________________ अलेवकड 785 - अभिधानराजेन्द्रः-भाग 1 अलोभया तत्राऽलेपकृतानि तावदाह - कंजुसिणचाउलोदे, संसहायामकमूलरसे / कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा / / कंजियउदगविलेवी, ओदणकुम्माससत्तुए पिट्ठो / डंडगसडियोसिन्ने, कंजियपत्ते अलेवकडे / / काजिकमारनालम् उष्णोदकमुद्धृत्य त्रिदण्डम्, (चाउलोदग ति) | तन्दुलधावनम्, संसृष्ट नाम गोरससंसृष्टभाजने प्रक्षिप्तंसद्यदुदकंगारसेन परिणामितम्, आयाममवश्रवणम्, (कट्ठमूलरसे त्ति) काष्ठमूलं चणकवल्लकादिद्विदलं, तदीयेन रसेन यत् परि-णामितं, तत काष्ठमूलरसं नाम पानकम्। तथा- यत्काञ्जिक-क्वथितं, (लोणेत्ति) सलवणं यावत्। कुछ चिञ्चिनिका, पेया च प्रतीता, नित्तुप्पाअचोप्पड़ा अवग्घारितावा। तथा- विलेपिका द्विविधा-एका काञ्जिक-विलेपिका, द्वितीया उदकविलेपिका। ओदनस्तन्दुलादिभक्तम्, कुल्माषा उडदाः, राजमाषा वा / सक्तवो भृष्टयवक्षोदरूपाः, पिष्ट मुद्गादिचूर्ण , मण्डकाः सक्कणिका-मयाः, समितम्- अट्टकः, उत्स्विन्नं मुद्गेरकादि, काजिकपत्रं काजिकेन बाष्पितम्- अरणिकादिशाकम् एतानि काजिका-दीन्यलेपकृतानि मन्तव्यानि / बृ०१ उ०। ध०| अलेपकृतपात्रस्य त्यवश्यं कल्पोदातव्यः। ध०३ अधिo अलेसी-पुं०(अलेश्यिन) लेश्यारहिते अयोगिनि, सिद्धे च / स्था० 3 ठा०४ 301 अलोग(य)-पुं०(अलोक) न०ता धर्मादीनां द्रव्याणां वृत्ति-भवति यत्र तत्, तादृशक्षेत्रमिह लोकः, तद्विपरीतं ह्यलोकाऽऽख्यं क्षेत्रम्। आव०५ अ० लोकविरुद्धे अनन्ताकाशास्तिकायमात्रे, सूत्र०१ श्रु०१२ अ०| आ०म०। प्रवका यत्र क्षेत्रे समवगाढौ धर्मास्किायाऽधर्मास्तिकायौ, तावत्प्रमाणो लोकः, शेषः, त्वलोकः / जी०१ प्रति०। 'एगे अलोए" एकोऽलोकोऽनन्त-प्रदेशोऽपि द्रव्यार्थतया। स०१ समासू०प्र०) लोगस्सऽत्थि विवक्खो, सुद्धत्तणओ घडस्स अघडो व्व / स घडाई चेव मई, न निसेहाओ तदणुरूवो॥ अस्ति लोकस्य विपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् / इह यद् व्युत्पत्तिमता शुद्धपदेनाभिधीयते, तस्य विपक्षो दृष्टः, यथाघटस्याऽघटः / यश्च लोकस्य विपक्षः, सोऽलोकः / अथ स्यात् मतिर्न लोकोऽलोक इति / योऽलोकस्य विपक्षः, स घटादिपदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तर-परिकल्पनया ? तदेतत् न। पर्युदासनञा निषधात निषेध्यस्यैवा-ऽनुरूपोऽत्र विपक्षोऽन्वेषणीयःनि लोकोऽलोक इत्यत्र च लोको निषेध्यः, स चाऽऽकाशविशेषः, अतोऽलोकेनापि तदनुरूपेण भवितव्यम् / यथेहाऽपण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाऽचेतनो घटादिः, एवमिहाऽपिलोका-ऽनुरूप एवाऽलोको मन्तव्यः। उक्तं च "नयुक्तमिवयुक्तं वा, यद्धि कार्य विधीयते। तुल्याधिकरणेऽन्यस्मॅिल्लोकेऽप्यर्थगतिस्तथा" ||1|| "नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः" / तल्लोकविपक्षत्वादस्त्यलोक इति / विशेष| प्रेरकः प्राह- "स घटाई चेव मती, गुरुः प्राह- "न निसेहाओ तदनुरूवो"। स्था०१ ठा०२ उ०ा "सिद्धा निगोयजीवा, वणस्सई कालपुग्गला चेव / सव्व-मलोगागासं, छप्पेएडणतया णेया' / प्रव०२५६ द्वार। (अलोके द्रव्यक्षेत्रकालभावाः सन्ति? न वेति 'अणुयोग' शब्देऽस्मिन्नेव भागे 343 पृष्ठे दशमाऽधिकारे समुक्तम्। कियानलोकः ? इतितु'लोग' शब्दे वक्ष्यते) अलोभया-स्त्री०(अलोभता) लोभत्यागरूपेऽष्टमे योगसंग्रहे, स०३२ | सम०। प्रश्न। आव०। अलोभतामाहसाएए पुंडरिए, कंडरिए चेक देवि जसभहा। सावत्थि अजिअसेणे, कित्तिमई खुङगकुमारे ||1|| जसभद्दे सिरिकंता, जयसिंघो चेव कन्नपाले अ। नट्टविहीपरिओसे, दाणं पुच्छाइ पवजा ||2|| सुतु वाइअं सुठु गाइअं, सुठु नचिअं सामसुंदरि ! / अणुपालिअ दीयराइयाओ सुमिणते मा पमायए॥३॥ अर्थः कथातो ज्ञेयःसाकेतं नाम नगर, पुण्डरीको नरेश्वरः। युवराजः कण्डरीको, यशोभद्रा च तत्प्रिया / / 1 / / रक्तस्तां वीक्ष्य दूत्योचे, सानैच्छद् मारितोऽनुजः। नंष्ट्वा सार्थेन तत्पत्नी, श्रावस्ती नगरी ययौ // 2 // तत्राऽऽचार्योऽजितसेनः, कीर्तिमती महत्तरा। तत्र साऽपि प्रक्वाज, धारिणीवत्तदन्तिके // 3 // परं न साऽत्यजत्पुत्रं, किन्तु क्षुल्लमचीकरत्। स वयःस्थो व्रतं कर्तुमक्षमो जननी जगौ // 4 // यामीति स्थापितो मात्रो-परोध्य द्वादशाब्दिकाम्। एवं महत्तराऽऽचार्योपाध्यायैरपि य व्रजन्॥५॥ स्थापितोऽत्याहृतैः क्षुल्लोऽष्टाचत्वारिंशदब्दिकाम्। तथाऽप्यतिष्ठन् प्रैषि मात्रोचे त्वं माऽन्यतो गमः / / 6 / / साकेते पुण्डरीकस्ते, पितृव्योऽस्ति नृपस्ततः / / मुद्रां कम्बलरत्नं चाऽऽदाय तत्र व्रजेः सुत ! // 7 // ततोऽस्थाद् यानशालायां, राज्ञः श्वो नृपमीक्षितुम्। पर्षद्याभ्यन्तरायां स, प्रेक्षत प्रेक्षणं निशि।।।। नर्तकी तत्र नर्तित्वा, रङ्गेण सकलां निशाम्। विभातायां विभावयाँ, निनिद्रासुरभूत्ततः / / 6 / / तन्माताऽचिन्तयत्पर्षत्तोषिता तद्धनं बहु। चेत्प्रमादोऽस्या मुष्टाः स्मस्ततो गीतिमिमां जगौ / / 10 / / "सुटु वाइयं सुठु गाइअं.सुठु नचियं सामसुंदरि!'इत्यादि। अत्रान्तरेच स क्षुल्ल-कुमारो रत्नकम्बलम्। युवराजो यशोभद्रो, निर्मलं रत्नकुण्डलम्॥११॥ सार्थवाही निजं हार, राजेभाऽऽरोहकोऽङ्कुशम्। मन्त्री च कटकं लक्ष-मूल्यानि निखिलान्यपि // 12 // त्यागं यस्तत्र दत्ते स्म, समस्तोऽप्यलिख्यत। ज्ञात्वा त्यागे कृते राज्ञस्तोषो रोषोऽन्यथा पुनः॥१३॥ सर्वेऽपि प्रातराहूताः, क्षुल्लः पृष्टोऽब्रवीदिदम्। यावत्तन्मूलमायातो, राज्यलक्ष्मीसमीहया // 14 // गृहाणं राज्यं राज्ञोचे, स नैच्छदिदमूचिवान्। व्रतं निहायिष्यामि, बुद्धो गीत्याऽनयाऽस्म्यहम् / / 15 / / युवराजोऽवदद् राजा, वृद्धो राज्यं ददाति न। मारयित्वा तदादास्ये, इति चिन्ताऽभवत् मम / / 16 / / ऊचे राजाऽधुनाऽप्येतद्, गृह्यतां सोऽपि नैहत। सार्थवाही जगौ पत्युर्गतस्य द्वादशाब्द्यभूत्॥१७।।