________________ उवसंपया १०४१-अभिधानराजेन्द्रः - भाग 2 उवसंपया शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्चेति / एतेषां पूर्वोद्दिष्टपश्चादुद्दिष्टयोः संवत्सरसंख्ययैकादशगमाभवन्ति। पूर्वोद्दिष्टानां यत्तेनाचार्येण जीवता तेषां श्रुतमुद्दिष्टं यत्पुनस्तेन प्रतीच्छकाचार्येणोद्दिष्ट तत्पश्चादुद्दिष्टम्। तत्र विधिमाह। पुवुद्दिडे तस्स, पच्छुहिढे पवाययंतस्स। संवच्छरम्मि पढमे, पडिच्छिए जंतु सचित्तं / यदाचार्येण जीवता प्रतीच्छकस्य पूर्वमेवोद्दिष्टतदेव पठन् प्रथमेवर्षे यत् / सचित्तमचित्तं वा स लभते तत्तस्य कालगताचार्यस्याभवति एष एको विभागः / अथ पश्चादुद्दिष्टं ततः प्रथमसंवत्सरे यत् सचित्तादिकं लभते तत्सर्वं प्रवाचयतः प्रतीच्छकस्याचार्यस्याभवति एष द्वितीयो विभागः। पुटवं पच्छुद्दिष्टे, पडिच्छए जंतु होइ सचित्ते। संवच्छरम्मि वितिए, तं सव्वं पवाययंतस्स॥ प्रतीच्छकः पूर्वो द्दिष्ट पश्चादुद्दिष्ट वा पठन् यत्तस्य सचित्तादिकं तदा द्वितीये वर्षे सर्वमपि प्रवाचयतो भवति / तृतीयो विभागः / अथ पश्चाच्छिष्यस्याभिधीयते। पुव्वं पच्छुट्टेि, सेसम्मि उ जंतु होइ सच्चित्तं / संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवइ / / शिष्यस्य कालगताचार्येण वा उद्दिष्ट भवेत् प्रतीच्छकाचार्येण वा तदसौ पठन् यत् सचित्तादिकं लभते तत्सर्व प्रथमे संवत्सरे गुरोः कालगताचार्यस्याभवति एष चतुर्थो विभागः। पुटवुद्दिद्वं तस्स, पच्छुदिह्र पवाययंतस्स। संवच्छरम्मि वितिए, सीसम्मि उजंतु सचित्तं / / शिष्यस्य पूर्वो द्दिष्टमधीयानस्य द्वितीयवर्षे सचित्तादिकं कालगताचार्यस्याभवतीति पञ्चमो विभागः पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यं भवतीति षष्ठो विभागः। पुष्वं पच्छुद्दिट्टे, सीसम्मि उजं तु होइ सचित्तं / संवच्छरम्मि ततिए तं सव्वं पवाययंतस्स। पूर्वो द्दिष्ट पश्चादुद्दिष्टं वा पठति शिष्ये सचित्तादिकं तृतीये वर्षे सर्वमपि प्रवाचयत आभवतीति सप्तमो विभागः। पुवुद्दिढे तस्स, पच्छुट्टेि पवाययंतस्स। संवच्छरम्मि पढमे, सिस्सिणिए जंतु सचित्तं // शिष्यिकायां पूर्वो द्दिष्टपठन्त्यां सचित्तादिक तस्य कालगताचार्यस्य प्रथमे वर्षे आभाव्यमित्यष्टमो विभागः / पश्चादुद्दिष्टमधीयानायां प्रवाचयत आभाव्यं नवमो विभागः। पुव्वं पच्छुद्दिडे, सिस्सिणिए जंतु होइ य सचित्तं / संवच्छरम्मिवाए, तं सव्वं पवाययंतस्स। पूर्वोद्दिष्ट पश्चादुद्दिष्टं वा पठन्त्यां शिष्यिकायां सचित्तादिलाभो द्वितीये वर्षे प्रवाचयत आभवतीति दशमो विभागः। पुवं पच्छुद्दिष्ठं, पडिच्छिगा जंतु होति य सचित्तं / संवच्छरम्मि पढमे,तं सव्वं पवाययंतस्स॥ पूर्वो द्दिष्टं पश्चादुद्दिष्ट वा पठन्त्यां प्रतीच्छिकायां प्रथम एव संत्सरे | सर्वमपि प्रवाचयत आभवति एष एकादशो विभागः। एक एष आदेश उक्तः / अथ द्वितीयमाह। संवच्छराइ तिन्नि उ,सीसम्मि पडिच्छए उतदिवसं। एवं कुले गणे य, संवच्छरे संघे य छम्मासो॥ प्रतीच्छकाचास्तेिषां कुलसत्को गणसत्कः संघसत्को वा भवेत् तत्र यदितत्सत्कः तदात्रीन् संवत्सरान् शिष्याणां वाच्यमानानां सचित्तादिकं न गृह्णाति / यत्पुनः प्रतीच्छकास्तेषां वाच्यमानानां यस्मिन्नेव दिने आचार्यः कालगतस्तदिवसमेव गृह्णाति एवमेव कुलसत्के विधिरुक्तः। अथाऽसौ गणसत्कस्तन्संवत्सरं शिष्याणां सचित्तादिकं नापहरति यस्तु कुलसत्को गणसत्को वान भवतिसनियमात् संघसत्कः स च षण्मासान् शिष्याणां सचित्तादिकं न गृह्णाति / तेन च प्रतीच्छकाचार्येण तत्र गच्छे वर्षत्रयमवश्यं स्थातव्यम्। परतःपुनरिच्छा। तत्थेव य निम्माए, अणिग्गए निग्गए इमा मेरा। सकुले तिन्नि तियाइं गणे दुगसंवच्छरं संघे // तत्रैव प्रतीच्छकाचार्यसमीपे तस्मिन्ननिर्गते यदि कोऽपि गच्छे निर्मातस्तदा सुन्दरम्। अथन निर्मातःसच वर्षत्रयात्परतो निर्गतस्ते वा गच्छीयाएष सांप्रतमस्माकं सचित्तादिकं हरतीति कृत्वा ततो निर्गतस्तदा इयं मर्यादा सामाचारी (सकुलेइत्ति) स्वकुले स्वकीयकुलस्य समवायं कृत्वा कुलस्य कुलस्थविरस्य वा उपतिष्ठन्ते ततः कुलं तेषां वाचनाचार्य ददाति वारकेण वा वाचयति / कियन्तं कालमित्याह (तिन्नितियत्ति) त्रयस्त्रिका भवन्ति / ततो नव वर्षाणि वाचयतीत्युक्तं भवति। यदा भवता निर्मातस्तदा सुन्दरम्। अथैकोऽपि न निर्मातस्ततः कुल सचित्तादिकं गृह्णातीति कृत्वा गणमुपतिष्ठन्ते गणोऽपिढे वर्षे पाठयति नसच्चित्तादिकं हरति यद्येवमपि निर्मातस्ततः संघमुपतिष्ठन्ते संघोऽपि कचनाचार्यं ददाति सच संवत्सरं पाठयति एवं द्वादश वर्षाणि भवन्ति यद्येवमेकोऽपि निर्मातस्ततः पुनरपि कुलादिस्थविरेषु वा तेन क्रमेणोपतिष्ठन्ते तावन्तमेव कालं कुलादीनि यथाक्रमं पाठयन्ति न सचित्तादिकं हरन्ति एवमन्यान्यपि द्वादश वर्षाणि भवन्तिपूर्वद्वादशभिश्च मीलितानि जाता वर्षाणां चतुर्विशतिः / यद्येतावता कालेन नैकोऽपि निर्मातस्तदा विहरन्तु अथ निर्मातस्ततो भूयोऽपि कुलगणसंघेऽपि तथैवोपतिष्ठन्ते तेऽपि च तथैव पाठयन्ति / एतान्यपि द्वादश वर्षाणि चतुर्विंशत्या मील्यन्ते जाता षट्त्रिंशत् यद्येवं षट्त्रिंशता वर्षरेकोऽपि निर्मातस्ततो विहरन्तु। अथैकोऽपि न निर्मातः। कथमिति चेदुच्यते। ओमादिकरणेहिं च, दुम्मेहत्तेण वा न निम्माओ। काऊण कुलसमायं, कुलथेरे वा उवट्ठति / / अवमादिकारणैरशिवादिभिः कारणैरनवरतमपरापरग्रामेषु पर्यटतां दुर्मे धतया वा नैकोऽपि निर्मातस्ततः कुलसमवायं कृत्वा कुलस्थविरान् वा सर्वेऽप्युपतिष्ठन्तेततस्तैरुपसंपदंग्राहयितव्याः कुत्रपुनरिति चेदुच्यते। पटवजएगपक्खिय, उदसंपययं गहा सए ठाणे। छत्तीसातिकते, उवसंपयए उवादाए॥ यः प्रव्रज्ययैकपाक्षिकस्तस्य पार्श्वे उपसंपदं ते कुलस्थविराग्राहयेयुः सा च उपसंपत् पञ्चधा वक्ष्यमाणरीत्या भवति तस्यां चोपसंपदि षट् त्रिंशद्वर्षातिक्रमे प्राप्तायां (सए ठाणित्ति) विभक्तिव्यत्ययात् स्वकमात्मीयं स्थानमुपादाय गृहीत्वा तैरुपसंपत्तव्यमिदमेव भावयति। गुरुमज्झिलओमज्झं, तिउचउ गुरु गुरुस्स वा भत्तू। अहवा कुलिव्वतो उ, पव्वज्जा एगपक्खीओ॥