________________ उवसंपया 1032 - अभिधानराजेन्द्रः - भाग 2 उवसंपया द्वयोराचार्ययोः ऋतुबद्धे काले साधारणक्षेत्रस्थितयोरेकोऽपर-स्यैकस्य पार्श्वे उपसंपदं गृहीतवान् वर्षारात्रश्च प्रत्यासन्नीभूतोऽन्यानिच क्षेत्राणि वर्षावासयोग्यानि तादृशानि प्रत्यासन्नानि न सन्ति ततः स उपसंपन्न आचार्यस्तत्रेति तस्मिन्नेव आषाढमासिके क्षेत्रे वर्षावासं स्थितस्तेन वाचनाचार्येणाऽन्यत्र वर्षावासयोग्यस्य क्षेत्रस्य प्रतिलेखकाः प्रवर्तन्ते तांश्च प्रवर्तयन्निदमवादीत्। जा तुज्झे पेहेहा, तावेतेसिं इमं तु सारेमि। तं च समं तेसिंदा वासं च पबद्ध मालग्गं / / यावत् यूयं क्षेत्रं प्रत्युपेक्ष्य समागच्छथ तावदेतेषामाचार्याणामिदं श्रुतस्कन्धादिकंसारयामि सूत्रतोऽर्थतश्चगमयामि तच्च श्रुतस्कन्धादिकं तेषां तथा अधीयानानां समाप्तमेत व्यवच्छि-नमित्युच्यते।अत्रान्तरेच वर्ष प्रबन्धेनपतितुमालतेऽपिच क्षेत्रे प्रत्युपेक्षकास्तत्रैववर्षेण निरुद्धाः / निगंतूण न तीरइ, चउमासे तत्थ अत्तगत्ते। लाभे वोच्छिण्णेवं, कुव्वति गिलाणगस्स वि य॥ यतः प्रबन्धेन वर्ष पतितुमारब्धंनच क्षेत्रप्रत्युपेक्षकाः समागच्छन्ततः समाप्तेऽपि श्रुते सवाचनाचार्यस्ततः क्षेत्रान्निर्गन्तुन शक्नोति। अनिर्गश्च तस्मिन् क्षेत्रे चतुरो वर्षारात्रमासान्यावदात्मगतमात्मसमुत्थं लाभं भवेत् द्वितीयोऽप्यात्मसमुत्थस्य लाभस्य स्वामी। एवं कुर्वतिव्यवच्छिन्ने समाते श्रुते अथवा, "गिलाणगस्स वि य इति", समाप्ते श्रुते वाचनाचार्यों ग्लानोऽभवत्ततो गन्तुमशक्तस्यापि च ग्लानस्यैवाभवनव्यवहारो द्रष्टव्यः ।उभयोरपि चतुरो वर्षावासानात्मसमुत्थो लाभ इत्यर्थः। अह पुण अत्थिमे सुए, ते आया वेति मा य तुभं तु / अहो खेत्तं दोमा, साहारणम्मि एसिं तु॥ अथ तत् श्रुतस्कन्धा दिकमद्यापि न समाप्तं ते च क्षेलप्रत्युपेक्षका आयातास्ततो वाचनाचार्या आपृच्छन्ति वयं निर्गच्छामः / तत इमे प्रतीच्छका आचार्य ब्रुवते मा यूयं निर्गच्छत समाप्तेऽपि श्रुते युष्माकं वयं क्षेत्रं दास्यामः / एवमुक्ते तत् क्षेत्रमेतेषां द्वयानामपि साधारणं भवति। एष संस्तरणे विधिः। असंस्तरणमधिकृत्याहअसंथरण निंत अनिते, चउभंगो होइ तत्थ वि तहेव।। एवं तो खेत्तेसुं, इणमन्ना मग्गणविहादी। असंस्तरणे साधुषु निर्गच्छत्सु अनिर्गच्छत्सु चतुर्भङ्गी भवति। सा चैवं वास्तव्यानां चतुर्भङ्गादिना प्रकारेण साधवो निर्गच्छन्ति न वाचनाचार्याणामिति प्रथमः / वाचनाचार्याणां नेतरेषामिति द्वितीयः / उभयेषामिति तृतीयः। नोभयेषामिति चतुर्थः। तत्रापि चतुर्भङ्ग-यामपि तथैवाभवेत् व्यवहारः द्वयानामप्यात्मसमुत्थो लाभ इति भावस्तृतीयभड्ने यो कतर एकतरस्य पार्श्वे साध्वभावत उपसंपद्यते तत उपसंपद्यमानलाभ इतरस्मिन्संक्रामति / अनुपसंपत्तौ च द्वयोरपि साधारणं क्षेत्रम् / एवं तावत् क्षेत्रे मार्गणा कृता / अथायमन्यो मार्गणविधिरादिशब्दात् दिग्वारणपरिग्रहः / गाथायां च स्त्रीत्वनिर्देश: प्राकृत्वात्तमेव मार्गणाविध्याहिकमाह - अद्धाणादिसु नट्ठा, अणुवष्टिया तहा उवट्ठविया। अगविट्ठाय गविट्ठा, निप्पण्णा धारणं दिसासु // अध्वा मार्ग आदिशब्दादशिवमौदर्यादिनिमित्तनिर्गमनपरिग्रहस्तेष्वध्वादिषु मष्टाः साधवस्ते च द्विधा उपस्थापिता अनुपस्थापिताश्च एकैके द्विधा आचार्यस्यते तेन गवेषिता अगवेषिताश्च तत्र ये निप्पन्ना उपस्थिपितास्ते निष्पन्ना एव न तेषां दिग्यारणं कर्त्तव्यमितरेषां यथा भवनं धारणं दिक्षु अध्वादिषु नष्ट इत्युक्तम्। तत्र यैः कारणैस्ते नष्टाः साधवस्तान्यभिधित्सुराहसंभम महंत सत्थे, भिक्खायरिया गया व ते नट्ठा। सिग्धगती परिरएण व, आउरतेणादिये मुंच। संभ्रमोवनदवाग्निसंभ्रमादिकस्तदशात् गच्छास्फिटिता यदि वा महति सार्थे व्रजता कोऽपि कुत्रापीति गच्छादपगतो यदि वा भिक्षाचर्या निमित्तं सार्थादपसृत्य व्रजिकापल्ल्यादिषु गतास्ततो नष्टाः अथवा सार्थः शीघ्रगतिस्ते च मन्दगतयस्ततः / सात् गच्छात् परिभ्रष्टाः (परिरएणवत्ति) यदि वा नद्यादिषु तरितव्यासु सार्थ ऋजुमार्गेणोत्तीर्ण इतरे साधवः परिरयेण गत्वा स्तोकपानीये समुत्तरन्ति चिन्तयन्ति च वयं सार्थे झटित्येव मिलिष्यामस्तेच तथा परिरयेण गच्छतःसार्थातस्फिटिता अथवा आतुराः प्रथमद्वितीयपरीषहाभ्यां जितास्ते तथा आतुराः सन्तोऽशक्नुवन्तः सार्थात्परिभ्रष्टा स्तेनाश्चौरा आदिशब्दात्परचक्रादि परिग्रहस्तेषुस्तेनादिषु समापतत्सु भयेन पलायमाना गच्छादवस्फिटिता एवमध्वादिषु साधवो नष्टा भवन्ति। अत्र मार्गणाविधिं दिग्धारणविधिं चाह। गवे सऊमा व कयव्वया जे, सव्वे व तेसिं तु दिसा पुरिल्ला। गेवेसमाणो लभतेऽणुवढे, अणादिया संगहिया उ जेणं / / ये कृतव्रता उपस्थापिता इत्यर्थस्तान्प्रव्राजनाचार्यो गवेषयतुवा मा वा तथापि तेषां सैव दिक् पुरातनी यां प्रव्राजनाचार्योऽशठभावेन गवेषयति नचलभते तथापितान् सुचिरेणापि कालेन लब्धान् स एव प्रव्राजनाचार्यो लभते (अणादिया संगहिया उ जेणमिति) ये पुनरनादृता अनादरपरेण गवेषितास्ते येन संगृहीतास्तस्यैव ते शिष्या इति स तेषामात्मीयां दिशं धारयति / अयमेव वृद्धोऽर्थोऽन्येनाचार्येण श्लोकेन बद्धस्तमेव श्लोकमाह - गवेसिए पुटवदिसा, अगविट्ठए उ पच्छिमा। अणुवट्ठविए एवं, अभिधारते उ इणमन्ना।। अनुपस्थापिते नष्टशिष्ये शिष्यवर्गे वा प्रव्राजनाचार्येण गवेषिते पूर्वदिक् प्रव्राजना दिग्भवति / अगवेषिते पश्चिमा दिक् येन संगृहीतास्तस्य दिग्भवतीत्यर्थः / एवमनुपस्थापिते मार्गणा भवति / यः पुनरन्य क्षेत्रगतानाचार्यानभिधारयन्द्रजति तत्रेयमन्या मार्गणा / तामेवाह। अभिधारतो वचति, वत्त अवत्तो व वत्त एगागी। जंलभति खेत्तवजं, अमिधारिखंति तं सव्वे / / यस्य क्षेत्रगतानाचार्यान् अभिधारयन् व्रजति व्यक्तोऽव्यक्तोवा गीतार्थोऽगीतार्थो वा इत्यर्थः। तत्र व्यक्त एकाकी व्रजन्यल्लभते तत्सर्व क्षेत्रवर्ज क्षेत्रमेकाकिनो न भवतीति तत्प्रतिषेधः कृतः / अभिधार्यमाणे यस्य समीपे गन्तव्यं तस्मिन् भवति तदभिधारणस्थितेन तस्य लाभात्।। अव्वत्तेससहाए, परखेत्त वजओ लाभो दोण्हं पि। सव्वो सोमग्गिल्ले,जाव न निक्खिप्पए तत्थ / / अथाध्यक्तः ससहायस्तमभिधारयन् व्रजति तर्हि तस्मिन् अव्यक्ते ससहाये व्रजति यः परक्षेत्रव| यस्मिन् क्षेत्रे ते अभिसंधार्यमाणा आचार्या वर्तन्ते तत्क्षेत्रवर्जस्तत्किल क्षेत्रं तेषामभिधार्यमाणाना माभाव्यमिति तत्प्रतिषेधः। यो द्वयोरपि लाभो