________________ उवसंपया 1015 - अभिधानराजेन्द्रः - भाग 2 उवसंपया प्रजा राजाऽऽद्यपेक्षः सन् जीवन्नेव युवराजं स्थापयति निरपेक्षस्तु नैव। अथ किं जीवन्नेव युवराजं स्थापयति तत आह। जुवराजम्मि उठबिए, पया उबंधंति आयति तत्थ। नेव य कालगयम्मि, खुभंति पडिवेसियनरिंदा।। युवराजे राज्ञा साक्षाद्विद्यमानेन स्थापिते प्रजास्तत्र आयतिमागामिकालविषयां महतीमास्था बध्नन्ति नैव च सहसा कालगते राज्ञिप्रातिवेशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः क्षुभ्यन्ति राज्यविलोडनाय संबलन्ति। उक्तः सापेक्षः। संप्रति निरपेक्षमाह। पच्छन्नरायतेणे, आयपरो दुविह होइ निक्खेवो। लोइयलोगुत्तरितो, लोगुत्तरवप्पियर वोच्छं॥ निरपेक्षो नाम यः प्रजानां राज्यस्य चायतिं नोपेक्षते तस्मिन्कालगते सराजा मृतः प्रच्छन्नो घ्रियते यथा अतीव राजा शरीरवाधितो वर्ततेसच तावत् ध्रियते यावदन्यो निवेश्यते। सच कदाचित्स्तेनोऽपि।तथा निक्षेपणं निक्षेपः स द्विविधो द्विप्रकारस्तद्यथा आत्मनः परतश्च। पुनरेकैको द्विधा लौकिको लोकोत्तरिकश्च / तत्र लोकोत्तरिकः स्थाप्यः पश्चाद्वक्ष्ये इत्यर्थः / इतरं लौकिकं प्रथमगाथापादोपक्षिप्तं वक्ष्ये / प्रतिज्ञातमेव निर्वाहयति। निरवेक्खे कालगते, मिनरहस्सा चिगिच्छमयो य। अहिवास आसहिंडण, वज्झो तियमूलदेवो उ॥ एको राजा निरपेक्ष्ज्ञस्तस्य राज्ये मूलदेवश्चोरिकां करोति / स कदाचिदारक्षकैः प्राप्तो राज्ञः पार्श्वे नीतो राज्ञा च स्तेन इति कृत्वा वध्य आज्ञप्तः ततः राजा तत्क्षणमेव निजमावासस्थानमुपगतः। क्षणमात्रेण च सहसा कालगतः। तस्मिन्निपेक्षे कालगतेद्वौ भिन्नरहस्यौ राजा मृत इति रहस्यं द्वौ जानीतस्तद्यथा चिकित्सो वैद्योऽमात्यश्च राजा चानपत्यस्ततोऽश्वस्याधिवासना कृता सर्वत्र त्रिकचतुष्कचत्वरादिषु हिंडाप्यते कथं नामराजलक्षणयुक्तं पुरुषं लभेमहि यं राजानं स्थापयाम इति मूलदेवश्च यो वध्य आज्ञापितस तेनावकाशेन नीयमानो वर्तते। आसस्स पट्टिदाणं,आणयणं हत्थचालणं अन्नो। अभिसेगमोइयपरिभव, तणजक्खनिवायणं आणा।। ततोऽश्वेन तस्य मूलदेवस्य वध्यतया नीयमानस्य पृष्टं दत्तं / गाथायां स्त्रीत्वं प्राकृतत्वात् प्राकृते हि लिङ्गं व्यभिचारिततो मूलदेवो यत्र राजा प्रच्छन्नो जवनिकान्तरितोऽवतिष्ठते तत्रानीतस्ततो वैद्यकुमारामात्याभ्यां जवनिकाभ्यन्तरस्थिताभ्यां राज्ञो हस्त उपरि मुखे नीत्वाचालित एतत् राज्ञो हस्तचालनं ततो वैद्यकुमाराभ्यामुक्तं कृताराज्ञाऽनुज्ञा यथा मूलदेवं राजानमभिषिञ्चत न शक्नोति वाचाधकुमिति ततो अभिषिक्तो मूलदेवो राज्ये नवरमसदृश इति कृत्वा केचिद्भोजिकाः परिभवमुत्पादयन्तिान पुनः कुर्वन्ति / राजाह विनयं ततश्चितयति मूलदेवो ममैते मूर्खतया परिभवं कुर्वन्ते परं किमिदानीमते मूर्खतयैव कदाचित्स्वयमेवसभामण्डलं जल्पिप्यन्ति तदानीं शासयिष्यामि ततो ऽन्यदिवसे आत्मनः शिरसि तृणशूकजातं कृत्वा आस्थानमण्डपिकायामुपविष्टः / ते च भोजिका मूर्खतया शनैः परस्परमुल्लपन्ति अद्यापि नन्वेष चोरत्वं न मुञ्चति अन्यथा कथमेतादृशस्य तृणशूकजातस्येदृशे भवने संभवो नूनं तृणगृहादिषु चौरिकानिमित्तमतिगतस्ततस्तृणशूकजातं शिरसि लग्नमिति एतच्चाकर्ण्य मूलदेवो रोषमुषागमत् ब्रूते च अस्ति कोऽपि नाम मच्चित्त नुकारी य एतान् शास्तीति। तत एवमुक्ततत्पुण्य प्रभावतो राज्यदेवताधिष्ठितैर्निशितासिलताकै श्चित्रकर्मप्रतीहारैः केषांचित् शिरांसि लूनानि शेषाः कृतप्राञ्जलयः आज्ञामभ्युपगतवन्तः। तथा चाह (भोइयपरिभवेत्यादि) भोजिकाः परिभवं कृतवन्तोऽन्यदा मूलदेवः (तणत्ति) तृणानि शीर्षे कृतवान्ततस्तत्कोपावेशंदृष्ट्वायझरतिपातनं विनाशनं कृतम्। शेषराज्ञा प्रतीच्छिता। एतदेव सविशेषमाह। जक्खनिवातियसेसा, सरणगया जेहिं तोसितो पुष्वं / ते कुट्वंती रण्णो, अत्ताण परे य निक्खिवणं / / यक्षनिपातितशेषाः शरणागता मूलदेवस्य शरणं प्रतिपन्नाः। यैश्च पूर्व मूलदेवस्तोषितस्तै राज्ञ आत्मनः परस्य च निक्षेपमद्य प्रभृति युष्मदीया वयमेते चेति समर्पणं कुर्वन्ति। उक्तो निरपेक्षोऽनिरपेक्षश्च लोकोत्तरिको वक्तव्यस्तत्र प्रथमं सापेक्षमाह। पुवं आयतिबंधं, करेइ सावेक्ख गणहरे ठविए। अट्ठविए पुटवुत्ता, दोसाउ अणाहमादीया।। यो नामाचार्यः सापेक्षः स पूर्वमेव गणधरे स्थापिते साधूनामायतिबन्धं करोति यथाऽयं युष्माकमाचार्य इत्येतदाज्ञया वर्तितव्यमिति / अथ न पूर्वं गणधरं स्थापयति ततस्तस्मिन्नस्थापिते दोषाः पूर्वोक्ता अनाथादयः "अणाहमादीया" इत्यादिनाभिहिताः क्षिप्तादयो दोषा भवेयुः / उक्तो लोकोत्तरिकः सापेक्षः। संप्रति निरपेक्षमाह। आसुक्कारोवरए, अढविते गणहरे इमा मेरे। चिलिमिलिहताणुण्णा, परिभवसुत्तत्थहावणया।। आशुकारेण शूलादिनोपरतः कालगत आशुकारोपरतस्तस्मिन् सत्याचार्ये अस्थापिते ऽन्यस्मिन् गणधरे इयं वक्ष्यमाणा मर्यादा तामेवाह (चिलिमिलीत्यादि) आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यो वक्तव्यं चाचार्याणामतीवाशुभं शरीरं वाचाऽपि वक्तुं न शक्नुवन्तीति। ततो यो गणधरपदार्हस्तं जवनिकाबहिः स्थापयित्वा सूरयो भण्यन्ते को गणधरः स्थाप्यतामेवं चोक्ता जवनिकाभ्यन्तरस्था गीतार्था आचार्यहस्तमुपर्युन्मुखं कृत्वा स्थाप्यमानगणधराभिमुखं दर्शयन्ति वदन्तिच गणधरत्वमेतस्यानुज्ञातं परं वाचावक्तुंनशक्नुवन्ति एषा हस्तानुज्ञा न एतस्योपरि वासा निक्षिप्यन्ते / स्थापित एष गणधर इति पश्चात्कालगता आचार्या इति प्रकाश्यते (परिभवसुत्तत्थहावणया इति) ततो येऽभिनवस्थपितस्याचार्यस्य परिभवोत्पादनबुद्ध्या आचार्योचितं विनयं न कुर्वन्ति तेषां सूत्रमर्थ वा स हापयति न ददातीत्यर्थः। संप्रति "आयपरो दुविह होइ निक्खेवो लोइयलोइत्तरितो" इति व्याख्यानार्थमाह। दंडेण उ अणुसहा, लोए लोगुत्तरे य अप्पाणं / उवनिक्खिवंति सो पुण, लोकिकलोगुत्तरे दुविहो / लोके लोकोत्तरे च यथार्ह विनयमकुर्वन्तो / दण्डेनानुशिष्टा आत्मानमुपनिक्षिपन्तितत्रलौकिको दण्डः पूर्वमुक्तो यो मूलदेवेन भोजिकानां केषांचित्कृतो लोकोत्तरिकः सूत्रापिहारणम् / इह नवे राज्ञीव नवे गणधरे स्थापिते निक्षेपरसो लोकस्य जायते तत्तत्फलाद्युपवर्ण्यते निक्षेपस्य फलं लोके परिपालनं लोकोत्तरज्ञानादीनामभिवृद्धिः स चोपनिक्षेपो द्विधा लौकिको लोकोत्तररिकचा पुनरेकैको द्विधा आत्मोपनिक्षेपः परोपनिक्षेपश्च। तत्र लौकिक आत्मनिक्षेपो ये प्रगल्भास्ते आत्मनैवात्मानं राज्ञ