________________ अवयण 796 - अभिवानराजेन्द्रः - भाग 1 अवयव अत्र प्रायश्चित्तम् - एमेव य हीलाए, खिसा फरुसवयणं च वदमाणो। गारत्थ-विओसमिए, इमं च जंतेसि णाणत्तं / / एवमेव हीलितवचनं, खिसावचनं, परुषवचनमगारस्य वचनं, व्यवशमितोदीरणवचनं च वदतः प्रायश्चित्तं मन्तव्यम्। यच एतेषां नानात्वं तदिदं भवति आदिल्लेसुं चउसु, विसोहि गुरुगादि भिन्नमासंता। पणुवीसओ विभाओ, विसेसितो बितिय पडिलोमं / / आदिमेषु चतुर्यपि हीलितखिंसितपरुषगृहस्थवचनेषुशोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या। तद्यथा- आचार्य आचार्य हीलयति चतुर्गुरु 1, उपाध्यायं हीलयति चतुर्लघु 2, भिक्षु हीलयति मासगुरु 3, स्थविरं हीलयति मासलघु ४,क्षुल्लक हीलयति भिन्नमासः 5 / एतान्याचार्यस्य तपःकालाभ्यां गुरुकाणि भवन्ति, एते आचार्यस्य पञ्च संयोगा उक्ताः। उपाध्यायादीनामपि चतुर्णामवमेव पञ्च पञ्च संयोगा भवन्ति। सर्वसङ्ख्यया ते पञ्चविंशतिर्भवन्ति। अत एवाऽऽहपञ्चविंशतिकः पञ्चविंशतिभङ्गपरिमाणो विभागोऽत्र भवति / स च तपःकालाभ्यां विशेषितः कर्तव्यः / द्वितीयाऽऽदेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम्, भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः / एवं खिसितः परुषगृहस्थवचनेष्वपिशोधिर्मन्तव्या। बृ०६ उ०। __अथ द्वितीयपदमाह - पढम विगिचणट्ठा, उवलंभविर्गिचणा य दोसु भवे / अणुसासणा य देसी, छट्टे य विगिचणा भणिता।। प्रथममलीकवचनमयोग्यशैक्षस्य विवेचनार्थ वदेत, द्वयोस्तु हीलितखिंसितवचनयोर्यथाक्रममुपालम्भविवेचने कारणे भवतः शिक्षादानम्, अयोग्यशिक्षापरित्यागश्चेत्यर्थः / परुषवचनं तु परसाध्यस्याऽनुशासना कुर्वन, गृहस्थवचनं पुनर्देशी देशभाषामाश्रित्य भणेत् / षष्ठे च व्यवशमितोदीरणवचने, शैक्षस्य विवेचन कारणं भणितम् / गाथायां स्त्रीत्वनिर्देशः प्राकृतत्वात् / इति द्वारगाथासमासार्थः / अथैना विवरीषुराह - कारणिए दिक्खंता, तरियम्मि कजे जहंति अणलं तु / संजमजसरक्खट्ठा, होट्टुं दाऊण य पलाई। कारणे अशिवादावनलोऽयोग्यः शैक्षो दीक्षितः, ततस्तरिते समापिते तस्मिन् कार्ये तमनलं जहति / कथम् ? इत्याह-संयमयशोरक्षार्थ, संयमस्य, प्रवचनयशःप्रवादस्यच रक्षणार्थ, 'होटुं' गाढमलीकं दत्त्वा पलायन्ते, शीघ्रमन्यत्र गच्छन्तीत्यर्थः / यः पुनराचार्यः समाचार्या, सारणादिप्रदाने वा सीदति, तमुद्दिश्येत्थं हीलितवचनं वदेत् - केण स गणि त्ति कतो, अहो ! गणी भणति वा गणिं अगणिं / एवं तु सीयमाणस्स, कुणति गणिणो उवालंभं / / केनाऽसमीक्षितकारिणाऽयं गणीकृतः। यता- अहो ! अयं गणी, अथवा गणिनमप्यणिनं भणति / एवं गणिनः सामाचार्या शिक्षादाने वा विषीदने उपालम्भं करोति। अगणिं व भणाति गणिं, जदि नाम पठेज गारवेण वितं। एमेव सेसएसु वि, वायगमादीसु जोएज्जा।। यदि कोऽपि बहुशोऽपि भण्यमानो न पठति, ततस्तमगणिनमपि गणिनं भणति, यदि नाम गौरवेणाऽपि पठेत् / एवमेव शेषेषु अपि वाचकादिषु पदेषु द्वितीयपदं योजयेद्, योजनां कुर्यात्। खिंसावयणविहाणा,जे चिय जातीकुलादिया वुत्ता। कारणियदिक्खियाणं, ते चेव विगिचणोवाया / / खिंसावचनविधानानि यान्येव जातिकुलादीनि पूर्वमुक्तानि, त एव कारणिकदीक्षितानामयोग्यानां कारणप्रव्रजितानां विवेचने परिष्ठापने उपायामन्यव्याः। खरसज्झं मउयवयं, अगणेमाणं भणंति फरुसं च / दव्वओ फरुसवयणं, वयंतिदेसिं समासज्ज। इह यः कठोरवचनभणनमन्तरेण शिक्षां न प्रतिपद्यते, स खरसाध्य उच्यते / तं खरसाध्यं मृदुवाचमगणयन्तं परुषमपि भणन्ति / देशी देशभाषां समासाद्य द्रव्यतः परुषवचनमपिवदन्ति, द्रव्यतो नामन हृष्ट भावतया परुष भणन्ति, किन्तु तत्स्वाभाय्यात्, यथामालदास्वामिन्निति, अथवा यथा यथा लोको भणति, तथा तथा देशी देशभाषामाश्रित्य साधवोऽपि भणन्ति। खामियदोसवियाई, उप्पाएऊण दव्वतो रुट्ठो। कारणदिक्खिय अनलं, असंखडीओ त्ति धाति॥ यः कारणे अनलो दीक्षितस्तेन समं समापिते कार्य पुनः क्षामितव्युत्सृष्टान्यधिकारणान्युत्पाद्य द्रव्यतो दुष्टभावं विना रुष्टो कुपितो बहिः कृत्रिमान् कोपविकारान् दर्शयन्नित्यर्थः / असंखडिकोऽयमिति दोषमुत्पाद्य तमनलं शैक्षं धाटयति, गच्छात् निष्कासयति। वृ०६ उ०। अवयव-पुं०(अवयव) अवयविन एकदेशे, अनु०। अनुमिति-वाक्यैकदेशेषु, ते च पञ्च-प्रतिज्ञाहेतूदाहणोपनयनिगमनानि अवयवाः / दश०१ अ०। सूत्र०ा दशाऽवयवा वा- प्रतिज्ञा प्रतिज्ञाविशुद्धिः, हेतुर्हेतुविशुद्धिः, दृष्टान्तो दृष्टान्तविशुद्धिः, उपसंहार उपसंहारविशुद्धिः, निगमनं निगमनविशुद्धिः / दश०१ अ० से किं तं अवयवेणं ? अवयवेणं, जहासिंगी सिही विसाही, दाढी पक्खी खरी नही बाली। दुपय चउप्पय बहुपय, लंगूली केसरी कउही / / 1 / / परिअरबंधणमड जाणिज्जा महिलिअं निवसणेणं। सित्थेण दोणवायं, कविंच एक्काएँ गाहाए // 2 // से तं अवयवेणं। (से किं तं अवयवेणमित्यादि) अवयवोऽवयविन एकदेशः, तेन नाम यथा-'सिंगी सिहीत्यादि'गाथा / शृङ्गमस्याऽस्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदं स्त्र्यादि, चतुष्पदं गवादि, बहुपदं कर्णशृङ्गाल्यादि। अत्राऽपि पादलक्षणावयवप्रधानता भावनीया ।(कउहित्ति)ककुदं स्कन्धाऽऽसन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी वृषभ इति / 'परिअर' गाथा / परिकरबन्धेन विशिष्टनेपथ्यरचनालक्षणेन, भटं शूरपुरुष, जानीयाल्लक्षयेत् / तथा- निवसनेन विशिष्ट रचनारचितपरिहितपरिधानलक्षणेन महिला स्त्री, तां जानीयादिति सर्वत्र संबध्यते / धान्यानां द्रोणस्य पाकः स्विन्नतारूपः, तं च तन्मध्याद् गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयात् / एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयात् / एवमत्राऽभिप्रायःयदा स नेपथ्यपुरुषाद्यवयवरूपपरिकर बन्धादिदर्शन-द्वारेण भटमहिलापाककविशब्दप्रयोगं करोति,