________________ उवसंपया 1026 - अभिधानराजेन्द्रः - भाग 2 उवसंपया रणं स्थिता इति पश्चात्प्राप्तास्तदा नास्ति तेषामवग्रहः किं तु पूर्वप्राप्तानामेव / अथ कारणेन केनापि ग्लानप्रतिजागरणादिना स्थितास्ततः पश्चात् प्राप्तास्तर्हि भवति द्वयानामपि साधारणोऽवग्रहः। एतदेव स्पष्टतरमुपदर्शयति समअंपत्ताणं साहारणं तु दोण्हं पि होति तं खेत्तं / विसमं पत्ताणं पुण, इमा उ तहिं मग्गणा होइ॥ समकमेककालं प्राप्तानां द्वयानामपि तत् क्षेत्रं भवति साधारणं विषम विषमकालं प्राप्तानां पुनरियं तत्र क्षेत्रे मार्गणा भवति / तामेव कुर्वन्नाह - पडियरए व गिलाणं, सयं गिलाणो उरे व मंदगती। अप्पत्तस्स वि एएहि, उम्गहो दप्पतो नत्थि।। प्रतिचरति वा प्रतिजागर्त्तिग्लानं यदिवा स्वयं ग्लान आतुरो वा यदि वा स्वभावान्मन्दगतिरेतैः कारणैरप्राप्तस्यापि समकालं पश्चात्प्राप्तस्यावग्रहो भवति दर्पतो निष्कारणं स्थितानां पुनरव ग्रहो नास्ति। . एमेव गणावच्छेए, पलिच्छण्णाणं च सेसगाणं तु। पलिच्छने ववहारो, दुविहो वायंतिओ नाम / / यथा भिक्षोरेकस्य बहूनां परिच्छन्नानां शेषकाणां चोक्तमेवमेव अनेनैव प्रकारेण एकस्मिन् गणावच्छेदे बहूनां परिच्छन्नाना जघन्यतो ऽप्यात्मतृतीयानां शेषकाणां वशत आत्मद्वितीयानां तुशब्दादेकत एकोऽपरत आत्मद्वितीय इत्यादि संयोगगतानां च निरवशेषं वक्तव्यम्। तत्रपरिच्छन्ने जातावेकवचनं परिच्छन्नानामुपलक्षणमेतत्परमुपसंपन्नानां चाभवनव्यवहारो द्विधा भवति ! सूत्रोक्तो वागन्तिकश्च / वाचा अन्तः परिच्छेदो वागन्तस्तेन निर्वृत्तो वागन्तिकस्तत्र वागन्तिको नाम वक्ष्यमाणस्तमेवाह। पहि गामे चित्तमचित्तं, पुरिसंवा वालवुसत्थादी। इच्छाए वा देती, जो जं लाभे भवे वितितो॥ यत्पथिमार्गे लभ्यं तदस्माकं यत्ग्रामे तत्युष्माकम्।यदि वा यत्सचित्तं तत्युष्माकमचित्तमस्माकम्। अथवा स्त्री युष्माकं पुरुषोऽस्माकं। अथवा वृद्धो युष्माकं वालोऽस्माकम्। यदि वा (सत्थादी इति) सार्थे लभ्यं तत् युष्माकमसार्थेऽस्माकम् / अथवा इच्छया ददाति कथमित्याह यो यल्लभते तत्तस्य भवतिएष सूत्रोक्त आभवनव्यवहारः। द्वितीयो वागन्तिक आभवनव्यवहारः / क्षेत्रप्राप्तानामक्षेत्रे वा वसतिं प्राप्तानां यः सूत्रोक्त आभवनव्यवहारःस भिक्षूणामिव प्रतिपत्तव्यः सचाविशेषणार्थो यदिवा द्वावप्यगीतार्थपरिगृहीतौ गीतार्थनिश्रां प्रतिपन्नौ समकमेककालं प्राप्तौ ततस्तयोः साधारणं क्षेत्रमाभवति / सति विद्यमाने कार्ये ग्लाने प्रतिजागरणादिलक्षणे ये स्थिता अगीतार्था असमाप्ताश्चततः समाप्तानां साधारणं क्षेत्रम्।ये पुनरगीतार्था अपि च पूर्व प्राप्ता गीतार्थाः समाप्ताश्च निष्कारणं प्राक् स्थित्वा प्राप्तास्तदा असमाप्तानामप्यगीतार्थानाम् / अपि च तत्क्षेत्र पूर्व प्राप्तत्वान्न गीतार्थः समाप्तावपि च तस्य क्षेत्रस्य प्रभुर्निष्कारणं स्थित्वा पश्चात्प्राप्त-वान्॥ समपच्छकारणेणं,खेत्ते वसहीए दोण्हवी लाभो। एयणिए होति उग्गहो, गीयत्थसमम्मि दोण्हं पि॥ समं समकमेककालं करणेन पश्चाद्वा क्षेत्रे अक्षेत्रे वा वसतौ प्राप्तयोर्द्वयोरपि लाभः साधारगः / अत्र पुनर्यदि विशेषविवक्षा क्रियते तदायो रत्नाधिकस्तस्मिन्नवग्रहो भवति। यद्यपि नाम द्वयोरपिसाधारणो लाभस्तथापि यथा संघाटकेन भिक्षां हिण्डमानयो रत्नाधिकस्य लाभे / भण्यते एवमिहापि रत्नाधिकस्यावग्रहः / अथैको गीतार्थ परोऽगीतार्थस्तत्र यदि रत्नाधिकोऽगीतार्थो ऽवमरत्माधिको गीतार्थस्ततोऽवमरत्नाधिकस्यावग्रहः। अथद्वावपि समानार्थी तत आह। समे गीतार्थे परस्मिन्समकं च प्राप्ते द्वयोरपि साधारणोऽवग्रहः / तदेवं द्विसंख्याकगणावच्छे दकसूत्रमिति भावितमेवं द्विसंख्याकाचार्योपाध्यामपि भावनीयम्॥ इदानीं बहुत्वसूत्राणि पिण्डसूत्रं चातिदेशत आहएमेव बहूणं पि, पिंडे नवरोग्गहस्स उ विभागो। किं कतिविहो कस्स व कम्भिव, केवइयं वा भवे कालं / / एवमेव बहूनामपि भिक्षुप्रभृतीनां सूत्राणि भावनीयानि द्विकसूत्रापेक्षया बहुत्वसूत्राणामर्थतो नानात्वाभावात् पिण्डे पिण्डकसूत्रस्यापि स एवार्थो नवरमत्रावग्रहस्य विभागो वक्तव्यस्तमेवाह किं कतिविधः कस्य वा कस्मिन्वा कियन्तं कालं भवत्यक्ग्रहः / तत्र किमित्याद्यद्वारव्याख्यानार्थमाह - किं उग्गहोति भणिओ, उग्गहो तिविहो ए होति चित्तादी। एकेको पंचविहो, देविंदादी मुणेयव्वो॥ किमवग्रह इमि भणिते पृष्ट सूरिराह / त्रिविधो भवत्यवग्रहश्चित्तादिः सचित्तोऽचित्तो मिश्रश्च / पुनरेकैकः कतिविध इति प्रश्नमुपजीव्याह स एकैकः पञ्चविधः पञ्चप्रकारो ज्ञातव्यः / कोऽसावित्याह देवेन्द्रादिः देवेन्द्रावग्रहो राजावग्रहो माण्डलिकावग्रहः शय्यातरावग्रहः साधर्मिमकावग्रहश्च / गतं कतिविधद्वारम् / इदानीं कस्य न भवतीति प्रतिपादयतिकस्स पुण उग्गहोत्ति, परपासंडीण उग्गहो नत्थि। निण्हे सेत्ते संजति, अगीते गीत एक वा / / कस्य पुनरवग्रहो भवतीति शिष्यप्रश्रमाशङ्ख्य प्रोच्यते परपाखण्डिनामवहो नास्तियेच निहवा ये च सन्ना याश्च संयत्यो गीतार्थरपरिगृहीता ये चागीतार्था गीतार्थनिश्रामनुपपन्ना यश्च निष्कारणमेकाकी गीतार्थ एतेषां सर्वेषामप्यवग्रहो नास्ति। एतदेव सुव्यक्तमाह - असण्णाण बहूणं पि गीतमगीताण उग्गहो नत्थि। सच्छं दियगीयाणं, असमत्त अणीसगीए वि॥ अवसन्नानां बहूनामपि गीतार्थानामगीतार्थानां चावग्रहो नास्ति (सच्छंदियगीयाणत्ति) ये गीतार्था अपि स्वच्छन्दिकाः स्वच्छन्दतयैव एकाकिनो विहरन्ति तेषामपि नास्यवग्रहः। तथा ये असमाप्ता असमाप्तकल्पाः यस्य च समुदायस्य न विद्यते गीतोऽगीतार्थ ईशस्तेषामपि नास्त्यवग्रहः। एवं ता सावेक्खे, निरवेक्खाणं पिउग्गहो नत्थि। मुत्तूण अहालंदे, तत्थ विजे गच्छपडिबद्धा। एवं तावत्सापेक्षे जातावेकवचनं सापेक्षिणामुक्तसापेक्षाणामस्थविरकल्पिका निरपेक्षा जिनकल्पिकादयस्तेषामप्यवग्रहो नास्ति। किमविशेषेण सर्वेषां नेत्याह / भक्त्वा यथालन्दान् तथात्रापि गच्छप्रतिबद्धान् तेषामवग्रहो भवति गच्छप्रतिबद्धत्वा-दन्येषां तु सर्वेषामपि नास्ति। आसन्नतराजाणंति, संजया सो व जत्थ नित्थरइ। तहियं देंतुवदेसं, आयपरं ते न इच्छंति / /