________________ उवसंपया 1022 - अभिधानराजेन्द्रः - भाग 2 उवसंपया तुम अहेसि दारं,उस्सूरोत्ति जुताए एवं तु। न य नजइ सत्थो वि,चलिहिइ किं केत्तियं वेलं // यदाहमागतस्तदा युष्माकमुपाश्रयद्वारं संकुचितमासीत् तत एवं मया विकल्पितमुत्सूरं वर्तते इति युतायां पृथग्भूतायां वसतावुपितः। अपिच न च ज्ञायते सार्थोऽपि किंकियती वेलां सप्तम्यर्थे व्याप्तौ द्वितीया कस्यां वेलायां चलिष्यतिततः पृथगुपाश्रये स्थितः। अथ सवेलायामागतस्तत इदं वदेत्।। साहुसगासे वसिउं, अतिप्पियं मज्झ किं करेमित्ति। सत्थवासो हं भंते,गोसे मे वहेज उदंतं // साधुसकाशे साधुसमीपे चवस्तुममातिप्रियं परं भदन्त ! सार्थवशोऽहं ततः किं करोमि तस्मात् (गोसे मे वहेजह उदंत) साधो! प्रभाते मे उदन्तं वार्ता वहेत। एवं न उ दूरुस्से,अह बाहिं होञ्ज पचवायाओ। ताहे सुण्हघरादिसु,वसतिनिवेदितुं तह चेव॥ एवमनया यतनया निवेदितुं नैवग्राभादहिर्दूर वसेत् किंतु ग्रामस्य समीपे वसेदय बहिस्तेनादिकृताः प्रत्यवाया अनर्था भवेयुस्ततस्तथैव पूर्वोक्तप्रकारेणैव निवेद्य शून्यगृहादिषु वसतिमादिशब्दात् श्रावकगृहादिपरिग्रहः / एतदेव भावयति। अहुणुव्वासियसकवाड-निविले वसति सुण्णे। तस्सासइ सुण्णघरे,इत्थीरहिते वसेजा वा / / अधुना सांप्रतमुद्वासितमधुनोद्वासितं सकपाटं कपाटसहितमन्यया स्तेनादिप्रवेशसंभवात् निर्दिलं विलरहितमन्यथा सदिसंभवात निश्चलं नजराजीर्णतया पतितुंप्रवृत्तम् अमीषां च चतुर्णा पदानां षोडश भङ्गाः। तत्र प्रथमो भङ्गःशुद्धः शेषा अशुद्धास्तत आह इत्थम्भूतेशून्ये गृहे वसति तस्य शून्यगृहस्यासत्यभावे संज्ञिगृहे श्रावकगृहे। सोऽपि श्रावको द्विधा संभवति सस्त्रीकः स्त्रीरहितो वा। तत्र स्त्रीरहिते वसेत्। सहिए वा अंतोबहि,अंतोवीसु घरकुडीए वा। तस्सासति नइयादिसु वसेज उ इमा य जयणाए / स्त्रीरहितस्य श्रावकगृहस्याभावेसहितेवा स्त्रीसहितेवा श्रावकगृहे तस्य गृहस्यान्तर्बहिर्वा विविक्ते प्रदेशे वसेत् अन्यथा प्रायश्चित्तं चतुर्गुरु तस्याप्यभावे तस्य श्रावकस्य बहिरन्तः पृष्ठतः पार्श्वतो वा यदिवाऽन्तर्गृहस्य कुटी समस्ति तस्यां वसेत् / तस्यापि कुटीरकस्यासत्यभावे नैत्यिकादिष्वपिशब्दात् पार्श्वस्थादिपरिग्रहोऽनया वक्ष्यमाणया यतनया वसेत् एतावता मूलद्वारगाथोपन्यस्तं निवेदनाद्वारमगमत् / / यतनाद्वारमापतितमिदानीं तामेव यतनामाह / / निइयादि उवधिभत्ते,सेज्जा सुद्धाय उत्तरे मूले। संजइरहिए काले,सज्झाए अभिक्खं च / / ये नैत्यिकादय उपधौ भक्ते शय्यायामुत्तरगुणैर्मूलगुणैर्वा शुद्धाः किमुक्तं भवति / ये उत्तरगुणैर्मूलगुणैर्वा शुद्धां शय्यां गवेषयन्ति / शुद्धं भक्तं शुद्धमुपधिं तेषु वसेत् तत्रापि संयतीरहिते तदभावे संयतीसहितेऽपि। ताश्च संयत्यो द्विधा कालचारिण्योऽकालचारिण्यश्च / तत्र याः / पाक्षिकादिष्वागच्छन्ति ताः कालचारिण्यस्तद्व्यतिरेकेणागच्छन्त्योऽ-- कालचारिण्यः स्वाध्यायनिमित्तमभीक्ष्णं चशब्दात् भक्तपानं दातुंग्रहीतुं वा कन्दपार्थ वा। तत्राकालचारिणोषु बहवो दोषाः कालचारिणीष्वल्पतरा इति संयतीरहिताभावे कालचारिणीभिः संयतीभिः सहिते वस्तव्यम्। एतदेव सप्रपञ्चमभिधातुकाम आह। सेजुवहिभत्तसुद्धे,संजइरहिए य भंगसोलसओ। संजइ अकालचारिणि,साहए बहुदोसला वसही।। शय्याशुद्धउपधिशुद्धो भक्तशुद्धः संयतीरहित इतिचतुर्षु पदेषु सप्रतिपक्षे पक्षाः षोडश / तद्यथा शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीरहित इति प्रथमः / शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीसहित इति द्वितीय इत्यादि प्रस्तारैश्चार्पणीयाः। एतेषु च षोडशसु, भङ्गेषु मध्ये यत्र यत्र संयत्यस्तत्र कालचारिणीसहिते वस्तव्यं नाकालचारिणीभिर्यत आह संयतीभिरकालचारिणीभिः सहिता बहुदोषा वसतिरिति / आह पूर्वमुपधिभक्तशय्याशुद्धा इत्युक्तमिदानीं भङ्गचिन्तायां प्रथमतः शय्योपात्तं तत्र किं कारणमत आह। सागारितेणाहिमवासदोसा,दुस्सोहिया तत्थ उहोइसेजा। वत्थन्नपाणाणि व वत्थ ठिचा,गेण्हति जोग्गाणुवभुजते वा।। शय्यां विना मण्डल्यामुपविष्टायां सागारिकाः समापतन्ति उपधिग्रहणाय स्तेना वा निपतन्ति हिमप्रपाते वासंयमात्मविराधना दोषाः / तत्र तेषु शय्योपधिभक्तेषु मध्ये शय्या दुःशोधिता भवति।आहारोपधयः शुद्धाः सुखेन लभ्यन्ते महता कष्टेन पुनः शुद्धा वसतिरिति भावः / तथा तत्र शय्यायां स्थित्वा योग्यानि कल्पनी-यानि वस्त्रान्नपानानि गृह्णन्त्युपभुञ्जते च / एतैः कारणैर्भङ्गचिन्तायां प्रथमतः शय्या कृता तथा // आहारोवहिसेज्जा,उत्तरमूले असुद्धे य। अप्पतरदोसपुट्विं,असतीए महन्नदोसे वि॥ आहारोपधिशय्याभिरुत्तरगुणविषये अशुद्धशुद्ध इति भङ्गैरल्प-तरा दोषा इत्यत आह प्रथमचिन्तायां ये षोडश भङ्गाः प्रागुक्तास्तेषु मध्ये पूर्वमल्पतरदोषे वस्तव्यं तस्यासत्यभावे महादोषेऽपि! अथ कस्मिन् भङ्गे अल्पतरदोषा इत्यत आह। पढमासति विइयम्मि वि,तहियं पुण ठाइ कालचारीसु / एमेव सेसएसु वि,उक्कमकरणं पिपूएमो॥ सर्वेषां भङ्गानां मध्ये प्रथमभङ्गे सर्वाल्पतरदोषा इति तत्र वस्तव्यं प्रथमस्यासत्यभावे द्वितीयेऽपि तत्र पुनस्तिष्ठति कालचारिणीषु संयतीषु एवमेव शेषेष्वपि भङ्गेषु वसति / किमुक्तं भवति / येष्वष्यन्येषु भङ्गेषु संयतीसहितपदं तेष्वपि कालचारिणीभिः सहितेषु वस्तव्यं नाकालचारिणीभिरिति / तथा क्रमकरणमपि अकालचारिणीभिः सहितत्वमपि पूजयामः उपादेयतया प्रशंसयामः सर्वेषां भङ्गानां मध्ये कथमिति चेदुच्यते यस्मिन् भने शय्याभक्तोपधयः समुदिता भङ्गत एकद्विका वा शुद्धास्तत्र यद्यकालचारिण्यो भक्तं पानं वा दत्वा गृहीत्वा तत्क्षणमेवव्रजन्तिन पुनरागच्छन्ति स्वाध्यायं वा कृत्वा सकाले गच्छन्ति तत्र स्थातव्यं प्रायो दोषाभावादिति। एतदेव स्पष्टतरमाह।। सेजं सोहे उवहिं,भत्तं सोहेइ संजतीरहितो। पढमो वितिओ संजइ-सहिओ तओ पुण कालचारीतो।। शय्यां शोधयति उपधिं शोधयति भक्तं शोधयति संयतीरहित-श्वेति प्रथमो भङ्गः। द्वितीयः संयतीसहितस्ताः पुनः संयत्यः कालचारिण्यो यदि स्युस्तदावस्तव्यमेवं शेषेष्वपि संयतीसहितेषु भङ्गेषु भावनीयम्।