________________ अलियवयण 783 - अभिधानराजेन्द्रः - भाग 1 अलियवयण घातः, तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि हिंसाणि वचनान्युदाहरन्ति। तथा- पृष्टा वा अपृष्टा वा प्रतीताः, परतृप्ति-व्यापृताश्च परकृत्यचिन्तनाक्षणिकाः, असमीक्षितभाषिणः अपर्यालोचितवक्तारः, उपदिशन्ति अनुशासति, सहसा अकस्माद्-यदुत उष्ट्राः करभाः, गोण्यो गावो, गवया आटव्याः पशुविशेषाः, दम्यन्तां विनीयन्ताम् / तथापरिणतवयसः संपन्नावस्थाविशेषाः, तरुणा इत्यर्थः / अश्वाः, हस्तिनः प्रतीताः, गवेलककुक्कुटाश्च उरभ्रतामूचूडाश्च क्रीयन्ता मूल्येन गृह्यन्तां, क्रापयत च एतान्येव ग्राहयत च, विक्रीणीध्वं विक्रेतव्यम्। तथा-पचत पचनीयं, स्वजनाय च दत्त, पिबत चपातव्यं मदिरादि। वाचनान्तरेणखादत पिबत दत्त च / तथा- दास्यश्चेटिकाः, दासाश्चेटकाः, भृतका भक्तदानादिना पोषिताः,(भाइल्लगत्ति) ये लाभस्य भागं चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वः / ततस्ते च, शिष्याश्च विनेयाः, प्रेष्यकजनः प्रयोजनेषु प्रेषणीयलोकः, कर्मकरा नियतकालमादेशकारिणः, किंकराश्च आदेशसमाप्ता-वपि पुनः पुनः प्रश्नकारिणः, एते पूर्वोक्ताः, स्वजनपरिजनं च, कस्मादासते अवस्थानं कुर्वन्ति ? (भारिया भेकरिउ कम्मंति) कृत्वा विधाय, कर्म कृत्य, तत्समाप्तौ यतो भारिका दुर्निर्वाहाः 'भे' भवतां "करेतु त्ति' क्वचित्पाठः / तत्र (भारयत्ति) भार्या 'भे' भवतः सम्बन्धिन्यः, कर्म कुर्वन्तु / अन्यान्यपि पाठान्तराणि सन्ति, तानि च स्वयं गमनीयानि / तथा- गहनानि गहराणि, वनानि वनखण्डानि, क्षेत्राणि च धान्यवपनभूमयः, खिलभूमयश्च हलैरकृष्टाः, वल्लराणि च क्षेत्रविशेषाः, ततस्तानि उत्तृणै-रूर्ध्वगतैस्तृणैः, घनमत्यर्थ, संकटानि संकीर्णानि यानि तानि तथा, सानि दह्यन्ताम्। पाठान्तरेण- गहनानि वनानि छिद्यन्ता, खिलभूमिवल्लराणि उत्तृणधनसंकटानि दह्यन्ताम् / (सूडिज्जंतु यत्ति) सूड्यन्तां च वृक्षाः, भिन्दन्तां छिन्दन्तां वा, यन्त्राणि च तिलयन्त्रादिकानि, भाण्डानि च भाजनानि कुण्डादीनि, भाण्डी वा गन्त्री, एतान्यादिर्यस्य तत् / तथाउपधिरूपकरणं तस्य (कारणाएत्ति)कारणाय हेतवे / वाचनान्तरे तुयत्र भाण्ड-स्योक्तरूपस्य कारणाद् हेतोः। तथा-बहुविधस्य च, कार्यसमूहस्येति गम्यम् / अर्थाय इक्षवो (दुजंतुत्ति) दूयन्तां लूयन्तामिति, धातूनामनेकार्थत्वात् / तथा- पीड्यन्तां च तिलाः, पाचयत चेष्टकाः गृहार्थम् / तथा- क्षेत्राणि कृषतां कर्षयता वा / तथा- लघु शीघ्र, ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः, नगरमविद्यमानकरदानं, कर्बट कुनगरम्।क्व? अटवीदेशेषु। किंभूतानि | ग्रामादीनि ? विपुलसीमानि / तथा- पुष्पादीनि प्रतीतानि / (कालपत्ताइंति) अवसरप्राप्तानि गृह्णीत, कुरुत संचयं परिजनार्थम् / तथा- शालयः प्रतीताः, लूयन्ता, मल्यन्ताम्, उत्पूयतां च, लघु च प्रविशन्तु कोष्ठागारम् / (अप्पमहुक्कोसगा यत्ति) अल्पा लघवो, महान्तस्तदपेक्षया, मध्यमा इत्यर्थः / उत्कृष्टा उत्तमाश्च, हन्यन्तां पोतसार्थाः-बोहित्थसमुदायाः, शावकसमूहा वा / तथा- सेना सैन्यं, निर्यातु निर्गच्छतु। निर्गत्य च यातु गच्छतु डमर विड्वरस्थानम्। तथाघोरा रौद्रा वर्तन्तांच, जयन्तां संग्रामारणाः। तथा- प्रवहन्तुच प्रवर्तन्तां शकटवाहनानि, गन्त्र्यो यानपात्राणि च / तथा- उपनयनं बालानां कलाग्रहणं,(चोलगंति)चूडोपनयनं बालप्रथममुण्डनम्, विवाहः पाणिग्रहणं, यज्ञो यागः अमुष्मिन् भवतु दिवसे / तथा- सुकरणं बवादिकानामे कादशानामन्यतरदभिमतं, सुमुहूर्ता रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः, एतयोः समाहारद्वन्द्वः, ततस्तत्र / तथासुनक्षत्रेषु पुष्यादौ, सुतिथौ च पञ्चानां नन्दादीनामन्यतरस्यामभिमतायाम् / 'अज्ज' अस्मिन्नहनि, भवतु स्नपन सौभाग्यपुत्राद्यर्थ वध्वादेर्मञ्जनं, मुदितं प्रमोदवत् -बहुखाद्यपेयकलितं प्रभूतमांसमद्याद्युपेतम् / तथा- कौतुकं रक्षादिकं (विण्हावणत्ति) विविधैर्मन्त्रमूलाभिः संस्कृतजलैः स्नापनकं विस्नापनकं, शान्तिकर्म चाऽग्निकारिकादिकमिति द्वन्द्वः। ततस्ते कुरुत / केषु ? इत्याहशशिरव्योश्चन्द्रसूर्ययोर्ग हेण राहुलक्षणेन उपराग उपरञ्जनं, ग्रहणमित्यर्थः, शशिरविग्रहोपरागः / स च विषमाणि च विधुराणि दुःस्वप्नाशिवादीनि, तेषु। किमर्थम् ? इत्याह-स्वजनस्य च परिजनस्य च निजकस्य वा जीवितस्य परिरक्षणार्थमिति व्यक्तम् / प्रतिशीर्षकाणि च दत्त स्वशिरःप्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थ यच्छत, चण्डिकादिभ्य इत्यर्थः / तथा दत्त च शीर्षोपहारान् पश्वादिशिरोबलीन, देवतानामिति गम्यते / विविधौषधिमद्यमांसभक्ष्याऽन्नपानमाल्यानुलेपनानि च, प्रदीपाश्च ज्वलितोज्ज्वलाः, सुगन्धिधूपस्योपकारश्चोपकरणम्-अङ्गारोपरि क्षेपः, पुष्प-फलानि च, तैः समृद्धाः संपूर्णा ये शीर्षोपहाराः, ते तथा, तान्, दत्त चेति प्रकृतम्। तथा- प्रायश्चित्तानि प्रतिविधानानि कुरुत / केन? प्राणातिपातकरणेन हिंसया, बहुविधेन नानाविधेन। किमर्थम् ? इत्याह- विपरीतोत्पाता अशुभसूचकाः प्रकृति-विकाराः,दुःस्वप्नाः, पापशकुनाश्च प्रतीताः / असौम्यग्रह-चरितं च क्रूरग्रहचाराः, अमङ्गलानि च यानि निमित्तानि अङ्गस्फुटितादीनि, एतेषां द्वन्द्वः, तत एतेषां प्रतिघातहेतुमुपहनननिमित्तमिति / तथा-वृत्तिच्छेदं कुरुत, मा दत्त किञ्चिद् दानमिति / तथा- सुष्ठ हत हत, इह तु संभ्रमे द्वित्वम् / सुष्ठ छिन्नो भिन्नश्च विवक्षितः कश्चिदिति, एवमुपदिशन्तः। एवंविधं नानाप्रकारम्।पाठान्तरं वा-त्रिविधं त्रिप्रकार, कुर्वन्त्यलीकं, द्रव्यतो नाऽलीकमपि सत्त्वोपधातहेतुत्वाद् भावतोऽलीकमेव / त्रैविध्यमेवाह- मनसा, वाचा,(कम्मुणा यत्ति) कायक्रियया। तदेतावतो यथा क्रियतेऽलीक, येऽपि तत् कुर्वन्तीत्येतद् द्वारद्वयं मिश्र परस्परेणोक्तम्। अथ ये तान् कुर्वन्ति, तान् भेदानाह - अकुसला अणज्जा अलियसण्णा अलियधम्मनिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेउ हुंति य बहुप्पगारं, तस्स य अलियस्स फलस्स विवागं अयाणमाणा वड्डे ति महन्मयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं णरयतिरियजोणिं, तेणय अलिएण समणुबद्धा आइट्ठा पुणब्भवंधकारे भमंति, भीम दुग्ग-इवसहिमुवगया ते य दीसंति इह दुग्गया दुरंता परवसा अत्थभोगपरिवजिया असुहिता फुडितच्छवीबीमच्छ-विवरणा, खरफरुसविरत्तज्झामज्झुसिरा निच्छाया लल्लविफलवाया असक्कयमसक्कया अगंधा अचयेणा दुब्भगा अकंता काकस्सरा हीणभिन्नघोसा विहिसा जडबहिरमूया य मम्मणा अकंतविकंतकरणा णीया णीयजणणिसेविणो लोगगरहिणिज्जा मिचा असरिसजणस्स पेसा दुम्मेहा लोगवेदअज्झप्पसमयसुतिवजिया नराधम्मबुद्धिवियला अलिएण य तेण य बज्झमाणा असंतएणं अवमाणणपिट्टिमंसाहिक्खेवपिसुण भेयणगुरुबंधव