________________ उवसंपया 1028 - अभिधानराजेन्द्रः - भाग 2 उवसंपया धिके सति रत्नाधिके एव पूर्व शैक्षतरेण विहार विकटना अपराध विकटना च दातव्या तत्पश्चात् रत्नाधिकः शैक्षे शैक्षतरकस्य विहारविकटनां ददाति। अथ शैक्षतरको गीतार्थो रत्नाधिकस्त्वगीतार्थस्तत्राह - सेहतरगे वि पुवं, गीयत्थे दिज्जए पगासणया। पच्छा गीयत्थो विहुददाति आलोयणमगीते।। यदि गीतार्थः शैक्षतरकस्तर्हि तस्मिन् गीतार्थे शैक्षतरकेऽपि पूर्व रत्नाधिकेन प्रकाशना विहारविकटना अपराधविकटना चेत्यर्थः दीयते पश्यात् गीतार्थोऽपि सन् स शैक्षतरको हु निश्चितमगीते रत्नाधिके आलोचनां विहारालोचनां ददाति न त्वपराधालोचनां कस्मादित्याह - अवराह विहारप्पगासणाउ, दोण्णि वि भवंति गीयत्थे। अवराहपये मुत्तुं, पगासणं होतु ऽगीयत्थे॥ अपराधप्रकाशना विहारप्रकाशना च एते द्वे अपि प्रकाशने भवतो गीतार्थे / अगीतार्थे पुनरपराधपदं मुक्त्वा शेषस्य विहारस्य प्रकाशनं भवति विहारालोचना भवति नापराधालोचनेति भावः / अगीतार्थतया तस्यापराधालोचनानर्हत्वात्। संप्रत्युपसंहारमाह - क्षिक्खुस्सेगस्स गयं, पलिछन्नाणं इयाणि वोच्छामि। दव्वपलिच्छाएणं,जहण्णेणं अप्पतझ्याणं / / "भिक्खुस्स मासियं खल्वि" त्यनेन पदेन यदेकस्य भिक्षोर्वक्तुमु-- पक्रान्तं तद्गतं परिसमाप्तमिदानी द्रव्यपरिच्छेदेन परिच्छन्नानां जघन्येनात्मतृतीयानां यद्वक्तव्यं तद्वक्ष्यामि। तदेवाह - तेसिंगीयत्थाणं, अगीतमिस्साण एस चेव विही। एत्तो सेसाणं पिय, वोच्छामि विहिं जहाकमसो।। तेषां परिच्छेदेन परिच्छन्नानां जघन्यत आत्मतृतीयानां बहूनां सर्वेषां गीतार्थानामथवा अगीतार्थानां यदि वा मिश्राणां केषांचिद्गीतार्थानां केषांचिदगीतार्थानामित्यर्थः / एष एवानन्तरो दिक्षुगत आचार्याणामालोचनाविषयो विधिरवसातव्यो व्यतिरेके च प्रायश्चित्तमपि तथैव / अत ऊर्द्ध शेषाणामपि विधिं यथाक्रमशो यथाक्रमेण वक्ष्यामि / तत्र शेषशब्दवाच्यानुपदर्शयतिसेसा ते भण्णं ती, अप्पवितिया उजे तहिं केई। गीयत्थमगीमत्थे, मीसे य विहिउ सो चेव।। शेषा नाम ते भण्यन्ते यत्र तेषां बहूनां भिक्षणांमध्ये के चिदात्मद्वितीयास्तस्मिन् शेष गीतार्थे अगीतार्थे मिश्रेचसएव पूक्तिोविधिरालोचनाविषयस्तद्व्यतिरेके प्रायश्चित्तविधिश्चावसातव्यः॥ संप्रतिचशब्दव्याख्यानमाह - संजोगा उचहद्देण, अहिगया जह एगो दो चेव। एगो जइन विदोण्डिं, उवगच्छे चउलहु तो से / / परिच्छन्नानां चेत्यत्र च शब्देन संयोगा अधिकृताः सूचिता इत्यर्थस्तानेवोपदर्शयति। तथा चेति भङ्गोपदर्शने एकतएको भिक्षुरपरतो द्वौ भिक्षु तत्रैकेनात्मद्वितीय उपसंपत्तव्यो यदि पुनरेको द्वावुपगच्छति उपसंपद्यते तदा (से) तस्य प्रायश्चित्तं चत्वारो लघुकाः। पच्छा इतरे एगं,जइन उवगच्छे मासियं लहुयं / जत्थ वि एगो तिण्णि न उवगमे तत्थ वीलहुगा / / एकस्मिन्नुपसंपन्ने परचादितरावप्युपसंपद्येते यदि पुनरेकं तावितरौ पश्चान्नोपगच्छेतांतदा तयोर्मासिकं प्रायश्चित्तं लघुकं। यत्रापि भङ्गे एकत एकोऽपरत्र त्रयस्तत्र यदि पस्परमुक्तप्रकारेण नोपगमस्तदा प्रायश्चित्तं लघुकाः। किमुक्तं भवति / यद्येकस्त्रीन्नोपगच्छति तदा तस्य प्रायश्चित्तं चत्वारो लघुकास्तंचेदुपगच्छन्तं पश्रचादितरे त्रयो नोपगच्छन्ति तर्हि तेषां प्रायश्चित्तं लघुको मासः // एमेव अप्पवीतो, अप्पतइयं तु जइन उवगच्छे। इयरेसि मासलहुयं, एवमगीए य गीए य॥ एवमेव अनेनैवान्तरोदितेन प्रकारेणात्मद्वितीय आत्मतृतीयं यदि नोपगच्छति तदा तस्य प्रायश्चित्तं चतुर्लधु / इतरश्चेत्यनुपगच्छन्तं नोपगच्छेत्तदा तस्य मासिकं लघु इतरेषामेक आत्मतृतीयोऽपर आत्मचतुर्थ इत्येवमादीनां परस्परमनुपगमे प्रायश्चित्तं मासलघु। एवमुक्तप्रकारेणागीते अगीतार्थानां गीते गीतार्थानां च द्रष्टव्यम्। मिश्रानधिकृत्याह - मीसाण एगो गीतो, होति अगीया उदोहि तिण्णि विवा। एवं उवसंपळे, ते उ अगीया इहरमासे // मिश्राणां मध्ये एक एकाकी गीतोगीतार्थोऽपरे तु द्वौत्रयो वा भवन्त्यगीता अगीतार्थाः तत्र तेऽगीता एकमुपसंपोरन्। इतरथा चेन्नोपसंपद्यन्तेतर्हि तेषां प्रायश्चित्तं लघुको मासः। सो विय जइन वि इयरे, तस्स वि मासो उ एव सव्वत्थ। उपसंपया उतेसिं, भणिया अण्णोण्णनिस्साए। सोऽपि चैको यहितान् इतरानुपसंपद्यमानान्नोपसंपद्यतेतदातस्यापि प्रायश्चित्तं मासो लघु। एवमेक आत्मद्वितीयो गीतार्थोऽपर आत्मतृतीय आत्मचतुर्थ इत्यादौ सर्वत्र भावनीयमेवमन्योन्यनिश्र-याप्राक् द्वारगाथायां तेषामुपसंपद्धणिता उपदिष्टाअण्णोण्णनिस्सियाणं, अगीयाणं पि उग्गहो तेसिं। गीयपरिग्गहियाणं, इच्छाए तेसिमो होइ॥ अन्योन्यनिश्चितानां तेषामगीतानामपि गीतपरिगृहीतानामवग्रहो भवति। अवग्रहो नाम आभवनव्यवहारः सच द्विधा इच्छया सूत्रोक्तश्च / तत्रेच्छया तेषामयं वक्ष्यमाणो भवति तमेवाहइच्छियपडिच्छियाए,ण खेत्त वसहीयदोण्ह वी लाभो। इच्छं तो न होई उम्गहो, निकारणकारणे दोण्हं॥ इच्छाया अवग्रहो नाम इच्छितप्रतीच्छितेन इच्छा संजाताऽस्येति इच्छितंप्रतीच्छ संजाताअस्येति प्रतीच्छितम् इच्छितंचतत्प्रतीच्छितं च इच्छितप्रतीच्छितम्। वाचा आभवनव्यवहारस्थापना ! यथा यत्पथि लभ्यते तदस्माकं यत् ग्रामे तत् युष्माकं यदि वा यत्सचित्तं तदस्माकं यदचित्त तत्युष्माकम्। अथवा या स्त्री व्रतग्रहणार्थमुपतिष्ठति सा अस्माकं पुरुषो युष्माकम् यदा वालो युष्माकं वृद्धोऽस्माकम् अथवा यः सार्थन सह व्रजतां लाभः सोऽस्माकमसार्थे सुष्माकम् / यदि वा यो यल्लभते तत्तस्यैव एवं भूतेन इच्छितप्रतीच्छितेन य आभवनव्यवहारः स इच्छाया अवग्रहः। एष च प्रायः पथि गच्छतां भवति स्थानप्राप्तानां सूत्रोक्त आभवनव्यवहारस्ततस्तुमुपदर्शयति। समकालं क्षेत्रे प्राप्तानामक्षेत्रेवा वसति प्राप्तानांद्वयानामपिलाभः साधारणः। अथ नक्षेत्रमक्षेत्र वा वसतिसमकालं प्राप्ताः किंतु विषमकालं तत आह (इच्छंतोन होति इत्यादि) यदि निष्का