________________ उववाय 1006 - अमिधानराजेन्द्रः - भाग 2 उववाय किं सव्वपाणा इत्यादि अस्य चैवं प्रयोगः / अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वा अत्रोत्तरम् (असइंति) असकृदनेकशः इदं च वेलाद्वयादावपि स्यादतोऽत्यन्त बाहुल्यप्रतिपादनायाह (अदुवत्ति) अथवा (अणं तखुत्तोत्ति) अनन्तकृत्वोऽनन्तवारान् (भ०२श०३ उ०) तएणं से महव्यले अणगारे धम्मघोसस्स अणगारस्स अंतिए सामाइयमाझ्याई चउद्दसपुव्वाई अहिजइ (इत्यादि ब्रह्मलोके महाबलस्योषपातः महव्वल शब्दे) इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात उच्यते, जावंति लंतगाओ चोद्दसपुटवो जहण्णउववाओत्ति, वचनःदेतस्य च चतुर्दशपूर्वधरस्यपि यद् ब्रह्मलोके उपपात उक्तस्तत्के नापि मनाग्विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामुपरि पूर्णत्वादिति सम्भावयन्तीति भ०११ श०११ उ०। (गुणस्थानकेषूपपातो गुणट्ठाण शब्दे मार्गणास्थानकं जीवठाणकादिशब्देषु)। (30) अविराधितश्रामण्यो देवलोकेषूपपद्यते।। अहं भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कं दप्पियाणं चरगपरव्वायगाणं किदिवसियाणं तिरिच्छियाणं आजीवियाणं अभिओगियाणं सलिंगाणं दसणवावण्णगाणं एएसिणं देवलोएसु उववज्जमाणाणं कस्स कहिं उववाए पण्णत्ते गोयमा !असंजय भवियदव्वदेवाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिम गेवेज्जएसु अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्ध विमाणं विराहियसंजमाणं जहण्णेणं भवणवासीसु उकोसेणं सोहम्मे कप्पे अविराहियसंजमासंजमाणं सोहम्मे कप्पे उक्कोसेणं अचुए कप्पे विराहियसंजमासंजमाणं जहण्णेणं भवणवासीसु उक्कोसेणं जोइसियासु असण्णीणं जहण्णेणं भवनवासीसु उक्कोसेणं वाणभृतरेसु अवसेसा सव्वे जहण्णेण भवणवासीसु उक्कोसेणं वोच्छामि तावसाणं जोइसिएसु कंदप्पियाणं सोहम्मे कप्पे चरगपरिव्वायगाणं बंधलोए कप्पे किदिवसियाणं लंतगे कप्पे तिरिच्छियाणं सहस्सारे कप्पे आजीवियाणं अचुए कप्पे अभिओगियाणं अच्चुए कप्पे सलिंगाणं दंसणवावण्णगाणं उवरिमगेविजएस।। अहं भंतेत्यादि व्यक्तं नवरमथेति परप्रश्नार्थः (असंजयभवियदव्वदेवाणंति) इह प्रज्ञापनाटीका लिख्यते असंयताश्चारित्रपरिणामशून्या भव्या देवत्वयोग्या अत एव द्रव्यदेवाः / समासश्चैवम् / असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रध्यदेवास्तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके यतः किलोक्तम् / अणुवयमहव्वएहि य, वालतवोकामनिज्जराए य / देवाउयं वि बंधइ, समद्दिद्वी यजोजीवो, एतच्चायुक्तं यतोऽमीषामुत्कर्षत उपरिमप्रैवेयके)पपात उक्तः सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्। नाप्येते निहवास्तेषामिहैव भेदेनाभिधानात् तस्मान्मिथ्यादृष्टय एवाऽभव्यभव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्तेते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमग्रैवेयकेषूत्पद्यन्ते इति असंयताश्च ते सत्यप्यनुष्ठानेचारित्रपरिणामशून्यत्त्वात्। ननु कथं तेऽभव्याः भव्या वा श्रमणगुणधारिणो भवन्तीत्यत्रोच्यते तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेक-- भूपतिप्रवरपूजासत्कारसन्मानदानात् साधून समवलोक्य तदर्थ प्रव्रज्याक्रियशकलापानुष्ठानं प्रति श्रद्धा जायते ततश्च यथोक्तक्रियाकारिण इति। तथा (अविराहियसंजमाणंति) प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसंभवेऽप्यानाचरितचरणोपघातानामित्यर्थः / तथा (विराहियसंजमाणंति) उक्त विपरीतानाम! (अविराहियसंजमासंजमाणंति) प्रतिपत्तिकालादारभ्याखण्डितदशविरतिपरिणामानां श्रावकाणाम् (विराहियसंजमासंजमाणति) उक्तव्यतिरेकिणाम् (असन्नीणंति) मनोलब्धिरहितानामकामनिर्जरावतां तथा (तावसाणंति) पतितपत्राद्युपभोगवतां बालतपस्विनां तथा (कंदप्पियाणंति) कन्दर्पः परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारमश्चरणवन्त एव कन्दर्पकोत्कुच्यादिकारकाः। तथा हि गाथाकहकहकहस्स हसणं, कंदप्पो अणिहुया य उल्लावा / कंदप्पक हाक हणं, कंदप्पुवएस संसाया / / 1 / / भुमनपणवयणदंसण-छेदेहिं करपायकन्नमाईहिं। तं तं करेइजह जह, हसइ परो अत्तणा अहसं ॥२।वाया कुक्कुइओ पुण, तं जंपइ जेण हस्सए अण्णो। नाणाविहजीवरुए, कुव्वइ मुहतूरए चेवेत्यादि / / 3 / जो संजओ वि एया, सुअप्पसत्था सुभवणं कुणइ / सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणोत्ति / / 4 // अतस्तेषां कन्दर्पिणाम् (चरणपरिव्वायगाणंति) चरकपरिव्राजका धाटिभैक्ष्योपजीविनस्त्रिदण्डिनः / अथवा चरकाः कच्छोटकादयः परिव्राजकास्तु कपिलमुनिसूनवोऽतस्तेषाम् (किदिवसियाणंति) किल्विषं पापं तदस्ति येषां ते किल्विषिकास्ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनो यथोक्तम्, नाणस्स केवलीणं, धम्मायरियस्स संघसाहुणं। माई अवणवाई किदिवसियं भावणं कुणइत्ति // 1 // अतस्तेषां तथा (तिरिच्छियाणति) तिरिश्चां गवाश्वादीनां देशविरतिभाजाम् (आजीयाणंति) पाखण्डिविशेषणां नाग्न्यधारिणां गोशालाकशिष्याणामित्यन्ये / आजीवन्ती वा ये अविवेकीलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकास्तत्वेनाजीविका अतस्तेषां तथा (अभिओगियाणंति) अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः स च द्विधा / यदाह- दुविहो खलु अभिओगो, दव्वे भावे य होय नायव्वो। दव्वम्मि होइ जोगा, विज्जमंताय भावम्मि, त्ति / / 1 / / सोऽस्ति येषां तेन वा चरन्ति येते ऽभियोगिका आभियोगिका वा तेच व्यवहारिणश्चरणवंत एव मंत्रादिप्रयोक्तारो यदाहको उय भूईकम्मे, परिणा पसिणे निमित्तमाजीवी। इड्डिरसे सायगुरुओ, अहिओगं भावणं कुणइ, त्ति ||1 / / कौतुकं सौभाग्याद्यर्थं स्नपनकं भूतिकर्म ज्वरितादिभूतिदानं प्रश्नाप्रश्नं च स्वप्न विद्यादि (सलिंगाणंति) रजोहरणादिसाधुलिङ्गवता किं विद्यानामित्याह (दंसणवावन्नगाणंति) दर्शन सम्यक्तवं व्यापन्न भ्रष्टं येषां ते तथा तेषा निह्नवानामित्यर्थः (एएसिणं देवलोएसुउववजमाणाणंति अनेन देवत्वादन्यवापि केचिदुत्पद्यन्तइति