________________ उवसंपया 1036 - अभिधानराजेन्द्रः - भाग 2 उवसंपया MS ठापनादिकं वा कुर्वन् खरण्टनादिभयाल्लिङ्गस्य विविक्ते प्रदेशे मोचनं भवतीति। संप्रत्यवधावनेन लिङ्गस्योज्ने विधिविशेषमाह। उवसामिए परेण व, सयं च समुट्ठिए उवठ्ठवणा। तक्खणचिरकालेण व, दिलुतो अक्खभंगेण / / उपाश्रयान्तः प्रभृतिषु येषु स्थानेषु रजोहरणं मुक्तं तेषु स्थानेषु तेभ्यः परस्मिन्वाऽन्यस्मिन् स्थाने उपशामिते परेणोपशमं नीते स्वयं वा तथाविधानुकूलको दयतः उपशमं गते ततः पुनरकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वा दीर्घकालेन गुरुसमीपे समुस्थिते नियमादुपस्थापना कर्तव्या नान्यथा प्रवेशनीयः / आह यदि तेन न किश्चिदपि प्रतिसेवितं ततः कस्मादुपस्थाप्यते / अत्र सूरिराह / दृष्टान्तोऽत्राक्षभङ्गेन यथा शकटस्याक्षे भने नियमा-दन्योऽक्षः क्रियते एवं साधोरपि भावाक्षे भने पुनरुपस्थापनारूपो भावाक्ष आधीयते / अक्षोऽध्वा पुनरपि परः प्राह। मूलगुणउत्तरगुणे, असेवमाणस्स तस्स अतियारं। तक्खण उवट्टियस्स उ, किं कारणा दिए मूलं / / / मूलगुणे मूलगुणविषये उत्तरगुणे उत्तरगुण विषये किंचिदप्यतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यत आह ! तत्क्षणं लिङ्गोज्झनानन्तरं तत्काले अपुनःकरणतया समुत्थितस्य न भावाक्षो भग्न इति। किं कारणं तस्मै मूलं दीयते उपस्थापना क्रियते। सूरिराह। सेवउ मा उ वयाणं, अतियारं तहवि देति से मूलं। विगडासवा जलम्मि उ, कहनु नावान वोडेजा।। व्रतानां प्राणातिपातविनिवृत्त्यादीनामतीचार सेवतां या मा वा तथापि / (से) तस्य प्रवचनोपनिषद्वेदिनो मूलंददाति भावतोऽसंवृताश्रवद्वार-तया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया भावनामाह (वियडासवेत्यादि) विकटानि अतिप्रकटानि स्थूराणीत्यर्थः आश्रवाणि जलप्रवेशस्थानानि यस्याः सा तथा रूपा सती नौः कथं नु जले प्रक्षिप्ता न विमज्जेदिति भावः / आश्रवद्वाराणामतिप्रकटानामभावादेवं साधुरपि भावतोऽनिवारिताश्रवस्सन शुभ कर्मजले निमजतीति भवति तस्योपस्थापनार्हता। अत्रैव दृष्टान्तान्तरमाहचोरिस्सामि त्ति मतिं, जो खलु संधाइ फेडए सुद्ध। अहियम्मि विसो चोरा, एमेव इमं पिपासामो॥ अहं चोरयिष्यामिति संधाय यः खलु मुद्रां स्फेटयति स यद्यपि तदानीमारक्षकैगृहीत्वादिना कारणेन न किञ्चिदपहृतवान् तथापि तत्परिणामोपेतत्वादनपहतेऽपि स चौरो भवति। एवमेव अनेनैव प्रकारेण इममपि पश्यामः। अचरितपरिणामोपेतत्वेनचरितत्वादुपस्थापनायोग्य पश्याम इत्यर्थः / व्य० प्र०१ उ०। (7) गणादपक्रम्येच्छेदन्यं गणमुपसंपद्य विहर्तुमिति प्रकारान्तरेण प्रतिपादयति। (सूत्रम) भिक्खू य गणाओ अवकम्म इच्छेजा अन्नं गणं उवसंपग्जित्ताणं विहरित्तए न मे कप्प अप्पचित्ता आयरियं चा उवज्झायं वा पवत्तिं वाथेरि वा गणिं वागणहरिं वा गणावच्छेइयं वा अण्णं गणं उवसंपजित्ताणं विहरित्तइ कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावछिइयं वा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए ते य से विहरेज्जा एवं से कप्पइ अन्नं गणं उवसंपत्तिाणं विहरित्तए ते य से नो वितरेज्जा एवं से नो कप्पइ अन्नं गणं उवसंपज्जित्ताणं विहरित्तए।। एवमग्रेतनमपि सूत्राष्टकमुच्चारणीयम् / भिक्षुः सामान्यसाधुश्च शब्दान्निर्ग्रन्थी च गणादवक्रम्य निर्गत्य इच्छेदभिलषेदन्यं गणमुपसंपद्य विहर्तु नो (से) तस्य भिक्षोः कल्पते नो आपृच्छ्याचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणधरंवा गणावच्छेदकंवा अन्यंगणवा उपसंपद्य विहर्तु कल्पते (से) तस्य भिक्षोराचार्य वा यावत्करणं दुपाध्यायं वा प्रवर्तिनं वा स्थविरं वा गणधरं वा गणावच्छेदकं वा आपृच्छयान्यं गणमुपसंपद्य विहर्तुं ते चाचार्यादय आपृष्टाः सन्तस्तस्यान्यगणगमनं वितरेयुरनुजानीयुस्तत एवं तस्यकल्पते अन्य गणमुपसंपद्य विहर्तुतेच तस्य न वितरेयुस्ततो नो कल्पते तस्यान्यं गणमुपसंपद्य विहर्तुमिति सूत्रार्थः। अथ नियुक्तिविस्तारःतिहाणे अवकमणं,णाणट्टादसणे चरित्तट्ठा। आपुच्छिऊण गमणं, भीतो य नियत्तते कोवि।। स्थानं कारणमित्येकोऽर्थस्ततस्त्रिभिः स्थानैः करणैर्गच्छादपक्रमण भवति ज्ञानार्थ दर्शनार्थं च / अथ निष्कारणमन्यं गणमुपसंपद्यते ततश्चतुर्गुरुकम् आज्ञादयश्च दोषाः / कारणेऽपि यदि गुरुमनापृच्छ्य गच्छति ततश्चतुर्गुरुकं तस्मादापृच्छय गन्तव्यम् / तत्र ज्ञानार्थ तावदभिधीयते यावदाचार्यसकाशे श्रुतमस्ति तावदशेषमपि केनापि शिष्येणाधीतम् अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिकश्रुतग्रहणार्थमाचार्यमापृच्छति आचार्येणापि स विसर्जयितव्यः तस्यैवमापृछ्य गच्छतइमे अभिचारा भवन्तिनपरिहर्त्तव्याः। तत्र कश्चित् तेषामाचार्याणां कर्कशचर्या श्रुत्वा भीतस्सन्निवर्त्तते यथा॥ चिंततो, वइगादी, संखडि, पिसुगादि, अपडिसेहे य। परिसेल्ले, सत्तमपयं,गुरुपे सविए य सुद्धो य॥ किं व्रजामि मा वेति चिन्तयन् व्रजति वजिकायां वा प्रतिबन्ध करोति आदिशब्दाद्दानश्रद्धादिषु दीर्घा गोचरचर्यां करोति। अप्राप्तं चावेशकालं प्रतीक्षते (संखडित्ति) संखड्यां प्रतिबध्यते (पिसुगाइति) पिशुकं मत्कुणादितया निवर्तते / अन्यत्र वा गच्छे गच्छति (अप्पडिसेहेत्ति) कश्ब्दिाचार्यः परममेधाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किं तु शिष्यान् व्यापारयति तस्मिन्नागते व्यञ्जनघोषशुद्धं पठनीयं येनाव एष तिष्ठति एवं प्रतिषेधापनेऽपि अप्रतिषेधको लभ्यते। तेनैवं विपरिणामितः सन्तदीये गच्छे प्रविशति (परिसिल्लेत्ति) पर्षद्वान् स उच्यते यः संविग्नायाः असंविनायाश्च पर्षदः संग्रह करोति तस्यपाचे तिष्ठतः (सत्तमपयं गुरुपेसविए अत्ति) तत्र संप्राप्तो ब्रवीति अहमाचार्यः श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषितः / एतेषु भीतादिष्वष्टस्वपि पदेषु वक्ष्यमाणभीत्या प्रायश्चित्तम् / यस्तु भीतादिदोषविप्रमुक्तः समागतो व्रवीति अहमाचार्यविसर्जितो युष्मदन्तिके समायात इति स शुद्धो न प्रायश्चित्तभाक् / भीतादि पदेषु प्रायश्चित्तमाह। पणगं च भिन्नमासो,मासो लहुगा य संखडी गुरुगा।