________________ उवसंपया 1025 - अभिधानराजेन्द्रः - भाग 2 उवसंपया आगम्मसेससाहण-ततो यसाग ओण्णत्थ॥ कश्चिदगीतैरगीतार्थराचार्यःप्रव्राजितः सोऽन्यत्र गणे गत्वा उभयतः सूत्रतोऽर्थतश्च निर्मितोऽभवत् ततःस स्वगणे आगम्य शेषाणां गीतार्थानां साधूनां साधनं करोति सर्वानपि गीतार्थान् सूत्रार्थ निमित्ततिस्तो विप्रसृतानाचार्यसमीपमानयति समानीय च तेषां सूत्रार्थान् पूरयति अन्यदा ततो गच्छात्कोऽपि साधुरन्यत्र गणान्तरे केनापि कार्येण गतः। तत्थ वि य अण्णसाहु, अट्टे त्ति अहेज मा ण साहूणं। चिंती मा पढ एवं, किं तिय अत्थो महो एवं // तत्रापि च गणान्तरे अन्यं साधुमाचाराङ्गे, "अट्टे लोए परिजिण्णे", इति सूत्रे अट्टे इति अधियानं पठन्तं श्रुत्वा ब्रूते मा पठ। एवं स प्राह किमिति इतरो ब्रूते अर्थो न भवति विसंवदत्येवं यथा त्वं पठसि अस्मात् अट्टे इंति द्विटकारको निर्देशोऽध्येतव्यः। अत्थो वि अस्थि एवं, आम नमोकारमादिसय्वस्स। केरिस पुण अत्था ति, वेती मुण सुत्तमट्ट त्ति॥ अधीयानः पृच्छति अर्थो ऽपि न तुसूत्रस्यास्ति। इतरः प्राह। आममेवं न केवलभस्य सूत्रस्यार्थोऽस्ति किं तु सर्वस्यापि नमस्कारादिकस्य सूत्रस्यास्ति एवमुक्तोऽध्येतापृछति कीदृशः पुनरस्य सूत्रस्यार्थ इति। इतरो ब्रूते श्रृणु प्रथमतो यथावस्थितं सूत्रं ततः पठति (अट्टे इति) “अट्टे लोए परिजिण्णे", इति एवं पठित्वा अस्य व्याख्यानमाह - अट्टे चउविहे खलु, दवेन वि मादि जत्थ तणकट्ठा। आवत्तंत्ते पडिया, जह व सुवण्णादि आवट्टे॥ अट्टः आर्तः खलु चतुर्विधतद्यथा नामार्तः स्थापनार्को द्रव्यातॊ भावार्तः / तत्र नामस्थापने सुप्रतीते द्रव्यातॊऽपि नोआगमतो ज्ञशरीरभव्यशरीरव्यतीरिक्तो यत्र नद्यादेः प्रदेशे तृणकाष्ठानिपतितानि आवर्तन्ते यत्र वा सुवर्णाद्यावर्तते स द्रष्टव्यः। आसर्वतः परिभ्रमणेनरुतानि गतानि यत्र यो स आर्त इति व्युत्पत्तेः। अहवा अत्तीभूतो, सचित्तादीहि होइ दव्वम्मि। भावे कोहादीहिं, अभिभूतो होति अट्टो उ॥ अथवा सचित्तादिभिर्द्रव्यैरसंप्राप्तैः प्राप्तवियुक्तैर्वा य आर्तः स द्रव्यातः द्रव्यैराततॊ द्रव्यात इति व्युत्पत्तेः / क्रोधादिभिरभिभूतो नो आगमतो भावार्तः। तदेवमार्तशब्दार्थ उक्तः। संप्रति परिजीर्णशब्दार्थमाह - परिजिण्णा उदरिदो, दवे धणरयणसारपरिहीणो। भावे नाणादीहिं, परिजिण्णो सवलोगा उ|| परिजीर्णोऽपि चतुर्विधस्तद्यथा नामपरिजीर्णः स्थापनापरिजीर्णो द्रव्यपरिजीर्णो भावपरिजीर्णश्च। तत्र नामस्थापने प्रतीते। द्रव्ये द्रव्यतः परिजीर्णो नो आगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो धनरत्नसारपरिहीनो हरिद्रो भावे भावतः परिजीर्णो ज्ञानादिभिः परिहीन एष समस्तोऽपि लोकः। एवं पट्टे सो वेति, कत्थ भे अहीयं ति। अमुगस्स त्तिसगासे, अहगं पी तत्थ वचामि।। एवमाचाराङ्गसूत्रास्यार्थे स्पष्ट कथिते स ब्रूते कुत्र भवता त्वया ऽधीतमिति / सप्राह अमुकस्यसकाशेसमीपे। ततः सोऽध्येता चिन्तयति अहमहपि तत्र व्रजामि एवं चिन्तयित्वा। सो तत्थ गतो घिनति, मिलितो सब्मति एहि उन्भामो। पुट्ठो सुत्तत्थं ते, सरंति निस्साय कं विहरे।। स तत्र गतो गत्वा वाऽध्येति एतद्विषयमधिकृतं सूत्रमधुना सूत्रव्याख्यामाह / सोऽधीयानोऽन्यदा उद्भामे उदभ्रामकभिक्षानिमित्तं गतस्तत्र केचित्साधर्मिकाः केचिदन्यगच्छवर्तिनः साधवः सहाध्यायिनो मिलितास्तैः (सब्भतिएहिति) सहाध्यायिभिः पृष्टास्तेतत्र सूत्रार्थ सरन्ति निर्वहन्ति तथा कं निश्राय आश्रित्य भवान विहरति। असुगं ति सो अगीतो, विहरइ कप्पेण गीयसिस्सस्स। अहमविय तस्स कप्पा, जंवा भयवं उवदिसंति।। एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ आचार्यस्तं कथयति यथा अमुकं निश्रायाहं विहरामि एतावता,“जे तत्थ सव्वराइणि य ते वएज्जा", इति व्याख्यातम् / एवमुक्ते ते चिन्तयन्ति यमेष प्राह सोऽगीतो ऽगीतार्थस्ततो भूयः पृच्छन्ति कस्य कल्पेन कस्य गीतार्थस्य निश्रया भवान् विहरति एतेन, अहं भंते कस्स कप्पाए", इति व्याख्यातम्। स प्राह सूत्रबहुश्रुततया गीतार्थस्तस्य शिष्यस्तस्य कल्पेन समस्तो गणो विहरति। अहमपि च तस्य कल्पात् विहरामियं वा भगवन्त उपदिशन्ति यथाऽस्याज्ञा कर्तव्या तस्याज्ञोपयातवचननिर्देशेषु स्थास्यामि। एतेन "जं वा सो भयवं अक्खाति", इत्यादिव्यातम्। इदमेव स्पष्ट भावयति। रायण्सियस्स उगणो, गीयत्थोमस्स विहरइ निस्साए। जो जेण होति महितो, तस्साणादीन हावेमि / / रात्निकस्य रत्नाधिकस्य गणोऽवमस्य गीतार्थस्य निश्रया विहरति अहमपि तन्निश्रया विहरामि / अपि च तस्मिन् गणे यो येन गुणेन तपःप्रभृतिना महितस्तस्याज्ञादि आज्ञा समोपभवनं वचननिर्देशं च न हापयामि सम्यक्करोमीति भावः। व्य० द्वि०४उ० (चरिकाप्रविष्टस्योपसंपद्विधिः चरियापविट्ठशब्दे वक्ष्यते) 4 शैक्षण सपरिच्छन्नेन रत्नाधिकस्योपसं पद्दातव्या। (सूत्रम्) दो साहम्मिया एगतो विहरंति तं जहा सेहे रायणिए य तत्थ सेहतराए पलिच्छिन्ने रायणिए अपलिच्छन्ने तत्थ सेहतरएणं रातिणिए उवसंपञ्जित्तव्वा भिक्खू ववहारवद्दलातिकप्पयं / 23 / द्वौ साधर्मिको समानगुरुकुलावेकतः सह तौ विहरतस्तद्यथा शैक्षो रात्निकश्च तत्र यः शैक्षकः स परिच्छन्नः परिवारोपेतः रात्निको रत्नाधिकोऽपरिच्छन्नः परिवाररहित इत्यर्थः तत्र शैक्षतरकेण रत्नाधिक उवसंपत्तव्यस्तथा शैक्षतरको रत्नाधिकस्य भिक्षामुपपातं विनयादिकं च कल्प्यं कल्पनीयं ददाति एष सूत्रसंक्षेपार्थः। अधुना भाष्यविस्तरः। साहम्मि पलिच्छिन्ने, उवसंपय दोण्ह वी पलिच्छातो। वोचत्थे मासलहुओ, कारणअसई सभावो वा।। तौ द्वावपि जनौ सहाध्यायिनौ स ब्रह्मचारिणौ तत्र यः शैक्षतरकः स परिच्छनो द्रव्यपरिच्छे दोपेतः परिवारसहित इत्यर्थः / भावपरिच्छेदेन पुनर्द्वयोरपि परिच्छेदोऽस्ति तत्र शैक्षे द्रव्यतः परिच्छन्ने सति तेन रत्नाधिकस्योपसंपदातव्या ततो जघन्यतः संघाटो रत्नाधिकस्य देय उत्कर्षतो बहवोऽपि दातव्याः। तथा शैक्षकेण रत्नाधिकस्य पुरत आलोचनीयं रत्नाधिकेन शैक्षकस्य पुरतोऽन्यथा (वोच्चत्थे) विपर्यासे उभयोरपि प्रायश्चित्तं मा