________________ अववदृणा 800 - अभिधानराजेन्द्रः - भाग 1 अवविह वाघाए समऊणं, कंडगमुक्कस्सिआ अइत्थवणा। डायठिई किंचुणा, ठिइ कंडुक्कस्सगपमाणं / / 220 / / अत्र व्याघातो नाम स्थितिघातः, तस्मिन् सति तं कुर्वत इत्यर्थः / समयोनं कण्डकमात्रमुत्कृष्टा अतिस्थापना / कथं समयोनमिति चेत् ? उच्यते- उपरितनेन समयमात्रेण स्थितिस्थानेनाऽपवर्त मानेन सह अधस्तात् कण्डकमतिक्रम्यते / ततस्तेन विना कण्डक समयोनमेव भवति / कण्डकमानमाह- "डायलिई इत्यादि" / यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्ट स्थितिबन्धमाधत्ते, ततः प्रभृति सर्वा, साऽपि स्थितिजॅयस्थितिरिति उच्यते। उक्तं च पञ्चसड्ग्रहमूलटीकायाम्- यस्या यस्याः स्थितेरारभ्य उत्कृष्ट स्थितिबन्धं विधत्ते निर्मापयति, तस्या आरभ्य उपरितनानि सर्वाण्यपि स्थितिस्थानानि डायस्थितिसंज्ञानि भवन्ति, सा डायस्थितिः किशिदूना कण्डकस्योत्कृष्ट प्रमाणम्। पञ्चसङ्ग्रहे पुनरेवं मूलटीकाव्याख्याकृता-सा डायस्थिति-रुत्कर्षतः किञ्चिदूना किञ्चिदूनकर्मस्थितिप्रमाणा वेदितव्या / तथाहि- अन्तः कोटीकोटीप्रमाणं स्थितिबन्धमाधाय पर्याप्त-संज्ञिपश्चेन्द्रिय उत्कृष्टसंक्लेशवशादुत्कृष्टां स्थितिं विधत्ते इति।सा डायस्थितिरुत्कर्षतः किञ्चिदूनकर्मप्रमाणस्थितिप्रमाणेति, सा चोत्कृष्ट कण्डकमुच्यते / इयमुत्कृष्टव्याघातोऽतिस्थापना / एतच्चोत्कृष्ट कण्डकं समयमात्रेणाऽपि न्यूनं कण्डकमुच्यते। एवं समयद्वयेन, समयत्रयेण, एवं तावद्न्यूनं वाच्यं, यावद् तत् पल्योपमाऽसंख्येभागमात्रं प्रमाणं भवति, तच जघन्य कण्डकम्। इयं च समयोनजघन्या व्याघातेऽतिस्थापना। संप्रत्यल्पबहुत्वमुच्यते-तत्राऽपवर्तनायां जघन्यो निक्षेपः सर्वस्तोकः, तस्य समयाऽधिकावलिकात्रिभागमात्रत्वात् / ततोऽपि जघन्याऽतिस्था-पना द्विगुणा त्रिसमयोना, कथं त्रिसमयोन द्विगुणत्वमिति चेत् ? उच्यते- व्याघातमन्तरेण जघन्या अतिस्थापना आवलिका त्रिभागद्वयं समयोनं भवति / आवलिका चाऽसत् कल्पना नवसमयप्रमाणा कल्पयते, ततस्त्रिभागद्वयं समयोनं पञ्चसमयप्रमाणमवगन्तव्यम् / निक्षेपोऽपि जघन्यः समयाधिकावलिकात्रिभागरूपोऽसत्-कल्पनया चतुःसमय-प्रमाणो द्विगुणीकृतस्त्रिसमयोनः सन् तावानेव भवतीति / ततोऽपि व्याघातं विना उत्कृष्टा अतिस्थापना विशेषाऽधिका, तस्याः परिपूर्णाऽऽवलिकामात्रत्वात्। ततो व्याघाते उत्कृष्टा अतिस्थापना असंख्येयगुणा, तस्या उत्कृष्ट डायस्थितिप्रमाणत्वात् / ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाऽऽवलिका द्विकोनसकलकर्म-स्थितिप्रमाणत्वात् ,ततः सर्वा कर्मस्थितिर्विशेषाऽधिका। संप्रति उद्वर्तनाऽपवर्तनयोः संयोगेनाऽल्पबहुत्वमुच्यते-तत्र उद्वर्तनायां व्याघाते जघन्यावतिस्थापनानिक्षेपौ सर्वस्तोको, स्वस्थाने तु परस्पर तुल्यौ, आवलिकासंख्येयभागमात्रत्वात् / ततोऽपवर्त्तनायां जघन्यो निक्षपोऽसंख्येयगुणः, तस्य समया-ऽधिकाऽऽवलिकात्रिभागमात्रत्वात्। ततोऽप्यपवर्तनायां जघन्या-ऽतिस्थापना द्विगुणा त्रिसमयोना / अत्र भावना प्रागेव कृता / ततोऽप्यपवर्तनायामेव व्याघातं विना उत्कृष्टा अतिस्थापना विशेषाधिका, तस्याः परिपूर्णाऽऽवलिकाप्रमाणत्वात् / तत उद्वर्तनायामुत्कृष्टाऽतिस्थापना संख्येयगुणा, तस्या उत्कृष्टाऽबाधारूपत्वात् / ततोऽपवर्त्तनायां व्याघातो उत्कृष्टा अति-स्थापना असंख्येयगुणा, तस्या उत्कृष्टडायस्थितिप्रमाणत्वात्। तत उद्वर्तनाया / उत्कृष्टो निक्षेपो विशेषऽधिकः, ततोऽप्यपवर्तनाया-मुत्कृष्टो निक्षेपो विशेषाधिकः, ततोऽपि सर्वा स्थितिर्विशेषाऽधिका। क०प्र०ा पं०सं० संप्रत्यनुभागाऽपवर्तनामतिदेशेनाऽऽह - .................एवं ओवट्टणाई उ॥१२१।। एवमुद्वर्तनाप्रकारेणाऽपवर्तनाऽप्यनुभागविषया वक्तव्या, केवलमादित आरभ्य स्थित्यपवर्तनावत्। तद्यथा-प्रथम स्पर्धक नाऽपवर्त्यते, नाऽपि द्वितीयं, नाऽपि तृतीयं, एवं तावद्वक्तव्यं यावदावलिकामात्रस्थितिगतानि स्पर्द्धकानि भवन्ति / तेभ्य उपरितनानि तु स्पर्द्धकान्यपवर्त्यन्ते। तत्र यदा उदयावलिकाया उपरि समयमात्रस्थितिगतानि स्पर्द्धकानि अपवर्त्तवति, तदा समयोना-वलिकात्रिभागद्वयगतानि स्पर्द्धकानि अतिक्रम्याऽधस्तनेषु आवलिकासत्कसमयाऽधिकत्रिभागगतेषु स्पर्द्धकेषु निक्षिप्यते / यदा तूदयावलिकाया उपरि न द्वितीय समयमात्रस्थितिगतानि स्पर्द्धकान्यपवर्तयति, तदा प्रागुक्ता अतिस्थापना समयोनावलिकात्रिभागद्वयप्रमाणा समयमात्रस्थितिगतैः स्पर्धकै रधिकावगन्तव्या। निक्षेपस्तुतावन्मात्र एव, एवं समयवृद्ध्या अतिस्थापना तावद् वृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति, ततः परमतिस्थापना सर्वत्राऽपि तावन्मात्रैव / निक्षेपस्तु वर्द्धते, एवं नियाघाते सति द्रष्टव्यम् / व्याघाते पुनरनुभागकण्डकं समयमात्रस्थितिगतस्पर्द्धकन्यूनमति स्थापना द्रष्टव्या / कण्डक्रमानं समयमात्रन्यूनत्वं च यथा प्रास्थित्यपवर्तनायामुक्तं तथाऽत्रापि द्रष्टव्यम्। अत्राऽल्पबहुत्वमुच्यते- सर्वस्तोको जघन्यनिक्षेपः, ततो जघन्याऽतिस्थापना अनन्तगुणा, ततो व्याघाते अतिस्थापना अनन्तगुणा, तत उत्कृष्टमनुभागकण्डकं विशेषाधिकम् तस्या एकसमयगतैः स्पर्द्धकरतिस्थापनातोऽधिकत्वात्।तत उत्कृष्टो निक्षेपो विशेषाधिकः, ततोऽपि सर्वोऽनुभागो विशेषाऽधिकः / क०प्र०। पं०सं०। अववट्टणासंकम-पुं०(अपवर्त्तनासंक्रम) प्रभूतस्य सतो रसस्य स्तोकीकरणे, पं० सं०। अपवर्तनासंक्रमस्तु बन्धेऽबन्धे वा प्रवर्तते / "सव्वत्थाऽववट्टणा ठिइरसाणं" इति वक्ष्यमाणवचनात्। पं०सं०५ द्वार। अववयमाण-त्रि०(अवपतत्) मृषावादमकुर्वति, आचा०१ श्रु० 5 अ०२ उ० अववरोवित्ता-स्त्री०(अव्यवरोपयिता) अभ्रंशकतायाम, जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवइ / स्था०६ ठा०। अववाय-पुं०(अपवाद) परदूषणभिधाने, प्रश्न०२ संव०द्वार / द्वितीयपदाश्रयणे, दर्शाध०॥ विशेषोक्तविधौ, यथा-पुढवाइसु आसेवा, उप्पन्ने कारणम्मि जयणाए। मिगरहियस्स ठियस्सा, अववाओ होइ नायव्वो॥१॥ दर्शधापञ्चा०ा प्रतिकानि०० उत्सर्गस्य प्रतिपक्षे, बृ०१ उ०। (विशेषवक्तव्यता 'सुत्त' शब्दे वीक्ष्या) तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराऽभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणे, स्या०1 अनुज्ञायाम्, नि०चू०१ उ०। निश्चयकथायाम्, नि०चू०५ उ० अववायकारि(ण)-पुं०(अवपातकारिन्) आज्ञाकारिणि, पं० सं०१ अववायसुत्त-न०(अपवादसूत्र) अपवादिकार्थप्ररूपके सूत्रभेदे, बृ० 1 उ० ('सुत्त' शब्दे विवृतिरस्य द्रष्टव्या) अवविह-त्रि०(अवविध) स्वनामख्याते आजीविकोपासके (गोशालकमतोपासके), भ०८ श०५ उ०।