________________ उवसंपया १०२०-अभिधानराजेन्द्रः - भाग 2 उवसंपया वृषो वलीवर्दो गोधनानि प्रचुरतृणपानीयानि तथा क्षुद्रजन्तुभिः क्षुद्रप्राणिभी रहितानि नयति जानाति च। उपस्थानकालमभ्यागमवेला ज्ञात्वा च स्वस्थानमानयति एवमभिनवस्थापित आचार्या गच्छं स्वस्वव्यापारे नियोजयन्परिपालयति। अत्रैव दृष्टान्तान्तरमाह। जह गयकुलसंभूतो,गिरिकंदरविसमवडयदुग्गेसु / परिवहति अपरितंतो,निययसरीरुग्गवेदंते॥ यथा गजकुलसंभूतोऽनेन जात्यतामाह गिरिकन्दरेषु गिरिगुहासु विषमकटकेषु विषमेषुगिरिपादेषु दुर्गेषु वा अपरित्रान्तोऽ श्रान्तः सन्निजशरीरोगतान् दन्तान्परिवहति।। इयपवयणभत्तिगतो,साहम्मिय वच्छलो असढभावो। परिवहइ साहुवग्गं,खेत्तविसमकालदुग्गेसु।।। इति अनेन गजदृष्टान्तप्रकारेण प्रवचनभक्तिगतो गच्छवाहकत्वं प्रवचनभक्तिं मन्यमानः साधर्मिकवत्सलो लिङ्गप्रवचनाभ्यां ये साधर्मिकास्तद्वात्सल्यपरायणोऽशठभावोऽमायावी विषमेषु क्षेत्रेषु विषमेषु च कालेषु दुर्भिक्षमार्याद्युपद्रक्वातसंकुलेषु दुर्गेषु च साधुवर्ग परिवहति तस्य समीपे स्थातव्यम्। गतमसतीति द्वारम् / इदानीमागमनद्वारमाहजत्थ पविट्ठो जइतेसु,उज्जया होउ पच्छहाति। सीसा आयरितोवा,परिहाणीतथिमा होइ॥ यत्र गच्छे सशिष्यपरिवारः प्रविष्टः सन् सूत्रार्थानामागमनं करोति तत्र यदितेसाधवः पूर्वसुष्टु उद्यता भूत्वा पश्चात्सामाचारी हापयन्ति आचार्थो वा पश्चात्परिहापयति / तत्र हानिरियं वक्ष्यमाणा भवति ज्ञातव्या / तामेवाह / / पडिलेहदियतुयट्टण-निक्खिवआयाणविनयसज्झाए। आलोयठवणमंडलि-भासागिहमत्तसेज्जतरे। (पडिले हित्ति) उपकरणं न प्रत्युपेक्षन्ते / तथा अग्लाना मार्गपरिश्रमरहिताश्च दिवा त्वग्वर्तनं कुर्वन्तिशेरते इत्यर्थः (निक्खिवत्ति) दण्डादिकं निक्षिपन्तःप्रत्युपेक्षन्तेन परिमार्जयन्ति दोषैर्वादुष्ट प्रत्युपेक्षणं परिमार्जनं वाकुरुते (आयाणत्ति) दण्डादिकमाददानान प्रत्युपेक्षन्तन प्रमार्जयन्तिदुष्प्रत्युपेक्षण दुष्प्रमार्जनं वा कुर्वन्ति। विनयं कृतकर्मलक्षणं वाचनादिषु न कुर्वन्ति (सज्झाएत्ति) स्वाध्यायो वा न क्रियते / मण्डली सामाचारी वा न कुर्वन्ति (आलोयत्ति) संखडी शरीरं वा प्रलोकन्ते यदि वा आलोचना न क्रियते / अनालोचितं भुञ्जते इत्यर्थः (ठवणत्ति) स्थापना कुलानि विशन्ति स्थापितं वा गृह्णन्ति (मंडलित्ति) भोजनमण्डली सामाचारी हापयन्ति (भासत्ति) भाषायामसमिता भाषन्ते एकग्रहणे तज्जातीयग्रहणमिति न्यायात् / शेषास्वपि समितिष्वसामिता (गिहिमत्तत्ति) गृहिमात्रकेषु पर्यलकादिष्वानीत गृह्णन्ति (सेजयरेत्ति) शय्यातरपिण्डं भुञ्जते।। एमायी सीयंते,वसमा चोयंति चिट्ठति ठियम्मि। असतीथेरा गमणं,अच्छति ताहे पडिच्छंतो॥ एवमादिष्वादिशब्दादुगमादिपरिग्रहः / सीदतः साधून गुरुं वा वृषभाश्चोदयन्ति शिक्षयन्ति। तत्र यदिचोदितः साधुवर्गो गुरुर्वा तिष्ठति ततस्तस्मिन् स्थिते सोऽपि सशिष्यपरिवार आगन्तुकस्तिष्ठति (असतीइत्यादि) असन् शिक्षायाः पुनःप्रत्या वर्तनस्य वा अभावो यदि ततो यावत्पाक्षिके चातुर्मासिके संवत्सरे वा कुलस्थविराणां वा गमनं भवति तावत्तत्प्रतीक्षमाण आस्ते तेषु च कुलादिस्थविरेषुसमागतेषु निवेदयतितथाप्यतिष्ठत्सुततो निर्गमनमेतदेव व्याचिख्यासुः प्रथमतो वृषभचोदनं सप्रायश्चित्तमाह। गुरुवसमगीयगीते,अचोर्देति गुरूगमादि जा लहुओ। सारेइ सारवेई,खरमउएहिं जहावत्थं / / वृषभः प्रपिपन्नगच्छभारः स्वयं सारयति शिक्षयति अथवा यो येनोपशाम्यति तं तेन सारापयति शिक्षापयति / कथमित्याह / आचार्योपाध्यायवृषभस्थविरभिक्षुकाणां मध्ये यथावस्तु वस्त्वनतिक्रमेण खरमृदुभिर्वचनैः सारयति सारापयति वा। किमुक्तं भवति यः खरेण साध्यस्तं खरेण खरण्टयति मृदुसाध्यं मृदुभिर्वचनैः सारयति अन्यथा प्रायश्चित्तं तदेव पूर्वार्द्धन निदर्शयति (गुरु इत्या-दि) वृषभो गुरुमाचार्यमुपाध्यायं या न प्रतिचोदयति तदा चतुर्गुरुकं वृषभो वृषभं न प्रतिचोदयति चतुर्लघु / वृषभो गीतार्थ न प्रतिचोदयति मासलघु / अक्षरयोजना त्वेवं गुरुवृषभगीतागीतान् चोदयन्ति / गुर्वादिचतुर्गुरुप्रभृतियावदन्तेलघुको मासः। अत्र पुनःसीदत्सुचत्वारो भङ्गास्तानेवाह। गच्छो गणी न सीयइ,विई नगणीउ तइएन वि गच्छो। जत्थ गणी अवि सीयइ,सोपावतरोन उण गच्छो / गच्छः सीदतिगणी चेति प्रथमः। गच्छः सीदति नगणीति द्वितीयः। न गच्छःसीदति किंतुगणीति तृतीयः। न गच्छो नापि गणीति चतुर्थः / तथा चाह द्वितीये भङ्गे गणीन सीदति तृतीये नगच्छः चतुर्थ सीदनमधिकृत्य शून्य इति नोपात्तः। तत्रायेषु त्रिषु भङ्गेषु मध्ये यत्र प्रथमेतृतीये वा गणी सपापतरो यत्र पुनर्गच्छः सीदति नगणी नासौ द्वितीयः पापतरः / किं कारणतिति चेदत आह। आयरिए जयमाणे,चोएउंजे सुहं हवइ गच्छो। तम्मि उ विसीयमाणे,चोयणमयरे कहं गेण्हे // आचार्ये यतमाने गच्छः सुखेन चोदयितुं शक्यमानो भवेत् आचार्यस्य प्रतिभयाभावादतः प्रथमतृतीयौ भनौ एतस्मिन्नाचार्य पुनर्विषीदति चोदनां शिक्षामितरे साधवः कथं गृह्णीयुर्न च गृह्णीयु-रिति भावः / आचार्यप्रतिभयाभावादतः प्रथमतृतीयौ भृङ्गौ पापतरौ न द्वितीय इति। आसण्णठिएसु उज्जुएस,जहति सहसान तं गच्छं। मा दूसेज्ज अदुढे,दूरतरे चापणो सेजा।। यद्यपि नाम आसन्ने प्रदेशे उद्यतविहारिणः स्थिता विद्यन्ते तथापि तेष्वासन्नस्थितेषूद्यतेषु सहसा न तं गच्छं जहाति परित्यजति किं कारणमिति चेदत आह तन्मा अदुष्टान् दूषयेत् गच्छम्। किमुक्तं भवति। येन विषीदन्ति तेऽपि सीदत्साधुसंसर्गतोमा विषीदेयुरिति येऽपि सीदन्ति तेऽतिदूरतरं निर्गततरं प्रणश्येयुर्विषीदेयुः / तदेवं वृषभचोदनं भाषितम्। इदानीं स्थविरागमनं भावयति। कुलथेरादी आगम-चोयणया जेसु विप्पमायंति। चोदयति तेसु ठाणं,अठिएसु उ निग्गमो भणितो।। वृषभशिक्षायाः प्रत्यावर्त्तनस्य वा अभावे पाक्षिके चातुर्मासिके सांवत्सरिके वा यावत् कुलस्थविराणां गणस्थविराणां संवस्थविराणं वा आगमस्तावत्प्रतीक्षते कुलस्थविरादीनां चागमे