________________ उवसंपया 1021 - अभिधानराजेन्द्रः - भाग 2 उवसंपया तेषां निवेदना क्रियते ततस्ते स्थविरा येषु स्थानेषु ये विप्रमाद्यन्ति तेषु स्थानेषु वान प्रतिचोदिताः। यदि स्थितेषु सत्सु स शिष्यपरिवारस्तत्रैव स्थानं करोति स्थितेन च तेन द्विविधाऽपि शिक्षा शिक्षणीया। अथ ते चोदिताः सन्तोन स्थितास्ततस्तेष्वस्थितेषु ततो गच्छतिगच्छन्निर्गमो भणितस्तीर्थकरगणधरैः गतमागमनद्वारमापतितं निर्गमद्वारमतस्तदेव भावयति। कप्पसमत्ते विहरइ,असमत्ते जत्थ हुँति आसन्ना। साहम्मि तहिं गच्छे,असतीए ताहि दूरं पि।। यदि आचारप्रकल्पः सूत्रतोऽर्थतश्च समाप्तो भवति ततस्तस्मिन् कल्पे आचारप्रकल्पे समाप्ते स्वयं यथाविहारक्रमं विहरति। अथ नाद्यापि समाप्त आचारप्रकल्पस्तहिं तस्मिन्नसमाप्ते यस्यां दिशि आसन्ना अनन्तरक्षेत्रवर्तिनः साधर्मिकाः संविग्नसांभोगिकास्तत्र गच्छेत् / अथासन्ना न विद्यन्ते; तत आसन्नानामसत्यभावे दूरमपि गच्छेत् / कथं गच्छेदत आह। वइयादीए दोसे अ-संविग्गे याविसो परिहरंतो। केउ असंविग्गा खलु,नइया दीया मुणेयव्वा / / वजिकादीन् दोषान् वजिका गोकुलम् आदिशब्दात् स्वमातापितृपूर्वपरिचितपश्चात्परिचितकुलपरिग्रहस्तान् दोषान् इह व्रजिकादयः प्रतिबन्धदोषहेतुत्वाद्दोषा इत्युक्तास्तथा संविनांश्चापि स परिहरन् गच्छेत् / अथ के खल्वसंविनाः सूरिराह। नित्यादेया नित्यवास्यादयस्ते ज्ञातव्याः। तेषामपि हरणे प्रवेशादौ प्रायश्चित्तविधिमाह। निइयादीए अहच्छंद,वज्जिए पविसदाणगहणे य। लहुगा मुंजणगुरुगा, संघाडे मासो जम णं / / इह मार्गे गच्छता अपान्तराले संविग्नसुमनोज्ञानांवसतौवस्तव्यं तदभावे नैत्यिकादीनां संविग्ने व अमनोज्ञानां निवेद्यान्यस्यां वसतीस्थातव्यं यदि पुनर्नेत्यिको नित्यवासी आदिशब्दात्पार्श्वस्थादिपरिग्रहस्तस्मिन् नैत्यिकादिके यथाच्छन्दवर्जिते प्रविशति यदि वा तेभ्यः किमपि भक्तादिकं ददाति अथवा तेभ्यो गृह्णति तदा प्रवेशे ग्रहणे दाने च प्रत्येक चत्वारो लघुकाः। (भुजणगुरुका इति)अथतैः सह भुङ्क्ते तदा भोजने चत्वारो गुरुकाः। अथ नैत्यिकादिसंघाटयाचित्वा तेन सह हिण्डते ततः संघाटेन हिण्डने लघुको मासः (जमणमिति) यच तेन संघाटकेन हिण्डमानोऽकल्पिकग्रहणतस्तदास्वादतेन लाम्पट्यतः सेविष्यते तदपि च प्रायश्चित्तं प्राप्नोति। तदेवं यथाच्छन्दवर्जितो नैत्यिकादौ प्रवेशादिषु प्रायश्चित्तमुक्तमधुना यथाच्छन्दे तदाह एए चेव य गुरुगा,पच्छित्ता होति उ अहाच्छंदे। अणुमण्णेसुं मासो,मुंजणे होति चउगुरुगा / / एतान्येव प्रायश्चित्तानि यथाच्छन्दे गुरुकानि भवन्ति / तद्यथा प्रवेशे दाने ग्रहणे भोजने चत्वारो गुरुकाः। संघाटे गुरुको मासः अथामनोज्ञेषु संविनेषु प्रविशति तदा प्रवेशे दाने ग्रहणे भोजने चत्वारो गुरुकाः।संघाटे गुरुको मासः। अथामनोज्ञेषु संविनेषु प्रविशति तदा प्रवेशे दाने ग्रहणं च प्रत्येक लघुको मासः। अतैः सह भुङ्क्ते तदा चत्वारो गुरुकाः संघाटे लघुको मासः / यत एवमसंविग्नेषु प्रायश्चित्तानि तस्मादेतान्परिहरेत्। अथ मार्मे संविग्ना न सन्ति ततः कारणवशतोऽसंविग्नेष्वपि गन्तव्यं पतितमिदानीमसंविग्नद्वारं तेषु च गत्वा यत्कर्तव्यं तदाह। संविग्गगंतरिया,पडिच्छसंघाडए असति एगो। साहम्मिएसु जयणा,तिण्णि दिणपडिच्छसज्झाए।। (संविगंति) संविग्नगुणेनैकेनान्तरिता व्यवहिताः संविग्नैकान्तरिता असंविग्नास्तेषु कारणवशतो गन्तव्यं तत्र च भिक्षां निवसनं च कुर्वतो यथा प्रथमोद्देशके परिहारिकस्य यतनोक्ता तथावापि द्रष्टव्या / तैरपि असंविग्नैर्यदि स एकाकी ततः एकाकिनः सतस्तस्य संघाटको दातव्यः। अथयोऽसौ द्वितीयको योग्यो दातव्यः सोऽन्यत्र प्रेषणेन गतो वर्ततेततस्ते बूयुराचार्य एकरात्रं द्विरात्रं त्रिरात्रं वा प्रतीक्षणीयः / तत एतेन कारणेनोत्कर्षतः त्रिरात्रमपि प्रतीक्षते असति संघाटके एक एकाकी व्रजेत् तस्य च तथा व्रजतोऽपान्तराले यदि साधर्मिका भवन्ति ततस्तन्मध्ये गत्वा वस्तव्यम् / कारणं च निवेदितम् / कारणे तैः संघाटको दातव्यस्तदभावे ततो व्रजनीयमथ प्रतिपृच्छा निमित्तमेकं द्वे त्रीणि वा दिनानि यावत्प्रतीक्षापयेत् तत आह स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्तमित्यर्थः उत्कर्षतस्त्रीणि दिनानि प्रतीक्षेत एषा साधर्मिकेषु यतना तदेवमसंविग्रद्वारमुक्तम्। इदानी निवेदनाद्वारमाह। बहिगामघरे सन्नी,सो वा सागारिओ बहिं अंतो। ठाणनिसेज्जतुयट्टण-गहियागहिएण जागरणा।। संविग्नसमनोज्ञानामभावे ग्रामस्य बहित्यिकादीनां निवेद्य तिष्टति ग्रामस्य बहिः प्रत्यपायसंभवे ग्रामस्यान्तः शून्यगृहे तत्रापि निवेदना कर्तव्या। शून्यगृहस्याभावे संज्ञी श्रावकस्तस्य गृहे वस्तव्यम् / स वा संज्ञी श्रावकः सागारिकोऽगारिसहितः स्यात्तर्हि तस्य गृहस्य बहिरन्तर्वा या कुटी तत्र वस्तव्यम्। तस्या अप्यभावे अमनोज्ञेषु संविग्नेषु वस्तव्यम्। तेषामप्यभावे नित्यकादिष्वसं विग्नेषु वसति / तत्रेयं यतना स्थानमूर्द्धस्थानं निषद्या उपवेशनम् त्वग्वर्तनं दीर्घका-यप्रसारणं तेषु गृहीतेनागृहीतेन उपकरेणन जागरणं कर्तव्यम्। एष द्वारगाथासंक्षेपार्थः व्यासार्थ त्वभिधित्सुराह / प्रथमतो बहिमिति व्यख्यानयति। वसही समणुण्णासइ,गामवहिं ठाइ सो निवेदेइ। अनिवेदियम्मिलहु तु,आगाइविराहणा चेव / / समनोज्ञानां संविग्नानां वसतेरसत्यभावे ग्रामादहिस्तिष्ठति न पुनर्नत्यिकादिष्वसंविनेषु प्रवेष्टव्यं प्रागुक्तप्रायश्चित्तभावात् / सच बहिस्तिष्ठति तेषां नैत्यिकादीनां वा संविग्नानां वा अमनोज्ञानां निवेद्य कथयित्वा यदि पुनर्न निवेदयति ततोऽनिवेदितेप्रायश्चिते लघुको मासः / आज्ञादिविराधना आदिग्रहणादात्मविराधना संयमविराधना च परिगृह्यते / तथाहि इयं भगवदाज्ञा तेषां निवेद्य बहिर्वस्तव्यम् / अनिवेदनायामाज्ञालोपः। आत्मविराधनां संयमविराधनां चाह। गेलण्णेन कहिंति,कोहेण जं च पाविहिती तत्थ। तम्हाउनिवेएज्जा,जयणा एतेसिमाएउ॥ अनिवेदने सति कदाचित् ग्लानो जायेतग्लान्ये सति नास्माकं किमपि तेन निवेदितमिति क्रोधेनन किमपि ग्लाने कृत्यं करिष्यन्ति। गृहस्थाश्च तं तथा भूतं ग्लानं दृष्ट्वा तेषां नैत्यिकादीनां निवेदयेयुर्यथा युष्मदीयो ग्लानोऽसंग्राहको वर्तते ततस्ते ब्रूयुर्मध्ये वा एषोऽस्मदीयो न भवति यदि भवेत्तदा अस्माकमुपाश्रये तिष्ठेत् निवेदयेद्वा / एवं यत्र ग्लानत्वेन वा आरक्षकादिग्रहणं तत्र यदर्थ प्राप्स्यति संयमविराधनात्मकमात्मविराधनात्मकं वा तत्सर्वमनिवेदनानिमित्तं तस्मात्तेषामनया वक्ष्यमाणया यतनया निवेदयेत्। तामेव यतनामाह।