________________ अव्वत्तिय 816 - अभिधानराजेन्द्रः-भाग 1 अव्यत्तिय कया ? जिनबुद्ध्या, कथंभूतस्य ? विशुद्धाध्यवसायस्य / यद्येवं ततो यतिबुद्ध्या यतिरूपं विशुद्धस्य नमस्यतः को दोषो येन भवन्तः परस्परं न वन्दन्ते ? अत्रापरः कश्चिदाह -यद्येवं, लिङ्ग-मात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्याऽविशुद्धस्य नमस्यतो न दोषः / तदयुक्तम्, पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यभावात् / तदभावश्च 'आलएणं विहारेण' इत्यादियतिलिङ्गस्यानु-पलम्भात् / ततः प्रत्यक्षदोषवतः पार्श्वस्थादीन् वन्दमानस्य तत्सावद्यानुज्ञानलक्षणो दोष एव। उक्तं च - "जह चेलंवगलिंग, जाणंतस्स नमिउहवइ दोसो। निद्धंधसं पिनाउं,ण वंदमाणे धुवो दोसो" // 1 // इत्यादि। प्रतिमायास्तु दोषाभावात्तद्वन्दने सावद्यानुज्ञाभावतो न दोष इति। अत्र पुनरपि पराभिप्रायमाशक्य परिहरन्नाहअह पडिमं पिन वंदह, देवासंकाए तो न घेत्तव्वा / आहारोवहिसेज्जाओ देवकया भवे जंनु॥ अथ प्रतिमामपि न वन्दध्वे यूयम् / हन्त ! यद्येवं शङ्काचारी भवान्, तर्हि- मा देवकृता भवेयुरित्याहारोपधिशय्यादयोऽपि न ग्राह्या इति। किश्चेत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः, कुतः? इत्याहको जाणइ किं भत्तं, किमओ किं पाणयं जलं मजं / किमलाईं माणिकं० किं सप्पो चीवरं हारो?|| को जाणइ किं सुद्ध, किमसुद्धं किं सजीवनिजीवं / किं भक्खं किमभक्खं, पत्तमभक्खं तओ सव्वं ? / / को जानाति किमिदं भक्तं, कृमयो वेत्याद्याशङ्कायां भक्तादावपि कृम्यादिभ्रान्त्यनिवृतेः सर्वमभक्षमेव प्राप्तं भवतः। तथा-अलाबुचीवरादौ मणिमाणिक्यसादिभ्रान्त्यनिवृत्तेः सर्वमभोग्यं च प्राप्तमिति। तथाजइणा विन संवासो, सेओ पमया-कुसीलसंका वा। होज गिही व जइत्तिय, तस्साऽऽसीसानदायव्वा / / न य सो दिक्खेयव्वो, भव्वोऽभव्वो त्ति जेण को मुणइ ? चोरो त्ति चारिओ त्ति य, होन्जय परदारगामि ति॥ को जाणइ को सीसो, को वा गुरुओ न तव्विसेसो वि। गज्झा न वोवएसा, को जाणइ सव्वमलियं पि॥ किं बहुणा सव्वं चिय, संदिद्धं जिणमयं जिणिंदा य। परलोयसग्गमोक्खा, दिच्छाए किमत्थ आरंभो? अह संति जिणवरिंदा, तव्वयणाओ य सव्वपडिवत्ती। तव्वयणाओ चिय जइ-वंदणयं वि ते कहं न मतं ? सर्वा अपि प्रकटार्थाः / नवरं "जइणा वि न संवासो' इत्यादिनाऽभ्युपगमविरोधो दर्शितः / (अह संतीत्यादि) अथ सन्ति जिनवरेन्द्राः, तद्वचनसिद्धत्वात् तेषाम् / तद्वचनादेव च सर्वस्यापि परलोकस्वर्गमोक्षादेः प्रत्तिपत्तिर्भवति। एवं तर्हितद्वचनादेव यतिवन्दनमपि कस्मान्न सम्मतमिति? अपिचजइ जिणमयं पमाणं, मुणि त्ति तो बज्झकरणपरिसुद्धं / देवं पि वंदमाणो, विसुद्धभावो विसुद्धो त्ति॥ यदि जिनमतं भवतां प्रमाणं तर्हि मुनिरित्यनया बुद्ध्या आलयविहारादिबाह्यकरणपरिशुद्धं देवमप्यमरमपि वन्दमानो विशुद्धभावो भवेद्दोषरहितो विशुद्ध एव। उक्तं चागमे- "परगरहस्समिसीणं, संमत्तगणिपिडगभसाराणं। परिणामियं पमाणं, निच्छयमवलंब-माणाणं " ||1|| इत्यादि। जइ वा सो जइरूवो, दिट्ठो तह केत्तिया सुरा अन्ने / तुडभेहि, दिट्ठपुव्वा, सव्वत्थापच्चओ जं भे॥ वाइति अथवा, यथा आर्याषाढदेवो यतिरूपधरोऽत्र दृष्टः, तथा कियन्तः सुरास्ततोऽन्ये भवद्भिर्दृष्टपूर्वाः, यद्येतावन्मात्रेणापि सर्वत्राप्रत्ययो (भे) भवतां नहि कदाचित्कथञ्चित् क्वचिदाश्चर्यकल्पे कस्मिंश्चित्तथाभावाशङ्का युज्यत इति भावः / तस्माद् व्यवहारनयमाश्रित्य युक्तं भवताभन्योऽन्यवन्दनादिकम् / उक्तं च- "निच्छयउ दुन्नियंको, भावे कम्मिवट्टएसमणो।ववहारओयजुजइ, जोपुव्वठिओ चरितम्मि" ||1|| इत्यादि। एतदेवसमर्थयन्नाहछउमत्थसमयवजा, ववहारनयाणुसारिणी सव्वा। तं तह समायरंतो, सुज्झइ सव्वो विसुद्धमणो / / संववहारो वि बली, जमसुद्धं पि गहियं सुयविहीए। कोवेइन सव्वण्णू, वंदइयस्स जाइ छउमत्थं // निच्छयववहारनओ-वणीयमिह सासणं जिणिंदाणं / एगयरपरिचाओ, मिच्छं संकादओ जे य॥ जइ जिणमयं पवजह, तो मा ववहारनयमयं मुयह। ववहारपरिचाए, तित्थुच्छेओ भवेऽवस्सं॥ चतस्रोऽपि सुगमाः / नवरं (कोवेइ इत्यादि) न कोपयतिनाप्रमाणीकरोति न परिहरति, भुङ्क्ते इत्यर्थः / (संकादओ इत्यादि) येऽपिशङ्काकासादयस्ते हि मिथ्यात्वमिति संबन्धः / एतावत्युक्ते तत् किं तत्र संजातम् ? इत्याहइय ते नासग्गाहं, मुयंति जाहे बहुं पि भण्णंता। ता संघपरिचत्ता, रायगिहे निवइणा नाउं।। बलभद्देण पयाया, भणंति सावयं तवस्सि त्ति। मा कुरु संकमसंका-रुहेसु भणिए भणइ राया / को जाणइ के तुब्भे, किं चोरा चारिया अभिमरे व त्ति? संजयरूवच्छन्ना, अज्जमहं भे विवाएमि।। नाणचरियाहिँ नजइ, समणोऽसमणो व कीस जाणंतो। तं सावयसंदेह, करेमि भणिए निवो भणइ॥ तुभ चिय न परोप्पर-वीसंभो साहवो त्ति किह मज्झं। नाणचरियाहिँ ता जइ, चोराण व किं न ता संति / / उवउत्तिओ भयाउय, पडिवन्ना उते समयसग्गाह। निवखामियाऽभिगंतुं, गुरुमूलं ते पडिकंता॥ सर्वेऽप्युक्तार्थाः सुगमाश्च, नवरं नृपतिना बलभद्रेण 'ते आगताः' इति ज्ञात्वा आघ्राता: आहूताः, 'के यूयम्' ? इति पृष्टाश्व भणन्ति'हे श्रावक' ? इत्यादि / (नाणचरियाहिं ति) ज्ञानक्रियाभ्यां यो भवतामपि साधव इति विश्रम्भः परस्परं नास्ति, स ताभ्यां कथं मे