________________ उवसंपया 1031- अभिधानराजेन्द्रः - भाग 2 उवसंपया वत्थव्व नितिन उजे, पाहुण्णा ते न इयरे वा। उभयं व नोभयं वा, चउभयणा होति एवं तु / / यस्य ग्रामप्रधानस्य नगरप्रधानस्य वा नियोगेन तिष्ठन्ति साधवः स चतुर्की / तद्यथा आगन्तुकभद्रको नामैको न वास्तव्यभद्रकः / / 13 // वास्तव्यभद्रको नामैको नागन्तुकभद्रकः / 2 / आगन्तुकभद्रको वास्तव्यभद्रकश्च / 3 / नागन्तुकभद्रको नापि वास्तव्यभद्रकः / / / एतचतुर्भङ्गीवशादधिकृताऽपि चतुर्भङ्गी जाता तद्यथा प्रथमभङ्गवशात् वास्तव्या निर्गच्छन्ति न प्राघूर्णिका नियोक्तुरागन्तुकभद्रकत्वात्। द्वितीयभङ्ग वशात् प्राघूर्णिकाः निर्गच्छन्ति न इतरे द्वितीये भङ्गे नियोक्तुस्तिव्यभद्रकत्वाचतुर्थर्भङ्गवशात् उभयंप्राघूर्णिका वास्तव्याश्च निर्गच्छन्ति उभयानपि प्रति नियोक्तुरभद्रकत्वात्तृतीयभङ्गवशान्नोभयं वास्तव्याःप्राघूर्णिकाश्च निर्गच्छन्तिउभयानपि प्रति तस्य भद्रकत्वात्। एवममुना प्रकारेण चतुर्भजनाचतुर्भङ्गीभवति। तत्र प्रथमं भङ्गमधिकृत्य विशेषमाह। आगंतुयभद्दगम्मि, पुवट्ठिया गंतु जइ पुणो एज्जा। तम्मि अपुण्णे मासे, संकामति पुव्वसिं खेत्तं / / आगन्तुकभद्रके नियोक्तरि ये पूर्वस्थितास्ते वक्ष्यमाणचतुर्भागार्द्धभागगमनया यतनया गच्छन्ति। तथाऽप्यसंस्तरणे सर्वात्मना गच्छन्ति तेन गत्वा यद्यपूर्णे एव मासे तस्मिन् क्षेत्रे पुनरागच्छेयुस्तदानीं तेषां प्रत्यागतानां क्षेत्रं संक्रामति तेषां तदाभाव्यं भवतीति भावः। कारणतो गत्वा पुनरपूर्णे एव मासे प्रत्यागमनात् / अथ साधारणमुभयेषां तत्क्षेत्रमासीत्, मा वचसु अम्ह साहारमिति, व्यवस्थाकरणात्तदा तेषां पुनः प्रत्यागतानां साधारण्येन क्षेत्रं संक्रामति। द्वितीयं भङ्गमधिकृत्याह / / वत्थव्वभहगम्मि, संघाडगजयण तहविओ अर्लभो। आगंतुं / ति तओ, अस्थितियो पवायगो नवरं / / वास्तव्यभद्रके नियोक्तरि तेषामागन्तुकानामसंस्तरतामियं यतना। वास्तव्या आगन्तुकैः सममेकैकेन संघाटेन भिक्षां हिण्डन्ते अथ तथाप्यलाभस्तर्हि निर्गच्छन्ति। तत्रेयं भङ्गचतुष्टयेनयतना। आगन्तुकानां चतुर्भागो निर्गच्छतिन वास्तव्यानाम्।१।वास्तयानां चतुर्भागो निर्गच्छति नागन्तुकानाम्।। वास्तव्यानामापि चतुर्भाग आगन्तुकानां च चतुर्भागः / 3 / उभयेषामपिनचतुर्भागोगमने चतुर्थः।४।स चात्रशून्यो गमनमन्तरेण संस्तरणात् / एवमप्यसंस्तर-णेऽर्धाऽगमने यतना प्रथमभङ्गेऽपि द्रष्टव्या / स चात्रापि पूर्वप्रकारेण शून्यः। अथैवमपि न संस्तारन्ति ततः आगन्तुकाः सर्वे निर्गच्छन्ति नवरमेकः प्रवाचक स्तिष्ठति येन वास्तव्यान्प्रवाचयति / अथ सोऽप्यसंस्तरेण स्वशिष्यैः सह गतस्ते च वास्तव्यास्तमुपसंपन्ना यदि, “मा वच्चह साहारमिति, व्यवस्थाकरणत उभयेषां साधारणं तत्क्षेत्रं ततो यदि गत्वा पुनरपूर्णे एव मासे तत्र क्षेत्रे प्रत्यागच्छन्ति तदा कृतायामुपसंपदि तेषामेव प्रत्यागतानां क्षेत्रमाभाव्यतया साधारणेन। सांप्रतमनयोरेव भङ्गयोराभवनव्यवहारशेष उच्यते / अत्र पतितं, नियट्ठिसुहदुक्खयं जति करेंती, ति द्वारमस्य व्याख्यानामार्थमाह। सुहदुक्खितो समत्ते, वाएंतोनिग्गएस सीसेसु। व इतो विहता, निग्गयसीसो समत्तम्मि। इदमुक्तमागन्तुकाः सर्वेऽपि निर्गच्छन्ति केवलमेव प्रवाचकोऽवतिष्ठते तत्र यदि निर्गतेषु शिष्येषु वाचयन् प्रवाचकः समाप्ते श्रुते सुखदुःखितः सुखदुःखनिमित्तमुपसंपदं ग्राहितस्तथा तस्य वान्यस्याभवति तत् क्षेत्रम् / इदं द्वितीयभङ्गमधिकृत्योक्तम् / प्रथमभङ्गमधिकृत्याह / तथा वाच्यमानो निर्गतशिष्यः समाप्ते श्रुते वक्तव्यः किमुक्तं भवति यदि वाच्यमानो निर्गतेषु शिष्येषु वाचनाग्रहणाय पश्चात् स्थितः समाप्ते श्रुतस्कन्धे याचयता सुख-दुःखनिमित्तमात्मोपसंपदं ग्राहितस्तदा वाचयत आमवति क्षेत्रम्॥ दोण्ह वि विणिग्गएK, वाएंतो तत्थ खेत्तितो होइ। तम्मि सुए असमत्ते, समत्ते तस्सेव संकम्मति॥ तद्वयोरपि शिष्येषु विनिर्गतेषुतावेव द्वौ केवलौ तिष्ठतस्तत्र यावदद्यापि तत्श्रुतंन समाप्यतेतावत्तस्मिन् श्रुते असमाप्तेतत्र तयोर्द्वयोर्मध्येवाचयन् क्षेत्रिको भवति समाप्ते पुनः श्रुतस्यैव पूर्वस्थितस्य तत्क्षेत्रं संक्रामति। अथद्वावपि परस्परं सुखदुःखोपसंपदं प्रतिपन्नौ तदा साधारणं क्षेत्रमिति यो यल्लभते तस्य तदाभवतीति। संथरे दो विननिति, बहवे उववाइया उजइसीसा। लाभो नत्थि महत्ति य, अहव समत्ते पधाविजा।। संस्तरे संस्तरणाद्वयेऽपि पूर्वास्थिता आगन्तुकाश्च न निर्गच्छन्ति। तैश्च पूर्वस्थितैर्यदि बहवः शिष्या उपपादिता उत्पादितास्तदा स आगन्तुको नास्ति मम लाभ इति विचिन्त्य प्रधावेत् गच्छेत् अथ ते निक्षिप्तगणास्तस्य समीपे वाचयन्ति तेषां शिष्यो वा तत आह / अथवा समाप्ते श्रुते प्रधावेत् संप्रति, निट्टियपहाविओवा रुद्धो पच्छा य वाधातो, इत्येतद् व्याख्यानयति॥ जइ वायगो समत्तो, निति उ पडिच्छिएहि रंधेजा / असिवादिकारणे वा, तत्तो लाभो इमो होइ॥ यदि समाप्ते श्रुते ततः क्षेत्रात्वाचको निर्गच्छन् प्रतीच्छिकैरुच्यते यथा मा निर्गच्छत यूयं वयमद्यापि वाचयिष्याम इति / यदि वा निर्गतो बहिरशिवादीनि कारणान्युपस्थितानि ततो व्याघात इति कृत्वा न निर्गच्छति तदा तस्मिन्प्रतिच्छिकैरवरोधनात् पश्चाद् व्याघाताद्वा अनिर्गच्छति तस्यायमायो लाभो भवति। तमेवाह -- आयसमुत्थं लाभ, सीसपडिच्छएहिं सोलहइ। एवं च्छिण्णुववाए, अच्छिण्णे सीसागते दोण्हं।। स प्रातीच्छिकैर्गच्छन्नपरुद्धः सन् यच तस्य शिष्या यच तस्य प्रतीच्छिका वा लभन्ते तत्सर्वमात्मसमुत्थं शिष्यप्रातीच्छिकैर्वा समुत्पादितं लभते एवमाभवनं छिन्ने समाप्ते उपपाते हेतौ श्रुतस्कन्धादौ श्रुतेद्रष्टव्यम्।अच्छिने असमाप्ते श्रुतस्कन्धादौयदितस्य पठतआचार्यस्य शिष्या ग्रामान्तरगताः प्रत्यागताः तस्य च शिष्यो नियमात् गीतार्थों यस्य गण आरोपितस्तदा द्वयोरपि लाभः साधारणो गीतार्थे शिष्ये निक्षिप्तगणतया पठतोऽप्याचार्यस्य पाठयिता गच्छन्तेन प्रतिरुद्ध इति पाठयितुरप्याभवनात्।। एवं ता उउबद्धे, वासासु इमो विही हवति तत्थ। खेत्तपडिलेहगा उ, पयट्ठिया तेण अन्नत्थ।। एवं तावत् ऋतुबद्धे काले आभवनव्यवहारविधिरुक्तो वर्षासु वर्षाकाले पुनरयं वक्ष्यमाणो विधिर्भवति तमेवाह (तत्थेत्यादि)