________________ अव्यत्तिय 815 - अभिधानराजेन्द्रः - भाग 1 अव्वत्तिय श्रुतस्योद्देश- समुद्देशानुज्ञाश्च तदग्रतः कृताः। एवं दिव्यप्रभाव-इतस्तेन देवेन तेषां साधूनां कालभङ्गादिविघ्नं रक्षताशीघ्रमेव विस्तारिता योगाः। ततोऽनेन तच्छरीरं मुक्त्वा दिवंगच्छता प्रोक्ताः साधवः। यथा-'क्षमणीयं भदन्तैर्यदसंयतेन सता मया आत्मनो वन्दनादौ न वारिताः, चारित्रिणो यूयम्। अहं ह्यमुकदिने कालं कृत्वा, दिवंगतोयुष्मदनुकम्पयाऽत्रागतः, निस्तारिताश्च भवतामागाढ-योगाः। इत्याद्युक्त्वा क्षमयित्वा च स्वस्थानं गतः। ततस्ते साधवस्तच्छरीरकंपरिस्थाप्य चिन्तयन्ति- अहो! असंयतो बहुकालं वन्दितः। तदित्थमन्यत्रापि शङ्काको जानाति कोऽपि संयतः, कोऽप्यसंयतो देव इति ? ततः सर्वस्याप्यवन्दनमेव श्रेयः, अन्यथा ह्यसंयतवन्दनं, मृषावादश्च स्यात् / इत्थं तथाविधगुरुकर्मोदयातेऽपरिणतमतयः साधवोऽव्यक्तवादं प्रतिपन्नाः परस्परं न वन्दन्ते। ततः स्थविरैस्तेऽभिहिताः- यदि परस्मिन् सर्वत्र भवतां संदेहस्तर्हि यदुक्तं 'देवोऽहमिति' तत्रापि भवतां कथं न संदेहः? किंस देवो वाऽदेयो या ? इति। अथ तेन स्वयमेव कथितम् -'अहं देवः,तथा देवरूपंच प्रत्यक्ष एव दृष्टमिति न तत्र संदेहः। हन्त! यद्येवं तर्हि य एवं कथयन्ति वयं साधवः, तथा साधुरूपं प्रत्यक्षतएव दृश्यते, तेषुकः साधुत्वसंदेहः, येन परस्परं यूयं न वन्दध्वे ? न च देववचना-देव वचनं सत्यमिति शक्यते वक्तुम, देववचनं हि क्रीडा-द्यर्थमन्यथाऽपि संभाव्यते। न च तथा साधुवचनं, तद्विरत-त्वात्तेषामिति / एवं च युक्तिभिर्यावन्न प्रज्ञाप्यन्ते तावदुद्घाट्य बाह्याः कृताः पर्यटन्तश्च राजगृहं नगरं गताः / तत्र च मौर्यवंशसंभूतो बलभद्रो नाम राजा, स च श्राद्धः / ततः तेन विज्ञाताः। यथाअव्यक्तवादिनो निहवा इह समायाता गुणशिलकचैत्ये तिष्ठन्ति, ततः स्वपुरुषान् प्रेष्य राजकुले आनायिताः / तेन ते कटकमन मारणार्थ चाज्ञप्ताः। ततो हस्तिनिकटेषु च तन्मर्दनार्थमानीतेषु तैः प्रोक्तम्-राजन् ! वयं जानीमः- श्रावकस्त्वं, तत्कथं श्रमणा- नस्मानित्थं मारयसि ? ततो राज्ञा प्रोक्तम् -युष्मसिद्धान्तेनैव को जानाति किं श्रावकोऽहं, न वा ? भवन्तोऽपि किं चौराश्चारिका अभिमरा वेत्यापि को येत्ति? तैः प्रोक्तम्- साधवो वयम् / यद्येव- मव्यक्तवादितया किमिति परस्परमपि यथाज्येष्ठ वन्दनादिकंन कुरुथ? इत्यादिनिष्ठुरैर्मृदुभिश्च वचनैः प्रोक्तास्ते नरपतिना। ततः संबुद्धा लज्जिताश्च निःशङ्किताः सन्मार्ग प्रतिपन्नाः। ततो राज्ञा प्रोक्तम्-भवतां संबोधनार्थमिदं मया सर्वमपि विहितमिति क्षमणीयमिति। अमुमेवार्थ भाष्यकारः प्राहगुरुणा देवीभूए, समणरूपेण वाइया सीसा। सब्भावपरो कहिओ, अय्वत्तियदिट्ठिणो जाया।। गतार्था। कथमव्यक्तदृष्टयो जाताः? इत्याहको जाणइ किं साहू , देवो वा तं न वंदणिज्जो त्ति। होज्जाऽसंजयनमणं, होज मुसावायममुगो ति॥ को जानाति किमयं साधुवेषधारी साधुर्देवो वा ? नास्त्येवात्र निश्चय | इति / अत्र न च वक्तव्यं साधुरेवायं तद्वेषसमा- चारदर्शनाद्भवानिय, आर्याषाढदेवेऽपि साधुवेषसमाचारदर्शने-नानैकान्तिकत्वात्। तस्मान्न कोपि वन्दनीयः, संशयविषयत्वात् / यदि पुनर्वन्येत, तदा आषाढदेववन्दन इवासंयतवन्दनं स्यात, अमुको ब्रवीतीति भाषणे च मुषावादः स्यादिति। अथ प्रतिविधानमाहथेरवयणं जइ परं, संदहो किं सुरो त्ति साहु ति? | देवे कहं न संका, किं सो देवो न देवो ति? // तेण कहियं तिच मई, देवोऽहं रूवदरिसणाओ य। साहु त्ति अहं कहिए, समाणरूवम्मि किं संका? / / देवस्स च किं वयणं, सचं तिन साहुरूवधारिस्स। न परोप्परं पि वंदह, जं जाणंता वि साहु ति॥ तिस्रोऽप्युक्तार्थाः। किञ्च-यदि प्रत्यक्षेष्वपि यतिषु भवतां शङ्का, तर्हि परोक्षेषु जीवादिषु सुतरामसौ प्राप्नोति, ततः सम्यक्त्वस्याप्यभाव इति दर्शयन्नाहजीवाइपयत्थेसु सुहुमव्ववहियविगिट्ठरूवेसुं। अचंतपरोक्खेसु य, किह न जिणाईसु मे संका? गतार्था / अथ जिनवचनाजीवादिषु न शङ्का, तदेतदिहापि मानमित्याहतव्वयणाओ व मई, नणु तव्वयणे सुसाहुवित्तो त्ति। आलयविहारसमिओ, समणोऽयं वंदणिजो त्ति। अथ तद्वचनाजिनवचनाजीवाद्यर्थेषु न शङ्का / ननु यद्येवं, तद्वचने इदमप्यस्ति-यदुत शोभनं साधुवृत्तं श्रमणशीलं यस्यासौ सुसाधु-वृत्त इति हेतोः श्रमणोऽयमिति निश्चयाद्वन्दनीयः सुसाधुवृत्तोऽपि स कथं ज्ञायते,?इत्याह-आलयविहारसमित इति कृत्या। उक्तंच-"आलएणं विहारेणं, ठाणा चंकमणा ण य / सक्का सुविहियं नाउं, भासा वेणइए णये" ||1|| उपपत्त्यन्तरमाहजह वा जिणिंदपडिम, जिणगुणरहिय त्ति जाणमाणा वि। परिणामविसुद्धत्थं, वंदह तह किं न साहुं पि?|| होज न वा साहुत्तं, जइरूवे नस्थि चेव पडिमाए। सा कीस वंदणिज्जा, जइरूवे कीस पडिसेहो ?|| सुगमे / नवरं प्रथमगाथायां प्रतिमायाः साधुरूपेण सह वन्द-नीयत्वे साम्यमुक्तम् / द्वितीयगाथायां तु साधुरूपे विशेष दर्श-यति-यतिरूपे प्राणिनि साधुत्वं भवेद् न वेति संदिग्धमेव, प्रतिमायां तु जिनत्वं नास्त्येवेति निश्चयः / ततः किमिति सा वन्दनीया, यतिरूपे च किमिति वन्दनप्रतिषेधः ? ___ अत्रोत्तरमाहअस्संजइजइरूवे, पावाणुमई मईन पडिमाए। नणु देवाणुगयाए, पडिमाए वि होज सो दोसो।। अथैवंभूता मतिः परस्य भवेत्-असंयतेऽधिष्ठितयतिरूपे वन्द्य-माने तद्गतासंयमरूपपापाऽनुमतिर्भवति, न त्वसौ प्रतिमायाम् / अत्रोच्यतेननु देवताऽधिष्ठितप्रतिमायामप्ययमनुमतिलक्षणो दोषो भवेदिति। अथैवं ब्रूयात्परः, किमित्याहअह पडिमाए न दोसो, जिणबुद्धीए नमिउ विसुद्धस्स / तो जइरूवं नमिउं, जइबुद्धीए कहं दोसो ?|| अथ प्रतिमायां नानुमतिलक्षणो दोषः, किं कुर्वतः ? नमस्यतः,