदीये गच्छे कोऽपि साधुः स्थविरस्तस्य स एव वैयावृत्त्यकर्ताग्लानो वा बहुरोगी वास आचार्यः ग्लानोऽधुनोत्पन्नरोगः। बहुरोगिणाम- चिरकालं बहुभिर्वा रागैरभिभूतः / अथवा शिष्यास्तस्य मन्दधर्माणस्तस्यैव गुणेन सामाचारीमनुपालयन्ति एवंविधमाचार्य परित्यज्यागतः (पाहुडेत्ति) गुरुणा समं प्राभृतं कलहं कृत्वा समागतः / अथवा प्राभृतकारिणःपाखण्डिकास्तस्य शिष्यास्तस्यैव गुणेनागतः। एयारिसं विउस्सज्ज, विप्पवासो ण कप्पती। सीसपडिच्छायरिए, पायच्छित्तं विहिजती॥ एतादृशमाचार्य व्युत्सृज्य विप्रवासो गमनं कर्तुन कल्पते यदि गच्छति ततः शिष्यस्य प्रतीच्छकस्याचार्यस्य च त्रयाणामपि प्रायश्चित्तं विधीयते तत्रैकंग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्छकस्य वासमागतस्य चतुर्गुरुकाः यश्चाचार्यः प्रतीच्छति तस्यापि चतुर्गुरु / प्राभूते शिष्यप्रतीच्छकयोश्चतुर्गुरुकमेव। आचार्यस्य पञ्च रात्रिंदिवं छेदः शेषेषु परतादिषु पदेषु शिष्यस्य चतुर्गुरु। प्रतीच्छकस्य चतुर्लघु आचार्यस्यापि शिष्यं प्रतीच्छतएतेषुचतुर्गुरुप्रतीच्छकप्रतीच्छकस्य चतुर्लधु।प्रतीच्छक प्रतीच्छतश्चतुर्लघु। अथ ज्ञानार्थ त्रीन् पक्षानाप्रच्छनीयमित्यत्रापवादमाह। विझ्यपदमसंविग्गे, संविग्गे चेव कारणागढे। नाऊण तस्स भावं, कप्पति गमणं अणापुच्छा। द्वितीयपदं तत्र भवति / आचार्यादिष्वसंविग्नीभूतेषु न पृच्छेदपि च संविनेष्वपि वा किंचिदागाढं चारित्रविनाशकारणं स्त्रीप्रभृतमात्मनः समुत्पन्नं ततोऽनापृच्छ्यापि च गच्छति तेषां वा गुरूणां स्वभावं ज्ञात्वा तेनोद्धष्टाः सन्तः कथमपि विसर्जयिष्यन्तीति मत्वा अनापृछ्यापि गमनं कल्पते। अथाविसर्जितेन गन्तव्यमित्यपवदति॥ अज्झयणं वोच्छिन्नं ति, तस्य य गहणम्मि अत्थि सामत्थं। ण वि वियरंति चिरेण वि, एतेण विसजितो गच्छे॥ किमाप्यध्ययनं व्यवच्छिद्यते तस्य च तद्ग्रहणे सामर्थ्यमस्ति न च गुरवश्चिरेणापि वितरन्ति गन्तुमनुजानन्ते एतेन कारणेना-विसर्जितोऽपि गच्छेत्। अविधिना आगत आचार्येण न प्रतीच्छनीय इत्यस्यापवादमाह। नाऊण य वोच्छेदं, पुष्वगते कालियाणुओगे य। अविहि अणापुच्छागत, सुत्तत्थविजाणओवोए। पूर्व गते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा अविधिना प्रव्रजिकादिप्रतिबन्धेनागतमनापृच्छ्यागतं वा सूत्रार्थज्ञापको वा येन कश्चिद्दोषः यत्नेन प्रतीच्छकेन शैक्षस्तस्याभिधारितस्यानाभाव्य आनीतः सन गृहीतत्व इत्यपवदति। नाऊण य वोच्छेदं, पुष्वगये कालियाणुओगे य। सुत्तत्थजाणगस्सा, कारणजाते दिसाबंधो। पूर्वगते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा सूत्रार्थज्ञापकेन कारणजाते अनाभाव्यस्याप्यात्मीयो दिग्बन्धः कर्त्तव्यः / आह किमर्थमनिबद्धो न दाप्यते उच्यते अनिबद्धः स्वयमेव कदाचिद्गच्छन् पूर्वाचार्येण वा नीयेत कालदोषेण वा ममत्वाभावमालम्ब्य वाचयिष्यतीति दिग्बन्धोऽनुज्ञातः। इदमेव सविशेषमाहससहाय अवत्तेणं,खोत्ते वि उवट्ठियं तु सचित्तं। दलियं णाउं बंधंति, उभयममत्तट्ठया तं वा / / अव्यक्तेन ससहायेनयःशैक्षोलब्धो यश्च परक्षेत्रेऽपि उपस्थितः सचित्तः स पूर्वाचार्यस्य क्षेत्रिकाणां वा यद्यप्याभाव्यस्तथाऽपि तं दंलिकं परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये गच्छे नाचार्यपदयोग्यः ततस्तस्यात्मीयां दिशं बधाति स्वशिष्यत्वेन स्थापयतीत्यर्थः / कुत इत्याह उभयस्य साधुसाध्वीवर्गस्य तत्र शैक्षो ममत्वमस्माक्मयमित्येवं ममकारो भूयादिति कृत्वा / यद्वा स्वगच्छीयसाधूनां तस्य च शैक्षस्य परस्परं संमेलका वयमित्येवं ममत्वं भविष्यतीति बुद्ध्या तमात्मीयशीष्यत्वेन बध्नाति (तंवत्ति) यो वा प्रतीच्छक आयातस्तमपि ग्रहणाधारणासमर्थं च विज्ञाय स्वशिष्यं स्थापयति एवं शैक्षः प्रतीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो भवति। तदा। आयरिए कालगए, परियट्टइतं गणो उ सो चेव / चोएतिय अपदंते, इमा उ तह मग्गणा होइ।। आचार्ये कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो भण्यतेस स्वयमेव तंगणं परिवर्तयति सच गच्छो यदि श्रुतंन पठति ततस्तं अपठन्तं नोदयति यदि नोदिता अपि ते गच्छसाधवो न पठन्ति तत इयमाभवद्व्यवहारमार्गणा भवति। साहारणं तु पढमे, वितिए खेत्तम्मि ततियसुहदुक्खे। अणिहअंते सीसे,सा एक्कारस विभागा। कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकं साधारणं यद्यसौ प्रतीच्छकाचार्य उत्पादयति तत्तस्यैवाभवति / यदीतरे गच्छसाधव उत्पादयन्ति तत्तेषामेवाभवतीति भावः। द्वितीये वर्षे यत् क्षेत्रोपसंपन्नो लभते तत्तेऽपठन्तो लभन्ते। तृतीये वर्षे यत् सुखदुःखोपसंपन्नो लभते तत्ते लभन्ते / चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किंचिल्लभन्ते / शेषा नाम येऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागाः भवन्ति। शिष्य पृच्छति क्षेत्रोपसंपन्नः सुखदुःखोपसंपन्नो वा किं लभते। सूरिराह॥ खेत्तोवसंपयाए, वावीसं संथुयाय मित्ताय / सुहदुक्खमित्तवज्जा, चउत्थए नालबद्धाई।। क्षेत्रोपसंपदा उपसंपन्नो द्वाविंशति अनन्तरपरम्परावल्लीबद्धान् मातापित्रादीन् जनान्लभते संस्तुतानिच पूर्वापश्चात्संस्तवसं बद्धानि प्रपौत्रश्वसुरादीनिमित्राणि च सहजातकादीनि लभते दृष्टाभाषितानितु न लभते / सुखदुःखोपसंपन्नेषु एतान्येव मित्रवानि लभते / चतुर्थस्तु एवं विधोपमः प्रक्रमप्रामाण्यात् श्रुतोपसंपन्नः स केवलान्येव द्वाविंशतिनालबद्धानि लभते अयं च प्रसङ्गे नोक्तः क्षेत्रोपसंपन्नसुखदुःखापन्नयोर्यदाभाव्यमुक्त्ते शिष्या अनधीयाना द्वितीयेतृतीयेचवर्षे यथाक्रम लभन्ते।चतुर्थे वर्षेसर्वमप्याचार्यस्याभवतिनतेषाम्।येतुशिष्या अधीयते तेषां विधिरुच्यते तस्य कालगताचार्यस्य चतुर्विधो गणो भवेत् /