________________ उवसंपया 1016- अभिधानराजेन्द्रः - भाग 2 उवसंपया उपनिक्षिपन्ति तिष्ठन्ति च चरणोपपातकारकाः प्रपन्नशरणा ये पुनरप्रगल्भास्ते ये राज्ञो वल्लभास्तरात्मानमुपनिक्षेपयन्ति / एष परोपनिक्षेपः / लोकोत्तरिका आत्मनिक्षेपो गच्छवर्त्तिनां साधूनां तथाहि ये गच्छे एव वर्तन्ते साधवस्ते आत्मानमात्मनैवा-भिनवाचार्यस्योपनिक्षिपन्ति / परनिक्षेपः फड्कगतानां ते हि समागताः स्पर्द्धकपतिना निक्षिप्यन्ते यथा एते अहं च युष्माकमिति। "इह मिथियाइय अण्णे कइ उवसंपज्जणारिहे" इत्याद्युक्तम् तत्र यद्यपिस गीतार्थस्तरुणः समर्थश्चेन्द्रियनोइन्द्रियाणां निग्रहं कर्तुं तथापि तेनान्यो गणो निश्रयितव्यो परप्रत्ययनिमित्तं तत्रापि निक्षेपः कर्तव्यः। अत्र लौकिको दृष्टान्तस्तमेवाह। जह कोइ वण्णितो उं, धूयं सेट्ठिस्स हत्थनिक्खिवओ। दिसि जत्ताए गत्तो, कालगतो सोय सेट्ठीउ।। एको वणिक् तस्य गृहे मारिरुत्थिता। सर्व गृहमुपच्छादितमेका दुहिता तिष्ठति परः स श्रेष्ठी निर्धन इति तांदुहितरंन परिणापयितुं समर्थस्ततो दिग्यात्रां कर्तुमिच्छति जानाति वै तस्याः कन्यकायाः स्वभावं यथा समर्थात्मानमेषा संरक्षितुं केवलमेका कन्यका महती गृहे तिष्ठन्ती दुष्टशीला लोकेन संभाव्येतेति मित्रवेष्ठिनो हस्ते तां निक्षिप्य मुक्त्वा वाणिज्येन दिग्यात्रां गतः। तस्यापि च मित्रवेष्ठिनो गृहे मारिरभूत्। ततः सोऽपि सकुटुम्बो विनाशमुपागमत् तथा चाह स च श्रेष्ठी कालगतः केवलमेका कन्यका स्थिता सा च मूलश्रेष्ठिदुहितुः सखी सा च सखी अप्यात्मानं संरक्षितुं क्षमा के वलं यशःप्रत्ययनिमित्तं राज्ञः समीपमुपस्थिता तथा चाह। सेविस्स तस्य धूया, वणियसुर्य घेत्तु रण्णो समुवगया। अह यं एस सही मे, पालेयव्वा उ तुज्झेहिं / / तस्य मूलभूतस्य श्रेष्ठिनो दुहिता वणिक्सुतां मृतपितृवणिग्दुहितरं गृहीत्वा राज्ञः समुपगता समीपमुपगता पादेषु निपत्य विज्ञपयति यथा देव युष्माभिर्निजदुहितरो रक्ष्यन्ते तथा अहमेषे यं मे सखी युष्माभिःपालयितव्या आवयोरपि युष्मत्कन्यकात्वात्। इय होउ त्ति य भणियं, कण्णा अंतेउरम्मि तुट्टेण। रण्णा परिकत्ता उ, भणिया वाहरिउ पालाउ॥ इति एवं भवत्विति भणित्वा तुष्टन राज्ञा ते द्वे अपि कन्यान्तः पुरे प्रक्षिप्ते भणिता च व्याहृत्य आकार्य (पालाओ) पालिका महत्तरिका किं | भणित्तेत्यत आह। जह रक्खह मज्झ सुता, तहेव एया तो दोदि पालेह। ते एवितेउ पाले, विण्णवियं विणीतकरणाए। यथा रक्षथ मम सुताः कन्यकास्तथैव एते अपि द्वे मत्कन्यकाख्ये पालयथ एवमुक्ते तयापि महत्तरिकया विनीतकरणया विज्ञप्तं देव एते अतिपालयामि। एवमुक्त्वा ते कन्यान्तः पुरं नीते।तत्रच मूलश्रेष्ठिदुहिता महत्तरिका विज्ञपयति। जह कन्ना एयातो, रक्खह एमेव रक्खह ममं पि। जह चेव ममं रक्खह, तह रक्खह मम सहिं पि / / यथा एताः कन्या यूयं रक्षथ एवमेव मामनि रक्षथ / यथा च मां रक्षथ तथेमां मम सखीमपि रक्षथ। इय होउ अब्भवगए, अह वासिं तत्थ संवसंतीणं / कालगया महतरिया,जा कुणती रक्खणं तासिं / / इत्येवं भवत्विति अभ्युपगते तासां तत्र संवसन्तीनामथ कियत्कालातिक्रमेण या रक्षणं तासां करोति सा महत्तरिका कालगता। सविकारातो दट्टुं, सेविसुया विण्णवेइरायाणं। महतरियदाणनिग्गह, वणियागमए य विण्णवणं // महत्तरिकाकालगमनानन्तरं ताः कन्यकाः सविकारा अभूवन्ततस्ताः सविकाराः दृष्ट्वा श्रेष्ठिसुता राजानं विज्ञपयति अन्यमहत्तरिकांप्रयच्छत दत्ता राज्ञा। तया च महत्तरिकया (निग्गहत्ति) कन्याः सविकारा उपलभ्य खरण्टिताः एवंतासां तिष्ठन्तीनां (वणियागमत्ति) स देशान्तरगतो वणिक् समागतः (विण्णवणमिति) राज्ञो विज्ञपनमकार्षीत् यथा देव ! नयामि निजपुत्रिकामिति। पूएऊण विसञ्जण, सरिसकुलदाण दोण्ह वि भोगा। एमेव उत्तरम्मि वि, अवत्त राइदिए उवमा।। ततः श्रेष्ठिकृतविज्ञप्तिकानन्तरं ते द्वे अपि पूजयित्वा राज्ञा विसृष्टे सदृशकुले दानं विवाहिते इत्यर्थः / ततस्तयोर्द्वयोरपि विपुला भोगा दत्ताः। एवमेव अनेनैव प्रकारेण उत्तरेऽपि लोकोत्तरेपि अव्यक्तस्य रात्रिंदिवैरुपमा / इयमत्र भावना / यदि तावल्लौकिका अपि यशः संरक्षणनिमित्तमात्मानमन्यत्रोपनिक्षिपन्ति ततः सुतरां लोकोत्तरिकैः साधुभिः संयमयशः संरक्षणनिमित्तमात्मा ऽन्यगणे निक्षेप्तव्यः / स चाव्यक्तो वयसा ततो यावद्भिरहोरात्रैर्वयसा व्यक्तो भवति तावन्तं कालं तत्रान्यगणनिश्रायां तिष्ठति कथं पुनरात्मानं गणं वोपनिक्षिपति / तत आह। एते अहं च तुब्भ, वत्तीभूतो सयं तु धारेइ। जसपव्वयाउराला, मोक्खसुहं चेव उत्तरिए।। एते मदीयाः साधवोऽहं च युष्माकमेवं चोपनिक्षिप्य तायत्तत्र तिष्ठति यावत् व्यतो जायते ततो व्यक्तीभूतः सन् तस्मान्निर्गत्य स्वयमेव गणं धारयति एवं च कुर्वतस्तस्य फलमिह लोके उदारा यशःप्रत्यया अवदातं यशोऽवदाताश्च लोके प्रत्ययाः संयमनैर्मल्यविषयाः / परलोके फलं मोक्षसुखमौत्तरिके लोकोत्तरिके उपनिक्षेपे / अथवा लौकिकस्य लोकोत्तरिकस्य च सापेक्षस्य पदस्थापनायोग्यविषयेयं परीक्षा / सावेक्खं पुण पुवं, परिक्खए जह धणे उ सुण्हा उ। अणिययसहावयपरिहा-विय १मुत्ता रतचि३ वुड्डा उ४|| सापेक्षं पुनः पूर्व परीक्षते साधून्यथाधनश्रेष्ठी स्नुषा अनियतस्वभावाः परीक्षितवान् कथमिति चेदुच्यते "रायगिहे नयरे धणो नाम सेट्टी तस्स चत्तारि सुण्हा ता अन्नया चो चिंतेइ का मम सुण्हा घरं बुडितेहित्ति ततो अन्नया तासि परिक्खणनिमित्तं सयणवग्गो णिमंतितो भोयणोत्तरं सयणसमक्खं सुण्हातो सद्दावेऊण पत्तेयं पत्तेयं पंच सालिकणा समप्पिया एएसुरक्खियं करेह यदा मग्गेहामि तथा दायव्वा ततो पढमाए वुड्डो एस न लज्जितो सयणसमक्खं पंच कणे समप्पंतो न किंपि जाणइ जया मग्गिहिति तया अन्ने दायव्वा इति छड्डिया। विययाए वुट्टसेसति भुक्ता तइयाए, आभरणकरडियाए सुरक्खीकया चउत्थीए ता उ य खेत्तेसु आरोविऊण विद्धिं नीया जाया। वरिसपणगेण सयसहस्सा। पुणो वि सेविणा वरिसपणगानंतरं सयणवग्गं णिमंतेऊण भुत्तुत्तरं सयणसमक्खं ततो सहावियातो ते मे पंच सालिकणे समप्पेहा ततो पढमाए अण्णतो ठाणातो आणेऊण समप्पिया सेट्ठिया सव्वहसा