________________ उवसंपया 1033 - अभिधानराजेन्द्रः - भाग 2 उवसंपया व्यक्तस्य सहायानांच लाभ इत्यर्थः। यसर्वः पूर्वस्याचार्यस्याभवति सच तावद्यावत्तत्र न निक्षिप्यते। निक्खित्तनियत्ताणं खेत्ते लाभो य होति वाएंतो। तस्स विय जान नीति, लाभो सोवी पवाएंतो।। तमव्यक्तं तत्र निक्षिप्तं कृत्वा ये निवृत्ताः सहायास्तेषां क्षेत्रस्य पञ्चगव्यूतप्रमाणस्यान्तर्मध्ये यो लाभो भवतियवाचयत्याभवति तत्क्षेत्रे तस्य लाभस्य भावात् तस्यापि च निक्षिप्तस्य यावन्न निर्गच्छति तावद्यः कश्चनापि लाभः सोऽपि प्रवाचयति भवति। संप्रति यस्तत्र क्षेत्रस्थितः सन् गणं निक्षिप्योप संपन्नस्तस्य यत्सर्वं न भणितं तदिदानी सिंहावलोकन्यायेनाह अहवा आयरिओ वि, निक्खेत्तगणागतो उ आउत्थे। वाएंतो देइ लाभ,जं खेत्तातो न ईसो ति॥ अथवेति प्रकारान्तरे तच प्रकारान्तरमिदं पूर्व शिष्यस्यव्यक्ताव्यक्तस्य चोक्तमिदानीमाचार्यस्य तत्क्षेत्रगतस्योच्यते आचार्योऽपि क्वचित् गीतार्थे शिष्ये निक्षिप्तगणो भूत्वा तत्रागतस्तत्रोपसंपन्नः सन् यत्स्वयं लभते तमात्मोत्थं लाभं वाचयति / तथा अथ तेन गणः स्वशिष्ये निक्षिप्तस्ततः स क्षेत्रस्याप्रचुरे वेति कुतस्तस्यात्मसमुत्थो लाभस्तत आह / यत् यस्मात्स क्षेत्रिकः क्षेत्रस्य प्रभुरासीत्तस्मान्न शक्यते वक्तुं तस्मिन् क्षेत्रे आत्मसमुत्थस्यलाभस्यन ईशः प्रभुरिति तदेव मुक्तो विधिः संयतानाम्। अधुना संयतीनां विधिमतिदेशत आहअरव्म सूत्ता सरमाणगन्ते, जा पिंडसुत्तं इणमंतिमन्तं / एमेव वचो खलु संजतीणं, वोच्छिन्नमीसेसु अयं विसेसो॥ | सरमाणकान्, आयरियउवज्झाए सरमाणे, इत्येवं रूपान्सूत्रादारभ्य यावदिदमन्तिमं पिण्डसूत्रमेतेषु सूत्रेषु यथा संयतानां विधिरुक्त एवमेव खलु संयतीनामपि गीतार्थपरिगृहीतानां वाच्यः। केवलं व्यवच्छिन्ने मिश्रे वाऽयं वक्ष्यमाणो विशेषस्तमेवाहवोच्छिण्णे उ उवरए, गुरुम्मिगीयाण उग्गहो तासिं। दोण्ह बहूणं च पिंडए, कुलिप्वमन्नं जयभिधारे। व्यवच्छिन्नो नामतासां गुरुरुपरतः कालंगत इत्यर्थः तस्मिन्गुरावुपरते यदि (कुलिव्वमन्नंति) कुलसत्कमन्यमाचार्यमभिधारयन्ति ततस्तासां द्वयोर्बहूनां वा पिण्डकेन समुदायेन स्थितानां गीतार्थानां संयतीनां पिण्डकेन व्यवस्थितानामपि नावग्रहः। मीसो उभयगणाव-च्छेओ तत्थसमणीण जो लाभो। सो खलु गणिणो नियमा, पुटवट्ठिया जाव तत्थ पणे // मिश्रो नाम उभयगणावच्छेदकस्तत्र उभयगणावच्छेदके सति यः श्रमणीनां संयतीनां लाभः स खलु नियमात् ये पूर्वस्थितास्तत्र गणिनो यावदन्येन गच्छन्ति तावत्तस्य गणिनो वेदितव्यः सोऽन्येष्याचार्येष्वागतेषु तेषामिति तदेवं कस्येति द्वारम्। ___ संप्रति कियन्तं कालमवग्रह इति द्वारव्याख्यानार्थमाह। केयति काल उग्गहो, तिविहो उउवङ्गवासखुड्के य। मासचउमासवासे, गेलण्णे सोलसुक्कोसा / / कियन्तं कालमवग्रह इति शिष्येण प्रश्ने कृते सुरिराह / त्रिविधो भवति अवग्रहस्तद्यथा ऋतुबद्ध वर्षाकाले वृद्धवासे च। तत्रऋतुबद्धेकाले उत्सर्गत एकं मासमवग्रहो वर्षे वर्षाकाले चतुरोमासान्ग्लानत्वमधिकृत्योकर्षतः | षोडश मासान् अन्ये तु षोडश वर्षाणित्याहुः / व्य०४ उ०। (अत्र वृद्धावासमधिकृत्य यद्वक्त व्यं तद् वुड्डावासशब्दे वक्ष्यते) (पार्श्वस्थविहारप्रतिमा प्रतिपद्य पुनरुपसंपद्येतेतिपासत्थशब्दे वक्ष्यामि) अथात्रापि किञ्चिद् वक्ष्यामि तत्र। (6) पार्श्वस्थादिविहारप्रतिमासुपसंपद्य विहारे विधिमाह(सूत्रम) भिक्खू अ गणाओ अवक्कम्म परपासंडपडिम उवसंपज्जित्ताणं विहारिजा से य इच्छेज्जा दोचं पि तमेव उवसंपजित्ताणं विहरित्तए नत्थिणं तस्स तप्पइयं कइच्छेदे वा परिहारे वानन्नत्थ एगाए आलोयणाए।३१।। अथास्य सूत्रस्यकः संबन्ध इत्यत आहदोसेण अवक्रता, सवेणं चेव भावलिंगाओ। इति समुदिया उसुत्ता, इणमन्नं देवतोवि गतो॥ द्रव्यलिङ्गमधिकृत्य देशनोपक्रांता भावनिङ्गतो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनाऽपक्रान्ताः पार्श्वस्थादय इति। एवमर्थान्यन्तर-सूत्राणि समुदितानि सम्यक्प्रतिपादितानि इदानीमधिकृत्तमन्यत्सूत्रं द्रव्यलिङ्गेन विगते वियुक्ते द्रव्यलिङ्गवियुक्तविषयमिति भावः / अनेन संबन्धेनायातस्यास्य व्याख्या / भिक्षुः प्रागुक्तशब्दोऽनुक्तसमुचयार्थः / स चैतत् समुच्चिनोति रागद्वेषादिना कारणेन गणादपक्रम्य निर्गत्य परपाखण्डप्रतिमां परपाषण्डलिङ्गमुपसंपद्य विहरेत् विहृत्य च कारणे समाप्ते द्वितीयमपि वारं तमेव गणमुपपद्य विहर्तुमिच्छेत् तस्य तथोपसंपद्यमानस्य नास्ति कश्चिच्छेदो वा परिहारोवा। उपलक्षणमेतत् अन्यदपि प्रायश्चित्तं न किमप्यस्ति / कारणतः परलिङ्ग प्रतिपत्तेः प्रतिपत्तावपि सम्यग्यतनाकरणात्किं सर्वथा न किमपि नेत्याह नान्यत्र एकाया आलोचननिकायाः अन्यत्र शब्दपरिवर्जनार्थो भीमार्जुनाभ्यामन्यत्र सर्वे योद्धार इत्यादिवत्ततोऽयमर्थ एकामालोचनां मुक्तवा पुनर्भवत्येवेति भावः / एष सूत्रसंक्षेपार्थः। अधुना नियुक्तिभाष्यविस्तरः - कंदप्पे परलिंगे, मूलं गुरुगा य गरुलपक्खम्मि। सुत्तं तु मिचगादी, कालक्खेवोवगमणं वा // यदि कन्दर्प कन्दर्पभूत आहारगृढ्यादिकरणलक्षणतः परलिङ्ग करोति ततस्तस्मिन्परलिङ्गे कृते तस्य प्रायश्चित्तं मूलम् ।अथ गुरुडपाक्षिकं गरुडादिरुपं परलिङ्गं करोति तदा चत्वारो गुरुकाः। इत्यादिसूचनार्थः / अत्र पर आह / ननु सूत्रनिर्युक्त्योरनुपपतिः / तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात् नियुक्तिकृता तु वारितं प्रायश्चित्तप्रदानात् / नैष दोषोऽभिप्रायापरिज्ञानात् / नियुक्तिकृता हि कन्दर्पतः करणे प्रायश्चित्तमुक्तं सूत्रं पुनः कथमपि राज्ञि प्रद्विष्ट च यावत्सार्थो न लभ्यते तावत्कालक्षेपः क्रियतामिति। वा हेतौ वाशब्दो न केवलं विकल्पार्थोऽनुक्तसमुच्चयार्थश्च स चैतत्समुचिनोति न शक्यते सहसा विषयपरित्यागं कर्तुमिति यावत्प्रज्ञापना क्रियते (गमनं वेति) गमनं वा अशिवादिकारणतोऽनार्यदेशमध्येन समुपस्थितं ततः एतैः कारणैर्यस्य राज्ञो ये पूज्या भिक्षुकादयः / भिक्षुकाः शौद्धोदनीया आदिशब्दात्परिव्राजकपण्डरागादिपरिग्रहः। तल्लिङ्गं गृह्णीयादित्येतद्विषयमतो न कश्चिद्घोषः / एनामेव गाथा भाष्यकृद् व्याख्यानयति-- खंधे दुवार संजइ, गरुडद्धंसे य पट्टलिंगदुवे / लहुओ अलहुओ लहुया तिसु चउगुरुदोसु मूलं तु॥