________________ उवसंपया 1034 - अभिधानराजेन्द्रः - भाग 2 उवसंपया इह पूर्वार्दोत्तरार्द्धपादानां यथासंख्येनयोजनाचैवं यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासो (दुवारेत्ति) गोपुच्छिकं करोति तदाऽपि लघुको मासः। संयती- प्रावरणकरणे चत्वारो लघुमासाः। गरुडादिपरलिङ्गकरणे चत्वारो गुरुकाः (अद्धं सेत्ति) स्कन्धे दिगम्बर वद्यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः (पट्टत्ति) यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुकाः (लिंगदुवे इति) लिङ्ग द्विकं गृहिलिङ्गं परपाखण्डिलिङ्गं च तस्मिन् गृहिलिङ्गे परपाखण्डिलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम्। संप्रति, कालक्खेवो व गमण वा, इत्येतद्व्याख्यानार्थमाहअसिवादिकरणेहिं, रायदुट्टे व होज परलिंगं। कालक्खेवनिमित्तं, पण्णवणट्ठा व गमणट्ठा।। अशिवं देवताकृत उपद्रवः आदिशब्दादवमौदर्यादिपरिग्रहः तेषु अशिवादिकारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्तथा द्वेषणं दिष्टं राज्ञो द्विष्टं राजद्विष्टं राजद्वेष इत्यर्थः / तस्मिन्वासति परलिङ्गं ग्राह्य भवति / किमर्थमिति चेदम् आह / कालेत्यादि। यावत्सार्थो न लभ्यते तावत्स खलु परलिङ्ग ग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलु सहसा विषयः परित्यक्तुमिति यावद्राज्ञः प्रज्ञापना क्रियते तावद् गृह्यतां परलिङ्ग मिति प्रज्ञापनार्थ यदि अशिवादिकारणेषु समुपस्थितेष्वनार्यदेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्ये गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थ वा परलिङ्गग्रहणम्। अथ कस्य परलिङ्ग ग्राह्यमित्याशक्य भिक्षुगादि इत्येतद्व्याख्यानयति। जं जस्स अचियं तस्स, पूयणिजं तमस्सिया लिंग। खीरादिलद्धिजुत्ता, गमंतितं छन्नसामत्था॥ यत् भिक्षुकादिगतंलिङ्ग यस्य राज्ञोऽर्चितं भावेक्तप्रत्ययो मान्य इत्यर्थः / तत्रार्चितमपि नावश्यं कस्याप्यनतिक्रमणीयं भवति / ततोऽनतिक्रमणीयताप्रतिपादनार्थमाह तस्य राज्ञो यत्पूजनीयमन-तिक्रमणीयं तल्लिङ्गमाश्रितास्तल्लिङ्गं प्रतिपन्नाः छन्नसामाः परलिङ्गग्रहणेनाच्छादितस्वरूपाः तं राजानंगमयन्तिाकीदृशा उपशमयन्तीत्यत आह। क्षीरादिलब्धियुक्ताः क्षीराश्रवलब्धिसंपन्नाः आदिशब्दाद्विद्यामन्त्रयोगादि वशीकरणकुशलतायाः परिग्रहः। कलासु सव्वासु सवित्थरासु, आगाढपण्णेसुय संथवेस। जो जत्थसत्तो तमणुंपविस्से, अव्वाहओ तस्स सएव पंथो / / कला द्वासप्ततिसंख्या लोकप्रसिद्धास्तासु कलासु सर्वास्वपि सविस्तारासु आगाढप्रश्रेषु वाऽत्यन्तदुर्भेदप्रश्रेषु परिचयेषुसत्सुयो राजा यत्र कलादिविशेषे सक्त आसक्तो भवति / किमुक्तं भवति तस्य राज्ञो यस्मिन् कलादिविशेषे अत्यन्तमभिष्वङ्गो भवति तमनुप्रवेशयेयुस्तं सम्यग् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्च राजानमुपशमयन्ति / यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपराविरोधी पन्था मार्ग उपाय इत्यर्थः। तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथनोपशान्तस्तत एव कलादिविशेषं तावत्प्ररूपयन्ति यावत्सार्थो लभ्यते। सार्थे च लब्धे निर्गच्छन्ति। तथा चाहअणुवसमंते निग्गमो, लिंगविवेगेण होइ आगाढे। देसंतरसंकमणं, भिक्खुगमादी कुलिंगेण / / अनुपशमयति राज्ञि उपशमं कुर्विति निवेद्य निर्गमो भवति / कथमित्याह / लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिनेनेत्यर्थः। अथ तथापि न मुञ्चति गाढकोपावेशात् (आगढत्ति) अत्यन्त प्रकोपते गाढममोक्षणे भिक्षुकादिलिङ्गेन देशान्तर संक्रमणं कर्त्तव्यम् / अशिवादी वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम्। तत्र येन यथा गन्तव्यं स कीदृश इत्याह। आयरिया संकमणे, परिहरंति दिट्ठम्मि जाय पडिवत्ती। असतीए पविसणं, खुभियम्मि गिहयम्मि जा जयणा।। आर्येण देशेन संक्रमणं तस्मिन्स्वलिङ्गेन गन्तव्यमिति वाक्य शेषः आर्यसंक्रमग्रहणतो भङ्गचतुष्टयं सूचितं तद्यथा आर्यदेशे आर्यदेशमध्येन गमनमित्येको भङ्गः आर्यदेशे अनार्यदेशमध्येनेति द्वितीयः। अनार्यदेशे आर्यदेशमध्येनेति तृतीयः। अनार्यदेशे अनार्यदेशेमध्येनेति चतुर्थः। तत्र प्रथमभङ्गे अर्द्धषविंशतिजनपद मध्ये, द्वितीयभने देशे मालवनामकम्लेच्छदेशमध्येन, तृतीय भङ्गे यथा कुडुक्कविषये आनार्यविषये आर्यविषयमध्येन, चतुर्थ भने पारसीकदेशे अनार्यदेशमध्येन / इह प्रथमभङ्गे ऽशिवादिकारणोप-स्थितौ स्वलिङ्गेन गन्तव्यं। द्वितीय तृतीय चतुर्थ भङ्ग तु परलिङ्गेन / तत्र राज्ञि प्रद्विष्ट अशिवादिकारणे वा भिक्षुकादिलिङ्गेन गच्छन् उद्मादीन् दोषान् तेषां च लिङ्गानामाश्रयस्थानानि परिहरति। तथा गच्छन् यदि केनापि क्वापि ग्रामनगरादौ दृष्टो भवेत्तर्हि दृष्टे सति तेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्तिसामाचारी स कर्त्तव्या / किमुक्तं भवति / तत्सामाचार्या वर्तितव्यमिति / अथ तदाश्रयस्थानपरिहारे न समुदानं लभ्यते ततो ऽसति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्त्तव्यं / अथ यदि तेषां प्रत्ययोत्पादनार्थं बुद्धप्रतिमा स्तूपानि वा वन्दनीयानि भवन्ति तदा जिनप्रतिमा मनसि संप्रधार्य वन्दितव्यानि / भिक्षायां च स्वयं गन्तव्यम् / अथ भिक्षा न लभ्यते ततो भिक्षुकैः सह भोक्तव्यम्। तत्र यदि पुद्गलं कन्दादिकं वा पतति तदा शरीरस्येदं ममानुपकारकं वैद्येन निवारितमिति प्रतिषेधयेत् / अथ कथमपि अनाभोगत-स्तद्रोषभयतो वा गृहीतं भवेत् तदा तस्मिन् गृहीते या यतना या कर्तव्या। किमुक्तं / अल्पसागारिकं कथमप्यपसार्य विधिना परिष्ठापयेत् / एष गाथा संक्षेपार्थः। सांप्रतमेनामेव गाथां विवृणोतिआयरियदेसायरिय लिंगसंकमे त्थ होइ चउभंगो। वितियचरमेसु अन्नं, असिवादिमतो करे अन्नं // आशिवादिषु कारणेषु समुपस्थितेषु आर्यदेशे आर्यदेशमध्येन लिङ्गेन संक्रमो भवति। यन्मध्ये च यत्र च गन्तव्यं तयोरुभयोरपि देशरोर्य-त्वात्। अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी। गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात्। तत्र द्वितीयतृतीयचरमेषु भङ्गेष्वशिवादिगतः सन् अन्यतः गृहस्थलिङ्गं यदि वा यस्य देशस्य मध्येन यत्र वा देशे गन्तव्यं तत्र येऽतिप्रसिद्धा भिक्षुकादयस्तलिङ्गं करोति। संप्रति परिहरतीति यदुक्तं तद्व्याख्यानयति। परिहरइ उग्गमादीविहारठाणे य तेसि लिंगीणं / अपुटवे सागमित्तो, आयरियत्तरोमं तु // परिहरति उद्रमादीन् दोषान् / तथा तेषां लिङ्गानां यानि विहारस्थानानि तानि च परिहरति / तत्र अपूर्वेषु स्थानेषु गतः सन्