________________ अवचय 789 - अभिधानराजेन्द्रः - भाग 1 अवच्च अवचय-पु०(अपचय) अपचये, अनु० दशा सूत्र०ा देशतोऽपगमे, भ०११ श०११ उ०ा क्षयोपगमे, सूत्र०१ श्रु०२ अ०३ उ०। अवचिय-त्रि०(अपचित) शोषिते, उत्त०२५ अ० जीवप्रदेशविरहिते, अनु०॥ अवचितमंससोणिय-न०(अपचितमांसशोणित) शोषितमांसरुधिरे, उत्त०२५ अ० अवचुल्ली-स्त्री०(अवचुल्ली) चुल्ल्या अव पश्चाद् अवचुल्ली। राजदन्तादित्वादवशब्दस्य पूर्वनिपातः। अवह्नके, पिं० अवच्च-न०(अपत्य) न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशः- पले वा पूर्वजास्तदपत्यम्। पुत्रादौ, कल्प०८ क्ष०ा पुत्रे, पुत्र्यां च। आव०१ अ०। संयत्या अपत्ये जनिते आभवनव्यवहारः व्य०। __ सांप्रतमन्य व्यवहारमुपदर्शयतिअहवा अण्णण्णकुला, पडिभजिउकाम समणसमणीओ। अणुसट्ठा पर ण ठिया, करेंति वायंति ववहारं / / अथवेति- व्यवहारस्य प्रकारान्तरोपदर्शने / श्रमणः श्रमणी वेति द्वावप्यन्याऽन्यकुलौ, अन्यकुलः श्रमणः, अन्यकुला श्रमणी, प्रतिभक्तुकामौ प्रतिपतितुकामौ, स्वस्वाचार्येण च ती प्रभूत-मनुशिष्टौ, | परं न स्थितौ स्वस्वकुलममत्वेन वागन्तिकव्यवहारं वागेवान्तः परिसमाप्तिर्वागन्तः, तत्र भवो वागन्तिकः, स चाऽसौ व्यवहारश्व, तं | कुरुतः / तद्यथा- यानि अस्माकमपत्यानि जनिष्यन्ते, तेषां मध्ये ये पुरुषास्ते सर्वे मम, याः स्त्रियस्ताः सर्वाः तव / अथवाऽश्रमणीभूते ये पुरुषास्ते सर्वे मम, स्त्रियः सर्वास्तव। यदि चेदभणति- सर्वाण्यपत्यानि तव, अथवा- सर्वाण्यपत्यानिममेति, तयोः संसारे स्थित्वा पुनः प्रव्रज्यां प्रत्युपस्थितयोर्यदेव वागन्तिकेन व्यवहारेण निश्चितं, तदेव तयोः संभवति। अह न कतो तो पच्छा, तेसिं अब्भुट्ठियाण ववहारो। गोणीआसुब्भामिगकुडुबि खरए य खरिया य॥ अथ न कृतः पूर्व वागन्तिको व्यवहारः, पश्चात् तयोः प्रव्रज्यायामभ्युत्थितयोः स्वस्वकुलममत्वेन व्यवहारो भण्डनमभूत् / तत्र संयतीकुलसत्काः गोदृष्टान्तमुद्घामिकादृष्टान्तं खरक-खरिकादृष्टान्तं चान्तराऽन्तरोपन्यस्यन्ति / संयतकुलसत्काः अश्वदृष्टान्तं, कौटुम्बिकदृष्टान्तं च अथ चेयमन्या दृष्टान्तपरिपाटीगोणीणं संगिल्लं, उन्भामइलाय नीयपरदेसं। तत्तो खेत्ते देवी, रण्णो अभिसेयणे चेव॥ संयतीसमानकुलकाः गवां संगिल्लं समुदायं दृष्टान्तीकुर्वन्ति। तदनन्तरं संयतसकुलकाः या उद्घामिला परदेशं नीता, तां दृष्टान्तीकुर्वन्ति / ततः पुनरपि संयतीसकुलकाः क्षेत्रे बीजम् / ततः संयतकुलकाः देवीं राज्ञोऽभिषेचनं चैवेति। तत्र भण्डने जाते यथा संयतीसकुलका गोदृष्टान्तं कुर्वन्ति, तथा प्रतिपादयतिसंजइइत्त भणंति-संडे अण्णस्स जं तु गोणीए। जायति तं गोणिवइस्स होति एवऽम्ह एयाई॥ (संजइइत्ता) संयतीसत्काः समानकुलकाःब्रुवते- अन्यस्य सत्केन पण्डेन यद् गोर्जायतेऽपत्यं, तत् सर्वं गोपतेर्गोस्वामिनो भवति, न षण्डस्वामिनः / एवमने नैव दृष्टान्तेनाऽस्माकमप्येतान्यपत्यानि आभवन्ति, नयुष्माकमिति / एवमुक्तेबैंतियरे अम्हंतू,जह बडवाए अ अण्णआसेणं / जं जायति मोल्ले नो, दिन्ने तं अस्सियस्सेव।। इतरे संयतसमानकुलका बुवते - अस्माकमेतान्यपत्यानि भवन्ति यथा- मूल्ये अदत्ते यदन्येनाऽन्यसत्केनाऽश्वेन वडवाया जायतेऽपत्यं तद् अश्विकस्यैव अश्वस्वामिन एव, व्यावहारिकैरेवमेव व्यवहारनिश्चयात्। एवमेतान्यप्यस्माकमिति / एवमुक्ते - जस्स महिलाए जायति, उन्मामइलाए तस्स तं होइ। संजइइत्त भणंति, इयरो बिंति इमं सुणसु // यस्य महेलाया भार्यायाः उद्भामिलायाः स्वैरिण्याः जायते सुतः, परतश्च, तस्य तत्सर्वमाभवति, एवमस्माकमपि, इति (संजइइत्ता) संयतीसत्काः समानकुलका भणन्ति / इतरे ब्रुवन्ते- इदं वक्ष्यमाणमुद्भाभिककौटुम्बिककृतं शृणुततेणं कुटुंबिएणं, उडमामइलेण दोण्ह वी दंडो। दिन्नो सा वि य तस्सा, जाया एवऽम्ह एय्याई / / येन स्वैरिण्या अपत्यानि जनितानि, तेन कौटुम्बिके न उद्भामिलेन राजकुले गत्वा कथितम् - यथाऽहं देव ! तस्याः सर्व भोगभरं वहामि स्म, सोऽपि च तत्पतिर्मदीयेन भोगभरेण नियूंढवान्, तस्मात् प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेति। तत एवमुके राजा कुपितः,तथा- भोगभरसंवाददर्शनत एवमिमा-वपत्याय कारणाविति द्वायपि सर्वस्वाऽपहरणतो दण्डितवान्। तथा चाऽऽह- द्वयोरपि दण्डो दत्तो, दापित इत्यर्थः / सा चाऽपत्याऽप-हरणतोऽनन्यगतिका सती तस्य जाता। एवमस्माकमेतान्यपीति। पुणरविय संजइत्ता,बें ति खरियाए अण्णखरएण। जंजायति खरियाहिव तिस्स हाँति एवऽम्ह एय्याई।। पुनरपि संयतीसत्का ब्रुवते - खरिकायां गर्दभ्यामन्यखरके ण अन्यसत्केन गर्दभेन, यद् जायते तत्सर्व खरिकाधिपतेर्भवति, एवमस्माकमप्येतानीति। तदेवं प्रथमदृष्टान्तपरिपाटी भाविता। संप्रति द्वितीयां विभावयिषुः प्रथमतो गोवर्गदृष्टान्तं भावयति - गोणीणं संगिल्लो, नट्ठ अडवीए अण्णगोणेणं / जायाई वच्छागाई, गोणाहिवतीओ गेण्हंति / / गवां स्वीगवानां संगिल्लः समुदायो नष्टोऽटच्यां पतितः, तत्र च तस्याऽन्यगवेनाऽन्यसत्केन पुङ्गवेन, जातानि वत्सकानि वत्सरूपाणि तानि, गवेषणतः कथमपि गवां लाभे गवाधिपतयः स्वीगवीस्वामिनो गृह्णन्ति, न पुङ्गवस्वामिनः / एवमेतान्यप्यस्माकमिति / एवमुक्ते संयतसत्का उद्घामिकादृष्टान्तं पूर्वोक्तमुपन्यस्यन्ति, तथा चाऽऽह - उन्मामिय पुव्वुत्ता, अहवानीया उजा परविदेसं। तस्सेव सा आभवती, एवं अम्हं तु आमवति।। उद्भामिका पूर्वमुक्ता। यथा- सापत्या तस्य जाता। अथवा या