________________ उवसंपया 1017- अभिधानराजेन्द्रः - भाग 2 उवसंपया विता भणिया ते चेव इमे पंच सालिकणा किं वा अन्ने। तीए कहियं ते मए तया चेव छड्डिया पुण अण्णे आणीया एवं विइयाए वि नवरं तीए भुत्ता कहिया। तइयाए ते चेव आणीया भणियं आभरणकरंडियाए मए सुरक्खीकया। चउत्थीए भणियंताय सगडाणि समप्पिज्जंतु जेण ते पंच सालिकणा आणिज्जते / ततो सेट्ठिणा विम्हिएण पुच्छियं तीए कहियं जहावत्तं जाव जाया मूलसहस्सा तउपरि तुट्टेण सेट्ठिणा भणियं एतीए मज्झपंच सालिकणा अतीव बुट्टिनेइत्तित्ति एसा मम घरस्स सामिणी। तइया भंडाररक्खिया जीए भुत्ता सा महाणसवावारे निजोइया पढमा घरबाहिकम्मे / तथा चाह / प्रथमया परिहापिता द्वितीयया भुक्तास्तृतीयया तावन्मात्राः धृताश्चतुर्थ्या (बुड्ढुत्ति) वर्दिताः / एष दृष्टान्तः संप्रति / दार्शन्तिकयोजनामाह। ओमेसिवमतरते य,उज्झिउं आगतो न खलु जोग्गो। कितिकम्मभारमिक्खा,दिएसु मुत्ता य भुत्तीए।। एवमाचार्येणापि परीक्षानिमित्त साधून्समर्प्य देशदर्शने शिष्या नियोक्तव्यास्तत्र योऽवमे दुर्भिक्षेऽशिवे वा साधून त्यक्त्या अथवा येऽतरन्तोऽसहायास्तान्वा त्यक्त्वा समागतः स खलु न योग्यः येनापि कृतकर्मसुपात्रलेपनादिव्यापारेषु भारे च पथ्युपकरण वाहनेन भिक्षादिषु चात्मभुक्त्या भुक्ता उपयोग नीताः साधवोनच सम्यक्पालिताः सोऽपि नयोग्यः। नय छड्डिया न भुत्ता,नेव य परिहाविया न परिखुट्टा। ततिएणं ते चेव उ,समीवपचाणिया गुरुणो।। तृतीयेन ये समर्पिताः साधवो गुरुणा ते न छड्डिता न दुर्भिक्षाशिवादिषु परित्यक्ता नापि भुक्ताः केवलमात्मोपयोग नीताः / नापि पुरुपासिप्रदानादिना परिहापिताः परिहानि नीताः नाष्यन्यान्यपरिवाजनेन परिवर्द्धिताः किं तुतावन्त एव गुरुसमीपं प्रत्यानीताः। चतुर्थमाह। उवसंपाविय पव्वा-वियाय अण्णे यतेसि संगहिया। एरिसए देइ गणं,कामं तइयं पि पूएमो॥ येन बहव उपसंपादिता उपसंपदंग्राहिता बहवः परिवाजिताश्च अन्येन च तेषामुपसंपादितानां परिवाजितानां च संबन्धिनः संगृहीतास्तेऽपि उपसंपदं ग्राहयिष्यन्ते परिवाजयिष्यन्ते चेत्यर्थः। ईदृशे चतुर्थे ददाति गणमाचार्य एकान्तयोग्यत्वात् न केवलमेतस्मिन् किंतु काममतिशयेन तृतीयमपि पूजयामश्चतुर्थालाभे तमपि योग्यं प्रशंसाम इत्यर्थः / तत्रात्मपरो निक्षेपयोजनामाह। तम्मि गणे अमिसित्ते,सेसगभिक्खूण अप्पनिक्खेवो। जे पुण फडगवतिया,आयपरे तेसि निक्खेवो / एवं कालगते ठविए,सेसाणं आयनिक्खेवो। फबुगवतियाणं तु,आयपरो तेसि निक्खेवो / / तस्मिन् चतुर्थे तदभावे तृतीये वागणे पदे अभिषिक्ते शेषकाणां भिक्षणां तगणान्तर्वर्तिनामात्मनिक्षेपो भवति / ये पुनः स्पर्द्धक पतयस्तेषामात्मनः परतश्च निक्षेपः स्पर्द्धकपतीनामात्मतस्तदाश्रितानां परतः स्पर्द्धकपतिद्वारेण तेषामुपनिक्षेपभावात् / एवमात्मपरोपनिक्षे–पिकालगते दृष्टव्यस्तथा चाह (एवं ति) एवं निरपेक्ष्य सहसाकालगते पूर्वप्रकारेणान्यस्मिन् स्थापिते शेषाणां गणान्तर्वर्तिनामात्मनिक्षेपो भवति स्पर्द्धकपतिकानां त्वात्मनिक्षेपः स्पर्द्धकपतीनामात्म-तस्तदाश्रितानां परतो निक्षेप इत्यर्थः। उपसंपज्जणअरिहे,अविजमाणम्मि होइनातव्वं / गमणम्मि सुद्धासुद्धे,चउभंगो होति नायव्वो।। उपसंपदनाहे अविद्यमाने भवत्यन्यत्र गन्तव्यं तत्र च गमने शुद्धपदे संयोगतश्चतुर्भङ्गी भवतीति ज्ञातव्यम् / तद्यथा निर्गमने शुद्धो गमने च शुद्ध इति प्रथमः निर्गमने शुद्धो गमने अशुद्ध इति द्वितीयः / निर्गमने अशुद्धो गमने शुद्ध इति तृतीयः / निर्गमने अशुद्धो गमने चाशुद्ध इति चतुर्थः / गाथायां चउभंगो इति पुंस्त्वनिर्देशः प्राकृतत्वात् / तत्र प्रथमभङ्गव्याख्यानार्थमाह। असतीए वायगस्स,जं वा तत्थत्थि तम्मि गहियम्मि। संघाडो एगो वा,दायव्वो असति एगागी। यः कालिकमुत्कालिक दृष्टिवाद वा वाचयति स नास्ति ततस्तस्य वाचकस्यासत्यभावे अथवा यत्तत्रास्ति श्रुतं तत्सर्वं गृहीतं ततस्तस्मिन् गृहीतेऽन्यसूत्राद्यर्थमन्यत्र व्रजति तस्य च एकः संघाटो दातव्यः / असति संघाटकाभावे एकाकी व्रजेत्। अह सव्वेसिंतेसिं,नत्थि उ उवसंपयारिहो अण्णो। सवे घेत्तुंगमणं,जत्तियमेत्ता व इच्छंति / / अथ तेषां गच्छवर्तिनांसाधूनां सर्वेषामन्य उपसंपदों नास्ति ततः सर्वान् गृहीत्वा गमने कर्तव्यम्। अथ सर्वे गन्तुंनेच्छन्ति तर्हि यावन्मात्रा इच्छन्ति तावन्मात्रैः सह गन्तव्यमेष निर्गमशुद्ध उच्यते। एवं सुद्धे निग्गमे,वइयाइअपडिवजंतो। संविग्गमणोण्णे हिं,तेहिं वियदायव्वो संघाडो।। एवं शुद्ध निर्गमे वजिकादिषु गोकुलादिष्वप्रतिबन्धमकुर्वन् गच्छेत्। तत्र यद्यपान्तराले संविग्नमनोज्ञाः सन्ति ततस्तैः सह मिलित्वा गन्तव्यं तैरपि च निर्गमनशुद्धत्वात् ज्ञानाधुपसपन्निमित्ते च चलित-त्वादवश्यं संघाटो दातव्यः। अथ यदा एकं द्वौ वा दिवसौ संघाटो न भवति व्याकुलत्वात्तदा किंकर्तव्यमत आह। एगं च दो व दिवसे,संघाडत्थं स पडिच्छिज्जा। असती एगागी उ,जयणा उवही न उवहम्मे / / एकं द्वौ वा दिवसौ स संघाटार्थे प्रतीक्षेत असत्यभावे संघाटस्य एकाकी व्रजेत् तत्र च यतना कर्तव्या सा च प्राक्कल्पाध्ययनेऽभिहिता तत उपधिनोपहन्यते यतनया प्रवृत्तत्वात्। उपसंहारमाह। एसो पढमो भंगो,एवं सेसा कमेण जोएज्जा। आसतुज य गणं,गच्छे दारा य तत्थ इमे / / एषोऽनन्तरोदितः प्रथमो भङ्ग एवमुपदर्शितेन प्रकारेण शेषा अपि भड़काः क्रमेण योक्तव्यास्तद्यथा निर्गमशुद्धः प्राग्वत् गमनाशुद्धो प्रजिकादिषु प्रतिबन्धकारणान् निर्गमनाशुद्धो दोषाकीर्णतया निर्गमनात् निर्गमनशुद्धो वजिकादिष्वप्रतिबन्धान्निर्गमनाशुद्धो गमनाशुद्धश्च प्राग्यत् / अथ प्रथमभङ्गवर्ती प्रशस्यः कारणतो द्वितीयभगवर्त्यपि एवं च गच्छता तेन ये आसन्ना उद्यता उद्यतविहारिणस्तेषां स्थानं गच्छेत्तत्र च गतस्य परीक्षादिनिमित्तमिमानि द्वाराणि भवन्ति तान्येवाह / उपसंपदहस्य गच्छस्य हानिवृद्धिपरीक्षणं तत्र कल्प्याकल्प्यविधिः॥ पारिक्खहाणि असती,आगमणं निग्गमो असंविग्गे। निवियणजयणनिसटुं,दीहखद्धं पडिच्छंति।।