________________ उवसंपया 1023 - अभिधानराजेन्द्रः - भाग 2 उवसंपया अथाकालचारिण्यः कथं स्युरित्य आह।। आयाणे कंदप्पे, बियाल ऊरालियं वसंतीणं। निययादी छद्दसहा, संजोए मोत्तहा छंदे॥ भक्तपानादीनामादाने उपलक्षणमेतत् दाने च तथा कन्दर्पनिमित्त कन्दप्पग्रहणमुपलक्षणं स्वाध्यायनिमित्तं च विकाले औरालिकमतिशयेन स्फारे प्रभूतवेलायामिति यावत् संयतीनामकालचारिणीत्वं द्रष्टव्यम्। एवं नैत्यिकादीनां यः षड्दशधा षोडशप्रकारः संयोगस्तत्र वस्तव्यं किं सर्वत्र नेत्याह मुक्त्वा यथाच्छन्दान्किमुक्तं भवति। तेषु सत्सुयथाच्छदेषु नवस्तव्यं तदभावे तत्रापिवसेत्। संप्रत्येतेषु नैत्यिकादिषुसंवासमधिकृत्य यतनामाह। गहियनिसियतुय? वा, गहियागहिए य जग्गसुवणं वा / पासत्थादी णेवं, नियए, मोत्तुं अपरिभूते॥ पार्श्वस्थादीनामुपाश्रयेषु (गहियत्ति) गृहीतोपकरणः स्थित ऊर्द्धस्थितो वसेत्। यद्येवं स्थातुं न शक्नोति ततो गृहीतोपकरण एव निषद्योपगतो जाग्रत्तिष्ठेत् तथाप्यशक्नुवन् गृहीतोपकरणस्त्वगृतोजाग्रदवतिष्ठेत्। अथ त्रिष्वप्येतेषु यदि कथमपि प्रचलाया आशङ्का तदा मा पात्रदिभङ्गः स्यादित्युपकरणं पार्वे निक्षिप्यागृहीतोपकरणो यथासमाधिस्थितो निषण्णस्त्वगृतो वाजाग्रत्तिष्ठेत् अथ जागरणं कर्तुं न शक्नोति तत आह स्वपन वा गृहीतोपकरणोऽगृहीतोपकरणो वा यथा समाधिं कुर्यात् / एवं यतना पार्श्वस्थादीनामुपाश्रयेषु द्रष्टव्या / नैत्यिके नित्यवास्युपाश्रये नित्यवासिपरिभुक्तान् प्रदेशान् मुक्त्वा अपरिभुक्ते प्रदेशे उपकरणं निक्षिप्य यथासमाधिण जाग्रत्स्वपन्चा वसेत्। एमेव अहाच्छंदे, पडिहणणज्झाणअज्झयणकण्णा। ठाणठितो वि निसामे, सुण आहरणं च गहिएणं // एवमेव पार्श्वस्थादिगतेनैव प्रकारेण यथाच्छन्देऽपि यतना कर्तव्या। नवरं यदि शक्तिस्तर्हि तस्य प्रतिहननं कर्तव्यं यथा स स्वाग्रहं मुञ्चति। अथ न विद्यते तादृशी शक्तिस्तर्हि ध्यानं तथा ध्यायति यथा तद्वचो न शृणोति यदि वा (अज्झयणत्ति) यथाच्छन्दप्रज्ञापनाप्रतिश्रवणमध्ययनं परावर्तयतियथा सबूते मा मां नाशयेति (कण्णत्ति) तस्य यथास्वच्छन्दं देशनां कुर्वतः कर्णी निजौ स्थगयति येन देशनां न श्रृणोति दूरतरं वा तिष्ठति / अथ दूरतरस्थानस्थितोऽपि तद्देशनां निशमयति न च निद्रां समागच्छति ततः स यथाच्छन्दो वक्तव्यो यथा शृणु किमप्याहरणं ततो यत्तस्यापूर्वं तदाहरणं कथनीयम् (गहिएणति) गृहीतेनात्मीयोपकरणेन। एतदेव युक्त्या दृढयति॥ जह कारणे निगमणं, दिलृ एमेव सेसगा चउरो। ओमे असंथरंते, आयारे वइयमादीहिं॥ यथा कारणे कारणवशतो निगमनं निर्गतं दृष्टमेवमेव तथा कारणवशतः शेषाण्यपि चत्वारि द्वाराण्यसंविग्ने निवेदना यतना इत्येवमादीनि दृष्टानि यथा चाचारे आचारप्रकल्पे अवमे दुर्भिक्षे वजिकादिभिरपि आदिशब्दात्स्वज्ञात्यमनोज्ञासंविग्नपरिग्रहो व्रजेदित्युक्तमतः सोपपत्तिकेयं यतनेति सम्यक् श्रद्धेया। गतं यतनाद्वारम्॥ अधुना निसृष्टद्वारमाहस मणुण्णेसु वि वासो, एगनिसि किमुत अण्णमो मण्णे। असढो पुण जयणाए, अच्छेज्ज चिरं पिउ इमेहिं। समनोज्ञेष्वपि अपान्तरालेवास उत्सर्गत एकां निशामेकां रात्रि कल्पते किमुत किं पुनरन्येष्वसांभोगिकेष्ववसने उपलक्षणमेतत् पार्श्वस्थादिषु वा। तत्र सुतरामेकरात्र्यधिकं न कल्पते कारणवशतः पुनरुत्कर्षतस्वीणि दिनानि वसेत् गतं निसृष्टद्वारम् / इदानीं "दीहखद्धं परिच्छतीत्ये" तद्व्याख्यानार्थमाह (असढो इत्यादि) असतः पुनर्न केवलमुत्कर्षतस्त्रीणि दिनानि किं तु चिरमपि प्रभूतकालमप्येभिर्वक्ष्यमाणैः कारणैर्यतनया तिष्ठेत् / तान्येव कारणान्याह वासं खंधारनदी, तेणासावयवसेण सत्थस्स। एएहिं कारणेहि, अजयणजयणाय नायव्वा / / वर्ष पतति स्कन्धावारः कटकं तद्वा चलति नदी गिरिनदी पूर्णा वर्तते स्तेना अपान्तराले द्विविधा शरीरापहारिण उपकरणापहारिणश्च श्वापदाः सिंहादयः सार्थस्य वा वशेन गच्छति सार्थश्च चिरमपि तिष्ठन् वर्तते एतैः कारणैश्विरमप्यपान्तराले तिष्ठति तत्रायतना यतना वा ज्ञातव्या ।तत्र यदि यतना कृता तदा न प्रायश्चित्तविषयः / अथायतनामाचरितवान् तदा प्रायश्चित्तं लगति / उक्तः शुद्धस्याशुद्धगमनमिति द्विरीयो भङ्गः। संप्रति तृतीयचतुर्थभङ्गावाह।। दोसा उततियभंगे, गाणगणिया य गच्छभेदो य। सुयहाणी कायवहो, दोण्णि वि दोसा भवे चरिमे / / दोषौ द्वौ तृतीयभने अशुद्धस्य शुद्धगमनमित्येवंलक्षणे तद्यथा गाणगणिकता गणेगणे प्रविशतीत्येवं प्रवादलक्षणा तद्यथा गच्छभेदतश्च / तथाहि तस्मिन्निर्गच्छत्यन्येऽप्येवमेव निर्गच्छन्ति ततो जायते गणविनाशः / चरमेऽप्यशुद्धस्याशुद्धगमनमित्येवंरूपे भरे द्वौ दोषी अपिशब्दो भिन्नक्रमः स च यथास्थानं योजितः। श्रुतहानिः कायवधश्च निष्कारणं दोषबहुलतया यातो निर्गमने ह्यत्रापि नावकाश इति श्रुतहानिर्मार्गे च गतो ग्लानत्वादिभावतो वा कायवधः / तदेवं भावितमृतुबद्धविषयम्॥ संप्रति वर्षावासविषयं सूत्रमाह। (सूत्रम्) वासावासे पञ्जोसविए भिक्खू य जं पुरओ कट्ट विहरेजा से य आहब विसं भेजा अस्थि वा इत्थ केइ उवसं पजणारिहे उवसंपज्जियवेसिया णत्थि वा इत्थ केइ अण्णे उवसण्णारिहे तस्सय अप्पणो य से कप्पइजाव छेदे वा परिहारे वा।। (वासावासेपज्जो इत्यादि ) वर्षावासे पर्युषिते भिक्षुर्य पुरतः कृत्वा विहरति आस्तेस कदाचित् विष्वग्भवेत् शरीरात्पृथग्भवेत् मियेत इत्यर्थः / अस्ति वान्यः कश्चिदुपसंपदनाहः स उपसंपत्तव्यः। नास्तिवा तत्रान्यः कश्चिदुपसंपनार्हस्तर्हि स आत्मनः कल्पे मा समाप्त इति (से) तस्य कल्पते एकरात्रिक्या प्रतिमया यत्र वसति तत्रैकरात्राभिग्रहणे (जण्णं जण्णमित्यादि) यस्यां यस्यां दिशि अन्ये साधर्मिका विहरन्ति तां तो दिशमुपलातुं न पुनः (से) तस्य कल्पते। तत्रापान्तराले विहारप्रत्ययं वस्तुं कल्पते (से) तस्य। तत्र कारणप्रत्ययं संघाटादिकारणनिमित्तं वस्तुं तस्मिश्च कारणानिष्ठिते यदि परो वदेत् वस आर्य ! एकरात्रं द्विरात्रं वा शब्दात्रिरात्रं वा एवं (से) तस्यकल्पते एकरात्रं द्विरात्रं वा शब्दात्त्रिरात्रं वा वस्तुंनो (से) तस्य कल्पते एकरात्रात् द्विरात्राद्वापरं वस्तुम् / यत्तत्र एकरात्राद् द्विरात्राद्वा परं वसति ततः (से) तस्य स्वकृतादन्त--