________________ उवसंपया 1026 - अभिधानराजेन्द्रः - भाग 2 उवसंपया सलघु।तथा कारणे म्लानादिलक्षणे व्यापृततया द्वावेव तौ जनावित्यसति सहायस्याभावे न दद्यादपि सहायं स्वभावो वा तस्यात्मीयकरणादिलक्षणस्ततो न ददाति सहायं किंत्वौचित्येन तस्य कृत्यं कारयति / एष द्वारगाथासंक्षेपार्थः। __ सांप्रतमेनामेव विवरीषुः प्रथमतः पूर्वार्द्ध विवृणोति। सज्झंति वासिणो दो वि, भावेण नियमतो छण्णो। रायणि एउवसंपया, सेहतरगेण कायव्वा / / तौ द्वावपि सहाध्यायिनावेकस्य गुरोरन्तेवासिनी द्वावपि भावेन ज्ञानादिना नियमतो नियमेन छन्नो ज्ञानादिरूपभावपरिवारोपेतावित्यर्थः / द्रव्यपरिच्छेदेन पुनः शैक्षतरक एवोपेतस्तत्र शैक्षतरकेण रात्निको रत्नाधिकस्योपसंपत्कर्तव्या। “वोचत्थे मासलहुतो", इत्यस्य व्याख्यानार्थमाह। आलोइयम्मि सेहेण, तस्स वियडेइ पच्छ राइणितो। इति अकरणम्मि लहुगो, अवरोप्परगव्वतो लहुगा / / प्रथमतः शैक्षतरकेण रत्नाधिकस्य पुरतः आलोचनीयं तेनालोचिते पश्चाद्रत्नाधिकस्तस्य शैक्षकस्य पुरतो विकटयत्यालोचयति एतच्चैतौ नकुरुतस्त इतिएतस्याकरणेद्वयोरपि प्रत्येक लघुको मासः प्रायश्चित्तम् (अवरोप्परगव्वतो लहुगा इति) यदि शैक्षतरको द्रव्यपरिच्छेदेनाह परिच्छन्न इति गर्वतो रत्नाधिकस्य पुरतो नालोचयति तदा तस्यापि प्रायश्चित्तं चत्वारो लघुकाः। एतदेवोपदेशद्वारेण स्पष्टयति। एगस्स उ परिवारो, वीइए रायणिय त्ति वादो य। इह गव्वो न कायव्वो, दायध्वो चेव संघाडो। एकस्य परिवारोऽस्ति द्वितीये रत्नाधिकत्वादः रत्नाधिकोऽयमिति प्रवाद इति एवं रूपो गर्वा द्वाभ्यामपि न कर्त्तव्यः किं तु परस्परमालोचयितव्यमन्यथा चतुर्लघुकप्रायश्चित्तापत्तेतव्यश्च शैक्षतरकेण जघन्यतोऽपि रत्नाधिकस्य संघाटः / संप्रति, "भिक्खोवा पंचदलानि कप्पागमि", त्येतदर्थमाह। पेहाभिक्खकितीओ, करेंति सो आवि ते पवाएति। न पहुव्वं ते दोण्ह वि, गिलाणमादीसुचन देजा।। शैक्षतरस्य शिक्षा रत्नाधिकस्य संबंधिनो वस्त्रादेः प्रेक्षां प्रति लेखनां कुर्वन्ति / तथा तद्योग्यां भिक्षामानयन्ति / कृतकर्म विनयो विश्रामणा तत्कुर्वन्ति किमुक्तं भवति यदाज्ञापयन्ति तत्कुर्वन्ति वाचनादिपरिश्रान्तस्य च विश्रामणामिति स चापि रत्नाधिकस्तान्प्रवाचयति सूत्रं पाठयत्यर्थं च श्रावयतीत्यर्थः / कारणे असती इत्यस्य व्याख्यानमाह (न पुहुव्वंते इत्यादि) ते शैक्षतरशिष्या ग्लानादिषु प्रयोजनेषु व्यापृतास्ततोनप्रभवन्तिनप्रपारयन्ति सहायं न दद्यात्। यदिवा द्वादेव तौ जनौ ततः किं दीयतामिति न दद्यात्। अधुना, “सभावो वा", इत्यस्य व्याख्यानमाह। अत्तीकरेजा खलु जो विदिपणे, एसोवि मज्झंति महंतमाणी। न तस्स तं देइ वहिं तु नेउं, तत्थेव किचं पकरेंति जं से / / यो वितीर्णान्साधूनात्मी कुर्यात् यश्चैषोऽपि शिक्षाधिपतिः शैक्षतरको ममेति महामानी तस्य तान्साधून् बहिस्तस्मात् स्थानादन्यत्र विहारक्रमेण नेतुं न ददाति किंतु यत् (से) तस्य कृत्यं करणीयं तत्रैव स्थितस्यतत् कुर्वन्ति अथवा वारग्एण य से देइ, न य दावेइ वायणं / तहा वे भेदमिच्छंते, अविकारी उ कारए। वारेण तस्य शुश्रूषंकमेकैकं साधुंनयुङ्क्ते न च तस्मात्साधूनां वाचनां दापयति मा स गणभेदं कार्षीरिति हेतोः / अथैवमपि दुःस्वभावतया गणभेदं करोति तत आह / तथापि क्रियमाणे गणभेदं कर्तुमिच्छति योऽविकारी दुर्भेदः साधुस्तेन तस्य कृत्यं कारयति (सूत्रं दो साहम्मिया इत्यादि) द्वौ साधर्मिकावेकतः संहतौ विहरतस्तद्यथा शैक्षो रत्नाधिकश्च / तत्र रात्निकः परिच्छन्नः परिवारोपेत इत्यर्थः / शैक्षतरकोऽपरिच्छन्नः परिवाररहितस्तत्र रात्निके रत्नाधिकस्येच्छा यदि प्रतिभासते शैक्षतरकमुपसंपद्यते अथ नेच्छा न प्रतिभासते तर्हि नोपसंपद्यते भिक्षामुपयातंचकल्प्यं यदीच्छा तर्हि ददाति अथादातुमिच्छा तर्हि न ददाति एष सूत्रसंक्षेपार्थः / अधुना भाष्यविस्तारः - रायणिय परिच्छन्ने, उवसंपपलिच्छओ य इच्छाए। सुत्तत्थकारणे पुण, परिच्छयं वेंति आयरिया।। रात्निके रत्नाधिके द्रव्यतःपरिच्छन्ने परिवारोपेते स तेन शैक्षतरकस्य उपसंपत्परिच्छेदश्च इच्छया दातव्यः / इयमत्र भावना / स यदि शैक्षतरकोऽवमरत्नाधिकस्तुल्यश्रुतो गुरुरत्नाधिकेन सह ततः स रत्नाधिकश्चिन्तयति मा नूनमेतस्य भिक्षाहिण्डनव्याक्षेपेण च सूत्रार्था नश्येयुस्ततः संघाटं ददाति अथवा मा एष मम कुलवासी सहाध्यायी द्रव्यपरिच्छदेनापरिच्छदो भूयात्सहाध्यायात्तेनाति-स्नेहतः संघाट ददात्यालोचनां प्रयच्छति / अल्पश्रुतस्य परिच्छदमुपसंपदा वा न ददातीति / अथ स शैक्षतरको रत्नाधिकाबहुश्रुतस्तदा नियमत उपसंपत्तव्यः / परिच्छदश्च तस्य दातव्यस्तथा चाह सूत्रार्थ कारणात् सूत्रार्थ गृहीतुकामाः पुनराचार्या उपसंपद्यन्ते परिच्छदं च ददति। एतदेव स्पष्टयति। सुत्तत्थं जइ गेण्हइ, तो से देइ परिच्छदं। गहिएवि देइ संघाडं,मा से नस्से य तं सुयं / / यदि सरत्नाधिकस्ततःसूत्रार्थं गृह्णाति ततः (से) तस्य ददाति परिच्छदं परिवारं गृहीतेऽपि सूत्रार्थे ददाति संघाट कस्मादित्याह। मा (से) तस्य भिक्षाटनव्याक्षेपतः प्रतिलेखनाव्याक्षेपतश्च तत् श्रुतं नश्येदिति हेतोः। अबहुश्रुतादौ तु न ददाति इत्येतद्भावयति। अबहुस्सुते न देंति, निरुबहते तरुणये य संघाडं / घेत्तूण जाव वजह, तत्थ य गोणीय दिटुंतो।। अबहुश्रुतो निरुपहतपञ्चेन्द्रियस्तरुणकश्च तस्मिन् सत्स्वपि साधुषु सघाट न ददाति सहायान्न ददातीति भावः / यो वा गीतार्थोऽपि सन् प्रदात्तान् सहायान्विपरिणम्य गृहीत्वा ब्रजति तस्यापि सत्स्वपि साधुषु सहायान्न ददाति तथा चतत्र दुष्टशीलतया गवां दृष्टान्तस्तमेव भावयति। साडगवद्धा गोणी, जह तं खेत्तं पलाति दुस्सीला। इय विप्परिणामेते, तम्मिन देना सहाए य॥ यथा कस्यापि गौः पलायिता ततः कथमपिलब्धा सती तेन शाटके बद्धा यथा शाटकबद्धा दुःशीला गौस्तं शाटकं गृहीत्वा पलायते इति एवममुना प्रकारेण यो विपरिणामयति सहायान् तस्मिन्वि परिणामयति सहायान्न दद्यात। (५)सांभोगिकासांभोगिकयोः सहमिलितयोराचार्याद्योः समाचारीमाह // (सूत्रम) दो साहम्मिया एगतो विहरंति तं जहा से