________________ उवसंपया 1035 - अभिधानराजेन्द्रः - भाग 2 उवसंपया यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तन्मा के नापि लिङ्गविडम्बक इति ज्ञात्वा प्रतिगृह्येतेति। आचार्ये विधिः। इयरेसिमागमेसुं, मा वायंतेसि लिंगीणं / अपुटवे सागामित्तो, आयरियत्तेतरोमं तु || अथेतरस्तेषामागमेष्वकुशलस्ततः स इदं करोति। तदेवाहमोणेण जं च गहियं, तु कुक्कुडं उभयलिंगिअविरुद्धं / पचयहेउपणामे, जिणपडिमाओ मणे कुणति / / मौनेन वाचंयमलक्षणेन क्रियां करोति मौनव्रतित्वमवलम्बत इत्यर्थः / यच विशिष्टसंप्रदायाद् गृहीतं कुक्कुटविद्यादिनादस्तत्प्रयोगलक्षणम् उभयतोऽपि उभययेषामपि साधुचर्यास्तेषां च लिङ्गि नामविरुद्धं तत्करोति / तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययाद्धेतोः प्रत्ययोत्पादनार्थ बुद्धप्रतिमानां स्तूपानांवा प्रणामकरणी यतयोपस्थिते जिन प्रतिमा मनसि करोति। किमुक्तं भवति। जिनप्रतिमा मनसिकृत्य तेषां प्रणामं करोति। भावे ति पिंडवावि-त्तणेण घेतुं च वचइ अपत्ते। कंदादिपुग्गलाण य, अकारगं एय पडिसेहो / तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति / ततो भिक्षापरिभ्रमणेनजीवति। अथावमौदर्ये दोषतः परिपूर्णो न भवति ततो दानशालायां भिक्षुकादिभिः सह पत्त्या समुपविशति। ततः परिपाट्या परिवेषणे जाते सति (अपत्ते इति) अत्र प्राकृतत्वात्यकारलोपः अयःपात्रे तत् गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति / अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते ततो भिक्षुकादिभिरेव स पङ्क्तयोपविष्ठः सन् समुद्दिशति / तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति तदा ममेदमपकारकं वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुगलस्य च प्रतिषेधः कर्तव्यः। अत्रैवपुद्गगलविषये अपवादमाहवितियपयं तु गिलाणे, निक्खेवं चंकमादि कुणमाणो। लोयं वा कुणमाणो, किइकम्मं वा सरीरादि। द्वितीयपदमपवादपदं यदि भाण्डमात्रोपकारणाना निक्षेपमुपलक्षणमेतत् / आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चङ्कमणादि आदिशब्दादुत्थानादिपरिग्रहः कुर्वन्यदिवालोचं कुर्वन् अथवा कृतकर्म शरीरादेः कुर्वन्यदि ग्लानो भवति तदोपजीव्यं पुद्गलमिति। प्रस्तुतमनुसंधानमाहअहपुण रूसेजाही, तो घेत्तु विगिंचए जहाविहिणा। एवं तु तहिं जयणं, कुज्जाही कारणागाढा / / अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते तर्हि गृह्णीयात् गृहीत्वा च यथाविधिना यथोक्तेन विधिना विगिञ्च्यात् / तेन दृष्टिबन्धनेनापसार्य सूत्रोक्तविधिना परिष्ठापयेत्। उपसंहारमाहइति कारणेसु गहिते, परलिंगे तीरिए तहिं कले। जयकारी सुज्झइ वियड-णाए इयरो जमावेजा। इत्येवमुक्तेन प्रकारेण कारणेष्वशिवादिषु समुपस्थितेषु तीरितेच समाप्ति नीते च कार्ये तत्र यो (जयकारीति) यतनाकारी यथोक्तरूपा यतनां कृतवान् स विकटनया आलोचनामात्रेण शुध्यति यतनया सर्वदोषाणामपहतत्वात्। इतरो नाम येन यतना न कृता स यत् यतनया प्रायश्चित्तमापद्यते तत्तस्मै दीयते॥ (सूत्रम्) भिक्खू य गणाओ अवकम्म ओवहावेज्जा से इच्छेज्जा दोचं पितमेव गणं उवसंपजि विहरित्तए णस्थिणं तप्पइयं केद च्छेदे वा परिहारे वा णन्नत्थ एगाए सेहोवट्ठावणाए।। भिक्खू य गणातो अवक्कम्म ओहावेजा से इच्छेजा, इत्यादि अस्य सूत्रस्य कः संबन्ध उच्यतेएगयरलिंगविजढे, इह सुत्तावणिया उजे हेट्ठा। उभयजढे अयमन्नो, आरंभो होइ सुत्तस्स / / यान्यधस्तात्सूत्राणि पार्श्वस्थादिगतानि तानि एकतरलिङ्ग विजढे एकतरलिङ्ग परित्यागे तथा हि पार्श्वस्थादिसूत्राणि भावलिङ्ग परित्यागविषयाणि परपाखण्डप्रतिमासूत्रं द्रव्यलिङ्ग परित्याग-- विषयामितिशब्दो हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्ग विषयाणि ततोऽयमन्य आरम्भः सूत्रस्य भवत्युभयजढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् एवमनेन संबन्धेनायातस्यास्य व्याख्या। भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायाद -वामुखीभूय पराङ्मुखो भूत्वा गृहस्थपर्यायं प्रतिगच्छेत् द्वितीयमपि वारं तमेव गणमुपसंपद्य विहाँ (नत्थिणमित्यादि) णमिति खल्वर्थे निपातानामनेकार्थत्वात्। नास्ति खलु तस्य कश्चिदपि छेदः परिहारो वा किं सर्वथा न किमपि नेत्याह। नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः / एष सूत्रसंक्षेपार्थः / सांप्रतमेतदेव सूत्रं व्याचिख्यासुरपक्रमेदवधावेदिति भेदपर्यायैर्व्यख्यानयतिनिग्गमनमवलमणं, निस्सरणपलायणं च एगट्ठा। लोटण लुटणपलोटण, ओधाणं चेव एगट्ठा। निर्गमनपक्रमणं निस्सरणं पलायनमित्येकार्थाः / लोटनं लुट्टनं प्रलोटनमवधावनमिति चैकार्थाः / तत्र लोटनमिति लुट विलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृतशब्दार्थप्रतीतिरुपजायते तत्वभेदपर्यायाख्या इति वचनमप्यस्ति। ततस्तदुपन्यास इति। अथ कैः कारणैरवधावनं कुर्यादित्यवधावनकारणान्याह। विसओदएण अहिकरण-भावत्तोव दुक्खसेजाए। इइ लिंगस्स विवेगं, करेज्ज पचक्खपारोक्खं // विषयोदयेन अत्र विषयग्रहणेन विषयविषयो मोहः परिगृह्यते विषयेण विषयिणो लक्षणा ततोऽयमर्थः विषयविषयमोहोदयेन यदि वा केनापि सह अधिकरणभावतः अथ वा दुःखशय्यया चतुर्विधया त्याजित इति हेतोर्लिङ्गस्य प्रव्रज्याचिह्नस्य रजोहरणस्य विवेकं परित्यागं कुर्यात् / कथमित्याह साधूनां प्रत्यक्ष वा कुत्र कुर्यादित्याह। अंतो उवस्सए छडुणाउ बहिगामपासे वा। विइयं गिलाणलोए, कितिकम्मसरीरमादीसु॥ उपाश्रयस्यान्तर्मध्ये लिङ्गस्य छड्डुणा परित्यागः क्रियते / यदि वा बहिरुपाश्रयात् अथवा ग्राममध्ये यदि वा ग्रामस्य पार्वे आसन्नप्रदेशे अथवा तत्रैवाचार्यस्य समीपे इदमवधावनं काले लिङ्गस्योज्झनम् / अपवादतोऽवधावनाभावेऽपि भवति तथा चाह द्वितीयपदम पवादपदं लिङ्ग स्योज्झने ग्लानलो के ग्लानजने शरीरादिषु आदिशब्दादुच्चारपरिष्ठापनादिपरिग्रहस्तेषु कृतकर्मणि व्यापार तथाहि ग्लानस्य शरीरे विश्रामणादिकमुच्चारादिपरि