________________ उवसंपया 1025 - अभिधानराजेन्द्रः - भाग 2 उवसंपया राच्छेदः परिहारो वा इति सूत्रार्थः / अत्र भाप्यप्रपञ्चः। एमेव य वासासु, भिक्खे वसहीए संकनाणत्तं / एगाहचेउत्थादी, असती अण्णत्थ तत्थेव।। एवमेव ऋतुबद्धविषयस्तत्र तेनैव प्रकारेण वर्षासु सूत्रं भावनीयं नवरं भिक्षायां वसतौ शङ्कायाश्च नानात्वं तत्रान्यत्र गन्तव्यमेकाहेन चतुर्थेनादिशब्दात् षष्ठेनाष्टमेन वा अस्यन्यत्र गमने तत्रैव वर्षारात्रः कर्तव्यः / एष द्वारगाथासंक्षेपार्थः / सांप्रतमेनामेव विवरीषुः प्रथमतः एवं शब्दं व्याख्यानयति। अपरिमाणे पिहब्भावे, एगत्ते अवधारणे। एवं सहो उ एएसिं, एगत्ते उ इहं भवे // एवं शब्दोऽपरिमाणे पृथग्भावे एकत्वे अवधारणे। तत्रापरिमाणे यथा एवमन्येऽपीत्यादौ पृथदावे यथा घटात्पटः पृथक् एवमाकाशास्तिकायात् धर्मास्तिकायोऽपीति / एकत्वे यथाऽयमेतद्गुण एवमेषोऽपि अत्र ह्येवं शब्दस्तयोरेकरूपतामभिद्योतयति / अवधारणे यथा के नापि पृष्ठमिदमित्थं भवति इतरः प्राह एवं इमित्थमेवेति भावः / एवमेवंशब्द एतेष्वर्थेषु वर्तते इह पुनरेकत्वे भवति वर्तते। एकत्वमृत्तिमेव भावयति। एगत्तं उ उबद्धे, जहेव गमणं तु भंगचउरो य। तह चेव य वासासु, नवरि इमं तत्थ नाणत्तं / / तथैकत्मवमेवं शब्दप्रकाश्यमित्थमृतुबद्धन्यत्र गच्छान्तरे गमन यथा च तत्र भङ्गाश्चत्वारः शुद्धस्य शुद्धगमनमित्येवमादयस्तथा चैत्र तेनैव प्रकारेण गमनं भङ्गचतुष्टयं च ज्ञातव्यम् / नवरं केवलमिदं मत्र वर्षासु भिक्षायां / वसतौ शङ्कायां च नानात्वम्। तत्र भिक्षामसधिकृत्याह। पउरण्णपाणगमणं, इहरा परे ताव एसणा घातो। खेत्तस्स य संकमणे, गुरुगा लहुगा य आभवणा।। यो गच्छः प्रचुरान्नपाने स्थितस्तत्र गन्तव्यम् / इतरथा यदि पुनरप्रचुरान्नपाने गच्छेप्रविशति ततस्ते असंस्तरन्त क्षुधा परिताप्यन्ते परितापनांचासहमानैरेषणाघातः क्रियते अनेषणीयमपि गृह्णीयुरित्यर्थः / अथासंस्तरन्तः क्षेत्रसंक्रमणं कुर्वन्ति तदा प्रावृषि क्षेत्रस्य संक्रमणे आरोपणाप्रायिश्चत्तं चत्वारो गुरुकाः। वर्षारात्रे भाद्रपदाश्वयुग्मासद्वयलक्षणे चत्वारो लघुकाः / गतं भिक्षाद्वारम् / अधुना वसतिद्वारमाह। वारगजग्गणदोसा,सागारादी हवंति अण्णासु। तेणादिसंकलोए, भाविणमित्थं पवासंति॥ यस्मिन् गच्छे वसतिः संकटा तत्र नोपसंपत्तव्यं यदि पुनरुपसंपद्यते तत इने दोषाः / संकटायां हि वसतौ वसन्तस्तेवारकेण क्रमेण जागरणं कुयुरके जाग्रत्यन्ये स्वपन्ति तदनन्तरं ते जाग्रत्यन्ये स्वपन्ति / एवं क्रमेण जागरेणऽजीर्णत्वादयो दोषाः / अथान्यासु वसतिषु केचित्स्वपनाय व्रजन्ति तर्हि ये प्रागभिहिताः शय्यायां सागारिकादयो दोषास्ते ऽत्रापि भवन्ति गतं वसतिद्वारम् / इदानीं शङ्काद्वारमाह ! भिक्षाया अभावतो वसतिसंकटत्वदोषतो वा तत्क्षेत्रसंक्रमणं कुर्युस्तांश्च गच्छतो दृष्ट्वा लोकस्य स्तेनादिशङ्कोपजायते यथा न कल्पते साधूनां वर्षासु गमनं तन्नूनमेते हेरिकाः स्तेना वा साधुवेषेणाहिण्डन्ते। अथवा (भाविणमित्थं पवासंति त्ति) एतमर्थमुत्पातरूपं यदि वा न निष्पत्स्यते शस्यमित्येवंलक्षणं ततोऽनागता नश्यन्ति तस्माद्वयमपि यत्नकुर्मः। तदेवं प्रचुरान्नपाने संकटवसतिस्थिते च गच्छे प्रवेशे इमे दोषाः। तस्माद्ये प्रचुरान्नपानग्रामे स्थिता ये च सावकाशायां वसतौ तत्र संपत्तव्यं तत्र चानया यतनया गन्तव्यम्। तामेवाह। आसण्णखेत्त भाविय,खेत्तादपरोप्परं मिलंतेसु / जा अट्ठम अभावे य,माणअडतं बहू पासे / / ये आसन्ने अनन्तरे क्षेत्रे स्थिता गच्छास्तत्रगन्तव्यमसत्यनन्तरे क्षेत्रे ये परे क्षेत्रे स्थिता यैर्भिक्षादिनिमित्तमागच्छद्भिर्गच्छद्भिश्च परस्परं मिलद्भिर्गाथायां सप्तमी तृतीयार्थेऽपान्तराले पथि भाविता ग्रामास्तत्र गन्तव्यं तेषामप्यभावे दूरेऽपिगम्यते। तत्र पुनर्भिक्षामहिण्डमानो गच्छति। किं कारणमत आह। (माणअडत बहूपासे) मा णमिति वाक्यालद्वारे भिक्षाभटन्तं बहु लोकोऽभावितः पश्यन्निति कृत्वा ततोऽभक्तार्थेन यावत्प्राप्यते षष्ठेन अष्टमेन वा तत्र गन्तव्यम्। आह यद्यपि चतुर्थादिना गच्छति तथापि लोकः पश्यति। तत्र आह / / पायं न रीयइ जणो, वासे पडिवत्तिकोविदो जो य। असतो व बद्धेदूरे य, अच्छए जाय भायंति // प्रायः कर्षजनः क्षेत्राणां जलकर्दमाकुलतया शेषजनो मार्गस्य जलाविलत्यादिना दुर्गमतया वर्षे वर्षाकाले नरीयते न गभति। यश्चात्र प्रतिपत्तिकोविदः परप्रतिपादनकुशलस्तने एवमादिषु विषयेऽनेकान्युत्तराणि जल्पितव्यानि एतावता "एगाहचउत्थादी इत्यादिव्याख्यातमिदानीमसती अण्णत्थतत्थेवेति व्याख्यानार्थमाह / "असतोवबद्धेइत्यादि पूर्वोक्तो विधिः सान्तरे वर्षेऽभिहितो यदि पुनरसकृत् अवबद्धं वा सततं वर्ष पतति यदि वा अतिदूरं गन्तव्यं नाष्टमेन प्राप्यते ततोऽसकृत् अवबद्धे वा वर्षे पतति दूरे गन्तव्यम्। तत्रैव वर्षारात्रं कृत्वा प्रभाते मेधकृतान्धकारापमगतः प्रभातकल्पे संवत्सरे याति॥ (3) भक्षुर्गणादपक्रम्येच्छेदन्यं गणमुपपद्य विहर्तुम्।। (सूत्रम्) भिक्खू गणाओ अवक्कम्म अण्णगणं उवसंपञ्जित्ताणं विहरिजा तं च केइ साहम्मिया पासे ता वइजा क अञ्जो उवसंपज्जित्ताणं विहरति जे तत्थ सव्वराइणिएता वइज्जा अहं भे कप्पाइ जे य तत्थ बहुस्सुए तं वत्तिजा जहा से भगवं वक्खति तस्स आणाउववाय वयणणिदेशे चिहिस्सामि॥ भिक्षुर्गणादपक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसंपद्य विहरेत् / तत्रोद्भ्रामके भिक्षाचरप्रचुर ग्रामे भिक्षार्थमटन्तं दृष्ट्वा कश्चित्साधम्मिको वदेत् कमार्यमुपसंपद्य त्वं विहरसि एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ आचार्यस्तं वदेत्। तस्मिन्नुक्ते परिकल्पयति यमेष व्यपदिशति सोऽगीतार्थो नचायमगीतार्थनिश्रया विहरति ततो भूयः पृच्छति अथ भदन्त ! कस्य कल्पेन सूत्रे स्त्रीत्वं प्राकृतत्वात्कस्य निश्रया त्वं विहरसि एवमुक्के यस्तत्र सर्वबहुश्रुतस्तं वदेत् तथा तस्य सर्वरत्नाधिकस्याचार्यस्यागीतार्थस्य यः शिष्यो गीतार्थः सूत्रार्थनिष्णातः समस्तस्यापि गच्छस्य तृप्तिकारी तन्निश्रयाऽहं विहरामीति वदेत् / यं वा स भगवानाख्याति यथैतस्याज्ञा त्वया कर्त्तव्या तस्याज्ञायामुपपाते समीपे वचननिर्देशे च आदेशप्रतीच्छायां स्थायामीति सूत्रसंक्षेपार्थः / अधुना भाष्यकृत्सूत्रं व्याख्यातुकामः प्रथमतः सूत्रविषयमुपदर्शयति।। पव्वावितो अगीतेहिं, गंतूण उभयनिम्मातो।