________________ उवसंपया 1027- अभिधानराजेन्द्रः - भाग 2 उवसंपया हे य रायणिए य तत्थ रायणिय पालिच्छिन्ने सेहतराए अपलिच्छिन्ने रायणिए इच्छा सेहतरा य उवसंपर्छज्जा / इच्छा नो उवसंपजेज्जा इच्छा मिक्खोववायं दलाति कप्पाग इच्छाए णो दलाति / 24 / दो भिक्खू णो एगतो विहरंति णोण्हं कप्पति अण्णमण्णस्स उवसंपन्जित्ताणं विहरित्तए कप्पति ग्रह आहारातिणियाए अण्णमहं उवसंपञ्जित्ताणं विहरित्तए।२श एवं दो गणावच्छेया / 26 / दो आयरियउवज्झाया / 27 / बहवे भिक्खुणो णो ततो विहरति णोण्हं कप्पइ अण्णमण्णस्स उवसंपत्तिाणं विहरित्तए कप्पति ण्हं आहारातिणियाए अण्णमण्णं उवसंपत्तिाणं विहरंतिए 28 एवं बहवे गणावच्छेइया 29 बहवे आयरियउवज्झाया 30 भिक्खू णो बहवे गणावच्छेइया तहेव आयरियउवज्झाया एगतो विहरंति णो ण्हं कप्पति अण्णमण्णे उवसंपत्तिाणं विहरित्तए वासावासवत्थए कप्पति पवितिणीए कप्पति पवितिणीए कप्पत्तिं ण्हं आहारायणिआए अन्नमन्नं उवसंपञ्जित्ताणं विहरित्तए हेमंतगिम्हेसु॥३॥ (अत्र चतुर्विशतितमसूत्रस्य व्याख्याग्रंथकृता न व्याख्यातेत्यस्माभिरपि न व्याख्यायते) एवं दो भिक्खू णो एगतो विहरति इत्यादि सूत्रसप्तकं सुगमम्। अस्य संबन्धमाह - संखहिगारा तुल्ला, धिगारियाए सलेसते जोगो। आयरियस्स व सिस्सा, भिक्खु अभिक्खू अहतिमिक्खू / / . अनन्तरसूत्रे , "दो साहम्मिया" इत्यादिलक्षणे द्विकलक्षणा संख्याऽधिकृता अत्रापि सैव, “दो भिक्खुणो” इत्यादिवचनात्ततः संख्याधिकारात्तुल्याधिकारिता पूर्वसूत्रेण सहास्य सूत्रस्येत्येष लेशत आद्यसूत्रस्य योगः संबन्धः। अथवा पूर्वसूत्रे रत्नाधिकपदेनाचार्य उपात्तः / आचार्यस्य च शिष्यो द्विधा भिक्षुरभिक्षुश्च। तत्रभिक्षुः प्रतीतोऽभिक्षुर्गणावच्छेदक उपाध्याय आचार्यो वा। तत आचार्यसूत्रात्प्रागुक्तादयानन्तरं भिक्षूसूत्रमक्तम्। शेषसूत्रसंबन्धप्रतिपादनार्थमाह - एमेव सेसएसु वि, गुणपरिवड्डी य ठाणलंभावे। दुप्पभिई खलु संखा, बहुपिंडो उ तेणं परं / / एवमेव पूर्वोक्तप्रकारेणैव शेषयोरपि गणावच्छेदकाचार्यसूत्रयोः संबन्धस्तथा ह्याचार्यस्य शिष्यो भिक्षुरभिक्षुश्च तत्र भिक्षुसूत्रमुक्तं तदनन्तरमभिक्षोर्गणावच्छेदकस्याचार्यस्य च सूत्रे / अथ गुणरिबुद्ध्या स्थानलाभो भवति तथा हि भिक्षुर्गुणाधिकत्वेन गणावच्छेदकस्थानं लभते गणावच्छेदको गुणाधिकतया आचार्योपाध्यायस्थानमतो भिक्षुसूत्रानन्तरंक्रमेण गणावच्छेदकाचार्योपाध्यायसूत्रे तथा द्विप्रभृतिका खलु संख्या बहुका भवति ततो द्वि संख्यासूत्रत्रयानन्तरंबहुसंख्यासूत्रत्रयं बहूनां च परस्परमुपसंपन्नानां पिण्डो भवति तेन बहुसंख्यासूत्रत्रयात्परं पिण्डः पिण्डसूत्रमुक्तमिति एवमनेन संबन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या / द्वौ भिक्षू एकत्र संहतौ विहरतो णोणमिति वाक्यलङ्कारे कल्पते अन्योन्यमुपसंपद्य विहर्तु कल्पते। ह मिति पूर्ववत् यथा रत्नाधिकतया अन्योन्यमुपसंपद्य विहर्तुमेवं गणावच्छेदकसूत्र माचार्योपाध्यायसूत्रं च भावनीयमेवं बहुसंख्यासूत्रत्रयं पिण्डसूत्रं चेति सूत्रसप्तक-संक्षेपार्थः। संप्रत्याधभिक्षुसूत्रव्याख्यानार्थमाह - संभोइयाण दोण्हं, खेत्तादी पेहकारणगयाणं / पंथे समागयाणं, भिक्खूण इमा भवे मेए / / द्वावाचार्यावन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थितौ तौ च परस्परं सांभोगिकी तयोः सांभोगिकयोयोराचार्ययोर्भिक्षवस्ताभ्यां प्रेषिताः क्षेत्रादिप्रेक्षाकारणगताः क्षेत्रप्रत्युपेक्षणार्थमादिशब्दादुपधिमार्ग-णार्थ वा गतास्तेच तथा गच्छन्तः पथि समागताः परस्परं मिलिताः / तेषां चैकेन यथा गन्तव्यमतस्तेषां क्षेत्रादिप्रेक्षाकारणगतानां पथिसमागतानां भिक्षणांया मर्यादा समाचारी सा इयं वक्ष्यमाणा भवति। तामेवाह - भिक्खुस्स मासियं खलु, पलिछण्णणं च सेसगाणं तु / चउलहुग अपलिछन्ने, तम्हा उवसंपया तेसिं॥ यौ द्वौ भिक्षू स्पर्द्धकपती तयोः शैक्षतरकेण रत्नाधिकस्य पुरतः आलोचयितव्यम्। तेनालोचिते पश्चात् रत्नाधिकेन शैक्षतरकस्य पुरत एवमकरणे भिक्षोः शैक्षरत्नाधिकस्य च प्रायश्चित्तं खलु मासिकं मासलघु “पलिच्छन्नाणं चेत्यादि” एतद्हुसंख्याविशिष्टस्य भिक्षुसूत्रस्य व्याख्यानम् / परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयानां शेषकाणा चात्मद्वितीयानां यथोक्तविध्यकरणे प्रायश्चित्तं मासलघु / तत्र यद्ये कोऽपरिच्छन्नस्तर्हि तेनान्य आत्मद्वितीय आत्मतृतीयो वा उपसंपत्तव्यो नो चेदुपसंपद्यते तर्हि तस्मिन्नपरिच्छन्नेऽनुसंपद्यमाने प्रायश्चित्तं चत्वारो लघुकास्तं चोपसंपद्यमानं यो नोपसंपदा प्रतीच्छति तस्य मासलघुयत एवंतस्मात्परस्परमुपसंपत्तेषां भवति कर्तव्या। एनामेव नियुक्तिगाथां भाष्यकृद् व्याचिख्यासुः प्रथमतो मिक्खुस्स मासिय खल्वित्येत व्याख्यानयति। दो भिक्खु अगीयत्था, गीया एको व होज उ अगीतो। राइणियपलिच्छन्ने, पुव्वं इयरेसु लहु लहुगा // द्वौ भिक्षु अगीतार्थौ यदि वा द्वावपि गीतों यदिवा द्वावपि गीतागीतार्थी तयोः परस्परस्यालोचनमन्यथा प्रायश्चित्तं मासलघु / अथवा एको गीतार्थः तत्र रत्नाधिके परिच्छन्ने भावपरिच्छेदोपेते गीतार्थे इत्यर्थः पूर्वमालोचयितव्यं पश्चादितरेष्वगीतार्थेषु रत्नाधिकेन एवं चेत्ते न कुर्वते तर्हि रत्नाधिके प्रायश्चित्तं मासलघु। इतरेषां चत्वारो लघुकाः। एनामेव गाथां विवरीषुः प्रथमतो "दो भिक्खू अगीयत्था गीया" इत्येतद्विवृणोति / दोसु अगीयत्थेसुं,अहवा गीतेसु सेहतरो पुट्विं / जइ मा लायइ लहुओ, न विगडेइ परो वि जइ पच्छा!। द्वयोर्भिक्ष्योरगीतार्थयोरथवा गीतार्थयोर्मध्ये यदि शैक्षतरः पूर्व रत्नाधिकस्यपुरतो नाचलोयति तदा तस्य प्रायश्चित्तं लधुको मासः। इतरोऽपि रत्नाधिकोऽपि यदिपश्चात्तस्य शैक्षतरस्य पुरतो न विकटयति तदा तस्यापि प्रायश्चित्तं मासलघु / तत्र यदि द्वावप्यगीतार्थी तदा परस्परस्यविहारालोचनैव केवला नापराधालोचनापि / अथ द्वावपि गीतार्थी तदा परस्पर -विहारालोचना अपराधालोचना च / अथैको गीतार्थोऽपरश्यागीतार्थस्तत्रालोचनाविधिमाह - राइणिए गीयत्थे, राइणिए चेव वियडणा पुटिव / देइ विहारवियडणं, पच्छारा णितो सेहे // यदि रत्नाधिको गीतार्थ इतरो ऽगीतार्थस्तर्हि गीतार्थे रत्ना