________________ अलियवयण 780 - अभिधानराजेन्द्रः - भाग 1 अलियवयण एवमुक्तक्रमेण एतदनन्तरोदितं वस्तु अलीकं, भ्रान्तज्ञानिभिः प्ररूपितत्वात् / तथा- प्रजापतिना लोकप्रभुणा ईश्वरेण च महेश्वरेण कृतं विहितमिति के चिद्वादिनो वदन्तीति, प्रकृतम् / भणन्ति चेश्वरवादिनः - बुद्धिमत्कारणपूर्वक जगत, संस्थानविशेषयुक्तत्याद् | घटादिवदिति। कुदर्शनता चाऽस्यवल्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात् / कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिदि / तथा- एवं यथेश्वरकृतं तथा विष्णुमयं विषण्वात्मकं कृत्स्न मेव च जगदिति, केचिद्वदन्तीति प्रकृतम्। भणन्ति चएतन्मतावलम्बिनः, यथा - जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके। ज्वालमालाकुले विष्णुः, सर्व विष्णुमयं जगत्॥१॥ तथा च-अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम्। वनस्पतिगतश्चाऽहं, सर्वभूतगतोऽप्यहम्॥१॥ सो किल जलयसमुत्थेणुदएणेगण्णवम्मि लोगम्मि। वीईपरंपरेणं, घोलंतो उदयमज्झम्मि।।१।। सकिल मार्कण्डेय ऋषिः - मिच्छइ सो तसथावर- पणट्ठसुरनरतिरिक्खजोणीयं। एगण्णवं जगमिणं, महभूयविवज्जियं गहरं / / 2 / / एवंविहं जगम्मी, पिच्छइ नग्गोहपायवं सहसा। मंदरगिरिव तुंगं, महासमुदं वऽविच्छिन्नं / / 3 / / खंधम्मि तस्स सयणं, अच्छइ तह बालओ मण भिरामो। संचिट्ठो सुद्धहिओ, मिउकोमलकुंचियसुकेसो।।४।। विष्णुरित्यर्थः। हत्थो पसारिओ से, महरिसिणो एहि वच्छ ! भणिओ य। खंधे ममं विलजसु, मामरिहिसि उदयवुड्डीए।।५।। तेण य घेत्तुं हत्थे, मिलिओ सो रिसी तओ तस्स। पिच्छइ उदरम्मि जयं, ससेलवणकाणणं सव्वंति॥६॥ पुनः सृष्टिकाले विष्णुना सृष्टम्। कुदर्शनता चास्य प्रतीतिबाधत्वात्। तथा- एवं वक्ष्यमाणन्यायेन एव केचन आत्माऽद्वैतवाद्यादयो वदन्तिमृषा अलीकं, यदुत एक आत्मा। तदुक्तम्- "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृष्यते जलचन्द्रवत्" ।।१।।तथा"पुरुष एवेदं सर्व, यद् भूतं यच्च भाव्यम्" इत्यादि। कुदर्शनता चाऽस्य सकल-लोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्। तथा- अकारणः सुखहेतूनां पुण्यपापकर्मणामकर्ताऽऽत्मेत्यन्ये वदन्ति, अमूर्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति / कुदर्शनता चाऽस्य संसार्यात्मनो मूर्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे चाऽकृताभ्याऽऽगमप्रसङ्गात्। तथा-वेदकश्च प्रकृत-जनितस्य सुकृतदुष्कृ तस्य च प्रतिबिम्बोदयन्यायेन भोक्ता। अमूर्तत्वे हि कदाचिदपि वेदकता न युक्ता, आकाशस्येवेति कुदर्शनता चाऽस्य। तथा सुकृतदुष्कृतस्य च कर्मणः करणानि इन्द्रयाणि कारणानि हेतवः सर्वथा सर्वप्रकारैः, सर्वत्र च देशे काले च, न वस्त्वन्तरं कारणमिति भावः / करणान्येकादशतत्र वाक्पाणिपाद पायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि, स्पर्शनादीनि तु पश बुद्धीन्द्रियाणि, एकादशं च मन इति / एषां चाऽचेतनाऽवस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्या तथानित्यश्वाऽसौ। यदाह- "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः / / 1 / / अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" / इति। असचैत्, एकान्तनित्यत्वे हि सुखदुःख-बन्धमोक्षाद्यभावप्रसङ्गात्। तथा-निष्क्रियः सर्वव्यापित्वे- नाव-काशाभावाद् गमनागमनादिक्रिया-वर्जितः / असञ्चैतत्देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्। तथा- निर्गुणश्च, सत्त्यरजस्तमो-लक्षणगुणत्रयव्यतिरिक्तत्वात्, प्रकृतेरेव ह्येते गुणा इति। यदाह- "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने'। इति। असिद्धता चाऽस्य सर्वथा निगुणत्वे, चैतन्यं पुरुषस्य स्वरूपमित्यभ्युपगमात्।तथा(अणुवलेवओत्ति) अनुपलेपकः कर्मबन्धनरहितः। आह च-'यस्मान्न बध्यते नाऽपि, मुच्यते नाऽपि संसरन्" / संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः, इति / असचैतत् -मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्। पाठान्तरम् -(अन्नोवलेवओ त्ति) अत्र अन्यश्वापरो लेपनः, कर्मबन्धनादिति / एतदप्यसत्-कथचिदितिशब्दानुपादानात् / -इती रूपप्रदर्शने, अपिचेति-अलीकवादान्तरसमुच्चयार्थः / तथा- एवं वक्ष्यमाणप्रकारेण (आहंसुत्ति) उच्यतेस्म, असद्भावमसन्तमर्थ, यदुत यदपि यदेव सामान्यतः, सर्वमित्यर्थः, इहाऽस्मिन्, किश्चिदविवक्षितविशेष, जीवलोके मर्त्यलोके, दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं, सुखमित्यर्थः / दुष्कृतं वा दुष्कृतफलं, दुःखमित्यर्थः / एतत् (जइच्छाए वत्ति) यदृच्छया वा, स्वभावेन वाऽपि, दैवकप्रभावतो वाऽपि विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा, हिताहितनिमित्तमिति भावः। तत्र- अनभिसन्धिपूर्विकाऽर्थप्राप्तिः यदृच्छा / पठ्यते च"अतर्कितोपस्थितमेव सर्वं, चित्रंजनानां सुखदुःखजातम्। काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्रवृथाऽभिमानः" ||1|| तथा- सत्यं पिशाचस्य वने वसामो, भेरी कराग्रैरपि नस्पृशामः। यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति॥१॥ निःस्वभावः पुनर्वस्तुनः, स्वत एव तथा परिणमति इति भावः। उक्तंच - "कः कण्टकानां प्रकरोति तैक्षण्यं, विचित्रभावं मृगपक्षिणां च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?" ||1|| इति। दैवं तु विधिरिति लौकिकी भाषा / तत्रोक्तम्- "प्राप्तव्यमर्थं लभते मनुष्यः, किं कारण दैवमलङ्गनीयम् / तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं नहि तत्परेषाम्" ||1|| तथा- "द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात्। आनीय झटिति घटयति, विधिरभिमतमभिमुखीभूतः" / / 1 / / इति / असद्भूतता चाऽत्र प्रत्येकमेषां जिनमतप्रतिकूलत्वात्। तथाहि-"कालो सहाव नियई, पुव्वकयं पुरिसकारणेगता। मिच्छत्तं ते चेव उ, समासओ हुतिसम्मत्तं " // 1 // इति। तथा- नाऽस्ति, न विद्यते, तत्र लोके किञ्चिच्छुभमशुभं वा, कृतकं पुरुषकारनिष्पन्नकृतं च कार्य, प्रयोजनमित्यर्थः / पाठान्तरेण- "नस्थि किंचि कयकं तत्तं'। तत्र तत्त्वं वस्तुस्वरूपमिति। तथा- लक्षणानि वस्तुस्वरूपाणि विविधाश्च भेदा लक्षणविधास्तासां लक्षणविधानां, नियतिश्च स्वभावविशेषश्च कारिका की, सा च पदार्थानामवश्यतया। तद्यथा-भवने प्रयोजयित्री, भवितव्यतेत्यर्थः। अन्ये त्वाहु:- यतः मुद्गादीनां राधिस्वभाव-त्वमितरचाऽतत्स्वभावत्वम् / यच राद्धावपि नियतरसत्वं, न शाल्यादिरसता, सा नियतिरिति / "नहि भवति यन्न भाव्य, भवति च भाव्यं विनाऽपि यत्नेन / करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति' / / 1 / / असत्या चाऽस्य पूर्ववत् / एवमित्युक्त-प्रकारेण, केचिन्नास्तिकादयो जल्पन्ति / ऋद्धिरससातगौरवपराः, ऋद्ध्यादिषु गौरवमादरस्तत्प्रधाना इत्यर्थः / बहवः प्रभूताः करणालसाश्चरणालसा धर्म प्रति अनुद्यमाः, स्वस्य परेषां च चित्ताश्वासनिमित्तमिति भावः तथा प्ररूपयन्ति / धर्मविमर्शकण धर्मविचारणेन / (मोसं ति) मृषा पारमार्थिकधर्ममपिस्वबुद्धि दुर्विलसितेनाऽधर्म स्थापयन्ति /