________________ उवसंपया 1018 - अभिधानराजेन्द्रः - भाग 2 उवसंपया परीक्षा (हाणीति) हानिवृद्धिविषया कर्तव्या यत्र ज्ञानादीनां हानिस्तत्र न वास्तव्यमन्यत्रवास्तव्यमिति भावः (असतित्ति) यस्य समीप गच्छोपसंपन्नस्तस्मिन्सापेक्षे निरपेक्षे वा कालगतत्वेनासति योऽन्यः / स्थापितस्तस्य सकाशे स्थातव्यं तस्मिन्नपि सीदति याव- | त्कुलादिस्थविराणामागमनं तावत्प्रतीक्षणीयं तैरपि प्रतिचोदने कृते सीदति निर्गमो विधेयः / गच्छता च संविग्नाभावे बहिर्वास्तव्यमसंविग्ने निवेदना कर्त्तव्याः। बहिर्वसत्यभावे तेष्वप्यसंविग्नेषु नवरं यतना विधेया। तथा संविग्नेषु वा संवसनं निसृष्टमनुज्ञातमेकरात्रमुत्कर्षतस्त्रीणि दिनानि वर्षादिकारणतः पुनर्यतनया (दीहखद्धमपि) प्रचुरमपि दीर्घकालं प्रतीक्षते / एष द्वारगाथासंक्षेपार्थः / सांप्रतमेनामेव विवरीषुः प्रथमतः पारिच्छहाणित्ति द्वारमाह - पासत्थादिविरहितो,काहियमाईहिवाविदोसेहिं। संविग्गमपरितंतो,साहम्मिय वच्छलोजाउ। अपान्तराले पार्श्वस्थादिविरहितः पार्श्वस्थादिसंसगिविप्रमुक्तः काथिकादिभिर्वा भावप्रधानोऽयं निर्देशः काथिकत्वादिभिर्वा दोषै- 1 विमुक्तस्तथाऽसंविनोऽपरिश्रान्तः सामाचार्याभिति गम्यते / तथा यः साधर्मिकवत्सलः प्रवचनलिङ्गसाधर्भिकवात्सल्यपरायणः सः। अब्भुजएसु ठाणं,परिच्छिउं हीयमाणए मोत्तुं। केसु पदेसुंहाणी,वड्डी वा तं निसामेहि।। अभ्युद्यतानामुद्यतविहारिणां स्थानं परीक्ष्य गाथायां सप्तमी षष्ठ-यर्थे हीयमानकान्मुक्त्वा तिठेत् / अथ केषु पदेषु हानिर्वृद्धि, सूरिराह / तदेतत्कथ्यमानं निशामय / तदेवाह। तवनियमसंजमाणं,जहियं हाणी न कप्पते तत्थ। तिगवुड्डी तिगसोही,पंचविसुद्धीसुसिक्खाय॥ यत्र तपोनियमसंयमानां हानिस्तत्र न कल्पते वस्तुं यत्र पुनस्त्रिकवृद्धिर्ज्ञानदर्शनचारित्रवृद्धिर्यत्र च त्रिकस्याहारोपधिशय्यारूपस्य शोधिर्यत्र च पञ्चानां पार्श्वस्थादिस्थानानां विशुद्धिस्तेष्वप्रवर्ततं यत्र च सुशिक्षा ग्रहणे आसेवनाच तत्रवास्तव्यम्। सांप्रतमेनामेव गाथां विवृणोति।। वारसविहे तवे उ,इंदिय नोइंदिए य नियमे उ। संजमसत्तरसविहो,हाणी जहि यतहिं न वसे। यत्र द्वादशविधे तपसि इन्द्रियविषये च नियमे संयमे सप्तदशविधे हानिस्तत्र न वसेत्। तवनियमसंजमाणं,एएसिंचेव तिण्ह तिगवुड्डी। नाणादीण व तिण्हं,तिगसुद्धी उग्गमादीणं / एतेषामेव त्रयाणां तपोनियमसंयमानां वृद्धिस्त्रिकवृद्धिः / अथवा ज्ञानादीनां त्रयाणां वृद्धिस्विकवृद्धिः / त्रयाणामुद्मादीनामुपलक्षण-- मेतदाहारादीनां वा त्रयाणां शुद्धिस्त्रिकशुद्धिः। पासत्थे ओसण्णे,कुसीलसंसत्त तह अहाछंदे। एएहि जो विरहितो,पंचविसुद्धो हवइ सो उ॥ पार्श्वस्थोऽवसन्नः कुशीलः संसक्तो यथाच्छन्दएते पञ्चापि प्राक्सप्रपञ्च प्ररूपिता एतैःस्थानों विरहितः स पञ्चविशुद्धो भवति। पञ्चविशुद्धावेव प्रकारान्तरमाह // पंच य महव्वयाइं,अहवा विनाणदंसणचरितं / तव विणओ वि य पंच उ,पंचविहुवसंपया वावि / / वाशब्दः प्रकारान्तरोपदप्रदर्शने पञ्च महाव्रतानि अथवा ज्ञानं दर्शनं चारित्रं तपो विनय इति पञ्च / यदि वा पञ्चविधा ज्ञानदर्शनचारित्रतपोवैयावृत्यभेदतः पञ्चप्रकारा उपसंपत् पञ्च तैः पञ्चभिर्विशुद्धः पञ्चविशुद्धः / / सुशिक्षामाह। सोमणसिक्ख सुसिक्खा,सापुण आसेवणे य गहणे या दुविहाए वि न हाणी,जत्थ उ कहियं निवासेउं / / शोभना शिक्षा सुशिक्षा सा द्विविधा तद्यथा आसेवने ग्रहणे च। आसेवने प्रत्युपेक्षणादेः सामाचार्या ग्रहणमागमस्या एतस्यां द्विवि-धायामपि यत्र नहानिस्तत्र वासः कल्पते कर्तुम्। एएसुंठाणेसुं,सीयंते चोदंति आयरिया। हावेंति उदासीणा,नतं पसंसंति आयरिया।। एतेषुस्थानेषु तपःप्रभृतिषु स्वयमाचार्या हीयमाना न दृश्यन्ते शिष्यास्तु केचित्सीदन्ति तात्सीदतो यत्राचार्याश्चोदयन्तितं गच्छं निवासयोग्यतया आचार्याः प्रशंसन्ति / यत्र पुनराचार्या उदासीना मध्यस्थाः सामाचारी हापयन्त उपेक्षन्ते न तं प्रशंसन्त्याचार्याः नासौ गच्छ उपसंपादनीय इत्यर्थः। किं कारणमत आह॥ आयरियउवज्झाया,नाणुण्णाया जिणेहिं सिप्पट्ठा। णाणे चरणे जोगा-वहा उ ते अणुण्णाया।। आचार्या उपाध्यायाश्च जिनैस्तीर्थकृद्भिर्न शिल्पार्थाः शिल्पशिक्षणनिमित्तमनुज्ञाताः / कैः कारणैः पुनरनुज्ञातास्तत आह / ज्ञाने चरणे च ये योगास्तेषामवहाः प्रापका यतो भविष्यन्ति ततस्ते अनुज्ञाता ज्ञानचरणस्फातिनिमित्तमनुज्ञाता इत्यर्थः / अपि चेदृशा आचार्योपाध्याया अनुज्ञाताः। नाणचरणे निउत्ता,जा पुथ्वपरूविया चरणसेढी। सुहसीलठाणविजढे,निचं सिक्खकणाकुसला।। ज्ञाने एकग्रहणात् तज्जातीयस्य ग्रहणमिति न्यायाद्दर्शने चारित्रे च नियुक्ताः सततोद्यतास्तथा सुखशीलाः पार्श्वस्थादयः तेषां स्थानं यत्ते सेवन्तेतद्विजढे तद्रहिते या पूर्व कल्पाध्ययने कृतिकर्मसूत्रे चरणश्रेणिः प्ररूपिता तस्यां स्थितास्तथा नित्यं सदा शिक्षापनायां ग्रहणशिक्षायामासेवनाशिक्षायां च ग्राहयितव्यायां कुशलाः समर्थाः ईदृशा समीपमुपगम्योपसंत्तव्यम्। गत परिच्छिहाणित्ति द्वारम्। इदानीमसतित्ति द्वारमाह। जेण वि पडिच्छितो सो,कालगतो सो वि होइ आहथ / सो वि य सावेक्खो वा,निरवेक्खो वा गुरूआसि // येनापि स प्रतीच्छितो यस्य समीपे स शिष्यपरिवार उपसंपन्न इत्यर्थः सोऽपि (आहच) कदाचित्कालगतो भवेत् सोऽपि च गुरु : कालगतः सापेक्षो वा आसीन्निरपेक्षो वा / तत्र यः सापेक्षः सोऽमुं विधिं करोति। सावेक्खो सीसगणं,संगहकारेइ आणुपुथ्वीए। पाडिच्छागयवेत्ति,एस वियाणे अह महल्लो।। सापेक्षः शिष्यगण स्वदीक्षितशिष्यसमूहमभिनवस्थापितस्य संग्रहमानुपूानुपूर्वीकथनेन कारयति / यथा पूर्वं सुधर्मस्वामी गणधर आसीत् / ततस्तच्छिष्यो जम्बूस्वामी तस्यापि शिष्यः प्रभव एवं तावद्यावत्संप्रति वयमहमपि च संप्रति महान् वृद्धीभूतस्ततोऽसौ योऽमुको गणधरः स्थापितो वर्तते तस्याज्ञा कुर्या वैनयिकादिकं च। तथा ज्ञानदर्शनादिप्रतीच्छादिनिमित्त