________________ उवसंपया १०३८-अमिधानराजेन्द्रः - भाग 2 उवसंपया ज्ञायाः सकाशादाचार्याणामाज्ञा वलीयस्तराम् / अपि च एवमाचार्यानुवृत्त्या श्रुते दीयमाने जिनाज्ञायाः परिभवो भवति / तथा प्रेषयत उपसंपद्यमानस्य प्रतीच्छतश्च त्रयाणामपिगर्यो भवति तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति ततोगुरुभिः प्रेषितोऽहमिति न वक्तव्यम्। यस्तु भीतादिदोषविमुक्तोऽभिधारिताचार्यस्यान्तिके आयातः स शुद्धः। यस्तु प्रतिषेधकादीनां पार्वे तिष्ठति तत्र विधिमाहअन्नं अभिघारेतुं, अप्पडिसे हपरिसिल्लमण्णं वा। पविसंत कुलादिगुरु,सचित्तादीव से होउ! ते दो उवालमित्ता, अभिधारेज्जंति दंतिम थेरा। घट्टणविआरणंतिय, पुच्छा विप्फालणेगट्ठी। यः पुनरन्यमाचार्यमभिधार्य अप्रतिषेधकं वा पर्षद्वन्तं वा अन्य वा प्रविशति तस्य पार्श्वे उपसंपद्यते इत्यर्थः / तं यदि कुलादिगुरवः कुलस्थविरा गणस्थविराः संघस्यविरा वा जानीयुस्ततो यत्नेनाचित्तं सचित्तं वा तस्याचार्यस्योपनीतं तत्तस्य सकाशात् हृत्वा तौ द्वावप्याचार्यप्रतीच्छ को स्थविरा उपालभन्ते कस्मात् त्वया अयमात्मपावें स्थापितः करमाद्वा त्वमन्यमभिधार्य स्थितः / / एवमुपालभ्य तं प्रतीच्छकं घट्टयित्वा तत् सचित्तादिकं सर्वमभिधारितं | तस्याचार्यस्य प्रयच्छन्ति तदन्तिके प्रेषयन्तीत्यर्थः। अथ घट्टयित्वति कोऽर्थ इत्याह घट्टनेति वा विचारणेति वा पृच्छति वा विस्फालनेति वा / एकार्थानि पदानि। तं घट्टेउ सचित्तं, एसा आरोवणा उ अविहीते। वितियपदमसंविग्गे, जयणाए कयंति तो सुद्धो।। तं प्रतीच्छकं घट्टयित्वा कमभिधार्य भवान् प्रस्थित आसीदिति पृष्ट्वा | सचित्तादिकं तस्य अभिधारितस्य पार्श्वे स्थविराः प्रेषयन्तीति गम्यते | (एसा आरोवणा उअविहीएत्ति) या पूर्वप्रतिषेधकत्वं पर्षन्मीलनंवा कुर्वत आरोपणा भणिता सा अवधिनिष्पन्ना मन्तव्या विधिनाऽनुकरणं कुर्वाणस्य न प्रायश्चित्तम् / तथा चाह (विश्यपयइत्यादि) यमसाववधारयति स आचार्यो ऽसंविग्नः ततो द्वितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् का पुनर्यतनेति चेदुच्यते। प्रथमं साधुस्तंभाणयति मा तत्र व्रज पश्चादात्मनाऽपि भणति पूर्वोक्तेन वा शिष्यादिव्यापारेण प्रयोगेण वारयेत्। एवं यतनया प्रतिषेधकत्वे कृतेऽपि शुद्धो निर्दोषः। अमुमेवार्थमाह।। अभिधारते पासत्थमादिणे तं वजति सुतं अत्थि। जे अपडिसेहदोसा,ते कुट्वं तो विणिरोसो। यानभिधारयन्नसौ व्रजति ते आचायाः पार्श्वस्थादिदोषदुष्टा यच्च श्रुतमसावभिलषति तद्यदि यस्य प्रतिषेधकस्यास्ति ततो ये अप्रतिषेधकत्वं कुर्वतो दोषाः शिष्यव्यापारणादयस्तान कुर्वन्नपि निर्दोषस्तदा मन्तव्यः। जं पुण सचित्तादी,तं तेसिं देति ण वि सयं गेहे। वितिए चित्त ण पेसे, जावइयं वा असंथरणे / / यत्पुनः सचित्तादिकं प्रतीच्छकेनागच्छता लब्धं तत्तेषामभिधारिताचार्याणां ददाति न पुनः स्वयं गृह्णाति / द्वितीयपदे यद्वस्वादिकमचित्तं तदशिवादिभिः कारणैः स्वयमलभमानो न प्रेषयेदपि / अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेषयेत् / असंस्तरणे वा सर्वमपि गृह्णीयात्। सचित्तमप्यमुना कारणेन न प्रेषयेत्। नाऊण य वोच्छेयं, पुथ्वगए कालियाणुओगे य। सयमेव दिसाबंधं, करेन्ज तेसिं न पेसिज्जा। यस्तेन शैक्ष आनीतः स परममेधावी तस्य च गच्छे नास्ति कोऽप्याचार्यपदयोग्यो यच तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो गृहीता न प्राप्यते ततस्तयोर्व्यवच्छेदं ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात् न तेषां प्रागनिर्धारितानां पार्श्वे प्रेषयेत्। अथ पर्षद्वतोऽपवादमाह। असहा तो परिसिल्लत्तणं पि कुज्जा उमंदधम्मे य। पप्प व कालद्धाणे, सचित्तादी तिगिण्हेजा। असहाय एकाकीस आचार्यस्ततः संविनमसंविगं वा सहायं गृह्णीयात् शिष्या वा मन्दधर्माणो गुरूणा च्यापारं न वदन्ति ततो यं वा तं वा सहायं गृह्णतः पर्षद्वत्वमपि कुर्यात् / श्राद्धा वा मन्दधर्माणो न वस्त्र -पात्रादि प्रयच्छन्ति ततोलब्धिसंपन्नं शिष्यं यं वा तं परिग्रहीयात्। दुर्भिक्षादिकं वा कालमध्वानं वा प्राप्य ये उपग्रहकारिणः शिष्यास्तान् संगृह्णीयात्। अथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाह। कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि। पडिसिल्लं पडिसेह,सुद्धो अण्णं व विसमाणो।। यभाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा यद्वा यत्र गन्तुकामस्तत्रान्तरा वा अशिवादीनि श्रुत्वा पर्षद्वतः प्रतिषेधकस्य वा अन्यस्य या पार्श्वे प्रविशेत् शुद्धः एतदविशेषितमुक्तम्। अथात्रैव भाव्यानाभाव्यविशेष विभणिषुराह। वचंतो वि य दुविहो, दत्तमदत्तस्स मग्गणा होति। वत्तम्मि खेत्तवजं, अचंते ण अप्पिओ जाव।। यः प्रतीच्छको व्रजति सोऽपि च द्विविधो व्यक्तोऽव्यक्तश्च तयोः सहायः किं दातव्यो न वेति मार्गणा कर्तव्या। तत्र व्यक्तस्य यः सचित्तो विलासः क्षेत्रवर्ज परक्षेत्रं मुक्त्वा भवति स सर्वोऽप्यभिधारिताचार्यस्याभवति यः पुनरव्यक्तः स सहायर्यावदद्यापि तस्याचार्यस्यार्पितो न भवति तावत्परक्षेत्रं मुक्त्वा यत्ते सहाया लभन्ते तत्पूर्वाचार्यस्यैवाभवतीति संग्रहगाथा-समासार्थः। अथैनामेव विवृणोति। सुतअव्वत्तो गीता, वएण जो सोलसण्ह आरेणं। तव्विवरीओ वत्तो, वत्तमवत्ते य चउत्ते भंगो॥ अव्यक्तो द्विधा श्रुतेन वयसा च। श्रुतेनाढ्यको गीतार्थो वयसा अव्यक्तस्तु षोडशानां वर्षाणामग्विर्तमानस्तद्विपरीतो व्यक्त उच्यते / अत्र च व्यक्ताव्यक्ताभ्यां चतुर्भङ्गी भवति। श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः।१। श्रुतेनाव्यक्तो वयसा व्यक्तः। श्रुतेन व्यक्तो वयसा अव्यक्तः।३। श्रुतेनापि व्यक्तो वयसाऽपि व्यक्तः।४। अस्य च सहायाः किं दीयन्ते उत न दीयन्ते इत्याहवत्तस्स वि दायव्वा, अपुजमाणे सहा य किमु इयरे। खेत्तविवजं अचं-तिएसु जंलब्भत्ति पुरिल्ले। आचार्येण पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनरितरस्याव्यक्तस्य तस्य सुतरां दातव्या इति भावः / तत्र सहाया द्वधा आत्यन्तिका अनात्यन्तिकाश्च / आत्यन्तिका नाम ये तेन सार्द्ध तत्रैवासितुकामाः ये तु तं तत्र मुक्त्वा प्रतिनिवर्त्तिष्यन्ते ते अनात्यन्तिकाः / तत्रात्यन्तिकेषु सहायेषु यदव्यक्तं