________________ उवसंपया 1036 - अभिधानराजेन्द्रः - भाग 2 उवसंपया क्षेत्रविवर्ज परक्षेत्रं मुक्तवा सचित्तादिकं लभते (तत् पुरिल्लेत्ति) | तस्याचार्यस्याभिमुखं व्रजति स पुरोवर्ती भण्यते अभिधारित इत्यर्थस्तस्य सर्वमपि सचित्तादिमाभवति। परक्षेत्रेषु लब्धं क्षेत्रिकस्याभाव्यम्। जइणेउं पत्तुमणा, नंते मग्गिले वत्तिपुरिमस्स। नियमव्वत्तसहायाणं तु णियत्तत्तिजं सोयं॥ अथ ते सहायास्तंतत्र नीत्वा आगन्तुकामा अनात्यन्तिका इत्यर्थस्ततो | यत्ते सहाया लभन्तेतत्सर्वमपि (मग्गिलेत्ति) यस्यसकाशात्प्रस्थितास्तस्यात्मीयस्याचार्यस्याभवति (वत्तिपुरिम-स्सत्ति) यत्पुनः स व्यक्तः स्वयमुत्पादयति यत्पुरिमस्य अभिधारितस्याभवतियः पुनरव्यक्तस्तस्य नियमेनैव सहाया दीयन्ते तेचसहाया यद्यात्यन्तिकास्तदायदसौतेच लभन्ते तदभिधारितस्याभाव्यम्। अथतं तत्र नीत्वा निवर्ततेततोयदसौ ते च परक्षेत्रं मुक्त्वा लभन्ते तत्सर्वं पूर्वाचार्यस्याभवति यावदद्याप्यसौ नापितो भवति। वितियं अपुजयंते, न देज वा तस्स सो सहाये तु। वइगादि अपडिवज्झं-तगस्स उवही विसुद्धो उ॥ द्वितीयपदमत्र भवति अपूर्यमाणेषु साधुषु सहायान् साधून तस्याचार्यो न दद्यात् स चात्मना श्रुतेन वयसा च व्यक्तस्तस्य व्रजिकादावप्रतिबध्यमानस्योपधिर्विशुद्धो भवति नोपहन्यते। अथ व्रजिकादिषु प्रतिबध्यते तत उपधेरुपघातो भवति। एगे तू वचंते, उग्गहवनं तुलसति सचित्तं / वचंति गिलाणा अंतरा तु तदि मग्गणा होइ / / यो व्यक्त एकाकी ब्रजति स यद्यन्यस्याचार्यस्य योऽवग्रहस्तर्जिते अनवग्रहक्षेत्रे यत्किंचिल्लभते तत् सचित्तमभिधार्यमाणस्यभवति (वचंतइत्यादि) योऽसौ ज्ञानार्थं व्रजति स द्वौत्रीन् वा आचार्यान् कदाचिदभिधारयेत् तेषांमध्ये यो मे अभिरोचिष्यते तस्यान्तिके उपसंपदं गृहीष्यामीति कृत्वाऽसावन्तरा ग्लानो जातस्तैश्चार्यः श्रुतं यथाऽस्मानभिधार्य साधुरागच्छन् पथि ग्लानो जात इति तत्रेयमाभाव्यानाभाव्यमार्गणा भवति। आयरिया दोण्णि गया, एके एकं च णागए गुरुगा। ण य लभती सचित्तं, कालगते विप्परिणए वा // यदि तौ द्वावप्याचार्यावागतौ ततो यत्तेन लब्धंतदुभयोरपिसाधारणम्। अथैकस्तयोरागत एकश्च द्वितीयो नागतस्ततोऽनागतस्य चतुर्गुरु यच्च सचित्त मचित्तं वा तदसौ न लभते / यस्तं गवेषयितुमागतस्मस्य सर्वभाभवति एवं व्यादिसंख्याकेष्वाचार्येष्वभिधारितेषु भावनीयम् / अथासौ ग्लानः कालंगताः तत्रापि यो गवेषयितुमागच्छति तस्यैवाभवति नेतरेषाम् / अथासौ विपरिणतस्ततोयस्य विपरिणतःसनलभते यत्पुनः सचित्तादिकमभिधार्यमाणे लब्धं पश्चाद्विपरिणतस्ततो यदवि-परिणते भावे लब्धं तल्लभते विपरिणते भावे लब्धं न लभते। पंथसहायसमत्था, धम्मं सोऊण पव्वयामि त्ति। खेत्ते य बाहि परिणए, वाताहडे मग्गणाइणमो।। योऽसौ ज्ञानार्थं प्रस्थितस्तस्य पथि गच्छन् कश्चित् मिथ्यादृष्टिर्वाताहृतः समर्थः सहायो मिलितः स च तस्य पार्श्वे धर्म श्रुत्वा प्रव्रजामीति परिणाममुपगतवान् स च परिणाममुपगतैः साधुभिरपिगृहीते क्षेत्रे जातो भवेत् क्षेत्राद्वा बहिरिन्द्रस्थानादौ वाअपरिगृहीतेवा क्षेत्रे ततस्तस्मिन् वाताहतेप्रव्रजितुं परिणते इयं मार्गणा भवति।। खेत्तम्मि खेत्तियस्स,खेत्तवहिं परिणए पुरेल्लस्स। अंतरपरिणयविप्परिणएण एगा उमग्गणता॥ साधुपरिगृहीतक्षेत्रे प्रव्रज्यापरिणतः क्षेत्रिकस्याभवति / क्षेत्रावहिः परिणतस्तु (पुरिल्लस्सत्ति) तस्यैव साधोराभवति अपान्तराले स प्रव्रज्यायां परिणतो विपरिणतश्च भवति ततः क्षेत्रे च धर्मकथिकस्य रागद्वेषप्रतीत्याऽने का मार्गणाः / तद्यथा यदि धर्मकथी ऋजु: भयात्कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्याभवति अक्षेत्रे परिणतो धर्मकथिकस्य / अथ विपरिणतेन वेगेन कथयति यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि न मे अधुना भवति एवं क्षेत्रनिर्गतस्य कथिते यदि परिणतस्तदा क्षेत्रिकस्याभवतीत्येवं विभाषा कर्तव्या। वीसनियम्मि उवं, अविसञ्जिए चउलहुं व आणादी। तेसिं पि हुंति लहुगा, अविधिविही साइमा होइ।। एवमेव विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः। अथाविसज्जितो गच्छति तदा शिष्यस्य प्रतीच्छकस्य च चतुर्लघु / अथ विसर्जितो द्वितीय वारमनापृच्छ्य गच्छति तदा मासलघु आज्ञादयश्च दोषाः / येषामपि समीपेऽसौ गच्छति तेषामप्यविधिनिर्गतं तं प्रतीच्छतां चत्वारो लघवः। सचित्तादिकं वा भाव्यं न लभन्ते एषोऽविधिरुक्तः / विधिः पुनरय वक्ष्यमाणो भवति / स पुनराचार्य एभिः कारणैर्न विसर्जयति। परिवार पूयहेतुं, अविसज्जते ममत्तदोसा वा। अणुलोमेण गमेजा, दुक्खं खु विमुंचियं गुरुणो।। आत्मनः परिवारनिमित्तं न विसर्जयति बहुभिर्वा परिवारितः पूजनीयो भविष्यामि मम शिष्योऽन्यस्य पावें गच्छतीति समत्वदोषाद्वा न विसर्जयति एवमविसर्जयन्तं गुरुमनुलोमा अनुकूलैर्वाचामिर्गमयेत् कुत इत्याह / (दुक्खंखुत्ति) खलुरवधारण गुरवो विमोक्तुं परमोपकारकारित्वात् न च ते यतस्ततो विमोक्तुं शक्या इति भावः। ततः प्रथमत एव विधिना गुरूनापृच्छ्य गन्तव्यम्। कःपुनर्विधिरिति चेदुच्यते। नाणम्मि तिण्णि पक्खा, आयरिय उवज्झाय सेसगाणं वा। एकेकपंचदिवसे,अहवा पक्खेण एकेकं // ज्ञानार्थ गच्छता त्रीन पक्षानापृच्छा कर्त्तव्या तत्र प्रथममाचार्य पञ्चदिवसानापृच्छति यदि न विसर्जयति तत उपाध्याये पश्च दिवसानापृच्छेत् यदि सोऽपि न विसर्जयति तदा शेषाः साधवः पञ्च दिवसान् पृष्टव्या एष एकः पक्षो गतस्ततो द्वितीयपक्षमेवाचार्योंपाध्यायशेषंसाधून प्रत्येकमेकैकंपञ्चभिर्दिवसैः पृच्छतितृतीयमपिपक्षमेयं पृच्छति एवं त्रयः पक्षा भवन्ति / अथवा निरन्तरमेवाचार्य एक पक्षमापृच्छनीयस्तत उपाध्यायोऽव्येकं पक्षं गच्छसाधवोऽप्येकं पक्षम्। एवं च त्रयः पक्षाः एवमपियदिन विसर्जयन्ति ततोऽविसर्जित एव गच्छति / एयविहमागतं तु, पडिच्छअपडिच्छणे भवे लहुगा। अहवा इमेहिं आगम, एगादिपडिच्छतो गुरुगा। एतेन विधिना आगतं प्रतीच्छकं प्रतीच्छेत् / अप्रतीच्छतश्चतुर्लघुका भवेयुः। अथामीभिरेकादिभिः कारणैरागतंप्रतीच्छति ततश्च-तुर्गुरुकाः तान्येवैकादीनि कारणान्याह