________________ अलियवयण 782 - अभिधानराजेन्द्रः - भाग 1 अलियवयण धरयाए, खेत्ता य कसत, कसावेह वा, लह, गामनगरखेडकब्बडं संनिवेसेह अडवीदेसेसु विपुलसीम, पुप्फाणि कदमूलाई कालपत्ताई गिण्ह, करेह संचयं परिजणस्सऽट्ठयाए, सालीवीहीजवा य लुचंतु मलिज्जंतु उप्पूयंतु य, लहुंच पविसंतु कोट्ठागारं, अप्पमहक्कोसगा यहणंतु पोतसत्था, सेणा णिज्जाउ, जाउ डमरं, घोरा वटुंतु, जयंतु य संगामा, पवहंतु य सगडवाहणाई, उवणयणं चोलग विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मि य अज्ज होउ ण्हवणं, मुदितं बहुखजपेजकलियं को उकविण्हावणसंतिकम्माणि कुणह, ससिरविगहोवरागविसमेसु, सजणस्स परिजणस्स य निययस्स स जीवियस्स परिरक्खणट्ठयाए परिसीसकाइं च देह, देह य सीसोवहारे विविहोसहिमज्जडं सभक्खअण्णपाणमल्लाणुलेवण-पदीवजलिउज्जला सुगंधधूवोवयारपुप्फ फलसमिद्धे, पायच्छिरो करेह, पाणातिवायकरणेन बहुविहेण विवरीउप्पायदुसुविणपावसउएणअसोम ग्गहचरियअमंगलनिमित्तपडिघायहे उं वित्तिच्छेयं करेह, मा देह किंचि दाणं,सुटूठ हण हण, सुठु छिण्णो भिण्णो त्ति उवदिसंता, एवंविहं करें ति अलियं मणेणं | वायाए कम्मुणा य। अलीके योऽभिसंधिरभिप्रायस्तत्र निविष्टा अलीकाऽभि सन्धिनिविष्टाः, असद्गुणोदीरकाश्चेति व्यक्तम् / सद्गुण-नाशकाच, तदपलापका इत्यर्थः / तथा- हिंसया भूतोपघातो यत्राऽस्ति तद् हिंसाभूतोपधातिक, वचनं भणन्तीति योगः / अलीकसंप्रयुक्ताः संप्रयुक्तालीकाः, कथंभूतं वचनम् ? सावधं गर्हितं गर्हितकर्मयुक्तम् / अकुशलं, जीवानामकुशलकारित्वात्, अकुशलनरप्रयुक्तत्वाद्वा। अत एव साधुगर्हणीयम्, अधर्मजननं, भणन्तीति पदत्रयं प्रतीतम् / कथंभूताः ? इत्याह- अनधिगतपुण्यपापाः अविदितपुण्यपाप-कर्महतव इत्यर्थः / तदधिगमे हि नाऽलीकवादे प्रवृत्तिः संभवति / पुनश्चअज्ञानोत्तरकालम्, अधिकरणविषया या क्रिया व्यापारस्तत्प्रवर्तकाः। तत्रा-ऽधिकरणक्रिया द्विविधा- निवर्तनाधिकरणक्रिया, संयोजना- / ऽधिकरणक्रि या च / तत्राऽऽद्या- खड्गादीनां तन्मुष्ट्यादीनां निवर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति। अथवादुर्गतौ यकाभिरधिक्रियते प्राणी, ताः सर्वाः अधिकरण-क्रिया इति, बहुविधमनर्थमनर्थहेतुत्वाद् अपमर्दमुपवर्तनम्, आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिपूर्वकं, जल्पन्तो भाषमाणाः / एतदेवाऽऽहमहिषान् शूकरांश्च प्रतीतान्, साधयन्ति प्रतिपादयन्ति, घातकानां तद्धिसकानाम्, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याश्च-तुष्पदविशेषाः, वागुरामृगबन्धनं, साएषामस्ति ते वागुरिणः। तित्तिरवर्तकलावकाश्च कपिञ्जलकपोतकांश्च पक्षिविशेषान् साधयन्ति, शकुनेन श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषाम, 'सउणीणं' इति च प्राकृतत्वात्। झषमकरान् कच्छपांश्च जलचरविशेषान् साधयन्ति, | मत्स्याः पण्यं येषां ते मात्सिकास्तेषाम्, (संखंक त्ति) शखाः प्रतीताः, अड्काश्च रूढिगम्याः, अतस्तान्, क्षुल्लकांश्च कपर्दकान्, साधयन्ति मकरा इव मकरा जलविहारित्वाद् धीवराः, तेषाम् / पाठान्तरे'मग्गिराणं' मार्गयतां तद्गवेषिणाम् / अजगरगोनसमण्डलिदी करमुकुलिनश्च साधयन्ति, तत्र अजगरादयः उरगविशेषाः, दर्वीकराः फणाभृताः, मुकुलिनस्तदितरे, व्यालान् भुजङ्गान्पान्तीति व्यालपास्ते विद्यन्ते तेषां ते व्यालपिनः, तेषाम्। अथवा-व्यालपानमत्र प्राकृतत्वेन "पालवीति'' प्रतिपादितम् / वाचनान्तरे- वालियाणंति' दृश्यते। तत्र व्यालै श्चरन्तीति, वैयालिकानामिति / तथा- गोधाः सेहाश्च शल्यकशरटकांश्च साधयन्तीति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः, शरटकाः कृकलासाः / गजकुलवानरकुलानि च साधयन्ति पासिकानां कुलं कुटुम्ब, यूथमित्यर्थः / पाशेन बन्धनविशेषण चरन्तीति पाशिकास्तेषाम् / तथा- शुकाः कीराः, बर्हिणो मयूराः, मदनशालाः शारिकाः, कोकिलाः परभृतः, हंसाः प्रतीताः, तेषां यानि कुलानि वृन्दानि तानि, तथा- सारसांश्च साधयन्ति, सोषकाणां पक्षिपोषकाणामित्यर्थः। तथा- वधस्ताडनं, बन्धः संयमन, यातनं च कदर्थन मिति समाहारद्वन्द्वः / तच साधयन्ति गौल्मिकाना गुप्तिपालानाम् / तथा- धनधान्यगवेलकाश्च साधयन्ति, तस्कराणामिति प्रतीतम् / किंतु गावो बलीवर्दसुरभयः, एलकाः उरभ्राः / तथाग्रामनगरपत्तनानि साधयन्ति चौरिकाणाम, नकरं करवर्जितम् , पत्तनं द्विविधम्- जलपत्तनं, स्थलपत्तनं च / यत्र जलपथेन भाण्डानामागमस्तदाद्यम्, यत्र च स्थलपथेन तदितरत् / चौरिकाणां प्रणिधिपुरुषाणाम् / तथा- पारे पर्यन्ते मार्गे घातिका गन्तृणां हननं पारघातिकाः (पंथघाइयत्ति) पथि मार्गे, अर्द्धपथे इत्यर्थः / घातिका गन्तृणां हननं, पथिघातिकाः, अनयोर्द्वन्द्वोऽतस्ते साधयन्ति च ग्रन्थिभेदानां चौरविशेषाणां, कृतां च चौरिकां चोरणं, नगरगुप्तिकानां नगररक्षिकाणां, साधयन्तीति वर्तते / तथा-लाञ्छनं कर्णादिकर्त्तनाऽङ्कनादिभिः, निलच्छिनं वर्द्धितकरणं, (धमणं ति)ध्मानं वायुपूरणं, दोहनं प्रतीतं महिष्यादीनाम्, पोषणं यवसादिदानतः पुष्टीकरणं, वननं वत्सस्याऽन्यमातरि योजनं, (दुवण ति) दुवनमुपतापनमित्यर्थः / वाहनं शकटाद्याकर्षणम्, एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि, गौमिकानांगोमताम्। तथा- धातुर्ग रिक, धातवो लोहादयः, मणयश्चन्द्रकान्ताद्याः, शिला दृषदः, प्रवालानि विद्रुमाणि, रत्नानि कर्केतनादीनि, तेषामाकराः खनयस्ताः साधयन्ति, आकरिणाम्, आकरवताम् / पुष्पेत्यादिवाक्यं प्रतीतम्, नवरं विधिः प्रकारे तत्र / अर्थश्च मूल्यमानं, मधुकोशकाश्च क्षौद्रोत्पत्तिस्थानम्अर्थमधु-कोशकाः, तान् साधयन्ति, वनचराणां पुलिन्दानाम् / तथायन्त्राणि उच्चाटनाद्यर्थकरलेखनप्रकारान्, जलसंग्रामादियन्त्राणि वा, उदाहरन्तीति योगः / विषाणि स्थावरजङ्गमभेदानि हालाहलानि, मूलकर्म मूलादिप्रयोगतो गर्भपातनादि (आहेवण त्ति) आक्षेपण पुरक्षोभादिकरणम् / पाठान्तरेण- (आहिचणंति) आहित्यं अहितत्वं शत्रुभावम्, पाठान्तरेण- (अविंधणंति) अव्याधनं मन्त्रादेशनमित्यर्थः / आभि-योग्यं वशीकरणादि, तच द्रव्यतो द्रव्यसंयोगजनितं, भावतो विद्या-मन्त्रादिजनितं, बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्व्यापारणानीति द्वन्द्वः, तान्। तथा- चोरिकायाः परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा, अवस्कन्दनाः छलेन परबलमर्दनानि, ग्रामघातिकाः प्रतीताः, वनदहनतडाग-भेदनानि च प्रतीतान्येव, बुद्धेविषयस्य च यानि च तानि। तथा-वशीकरणादिकानि प्रतीतानि, भयमरणक्लेशोद्वेगजनितानि, कतुरिति गम्यते / भावेनाऽध्यवसायेन बहुसंक्लिष्टेन मलिनानि कलु-पानि यानि, तथा भूतानां प्राणिनां घातश्च हननम्, उपघातश्च परम्परा