________________ अलियवयण 779 - अभिधानराजेन्द्रः - भाग 1 अलियवयण सीलपच्चवमायानिगुणं, चवला पिसुणं परमट्ठभेदकमसंतकं विदेसमणत्थकारकं पावकम्ममूलं दुहिँ दुस्सुयं अमुणियं निलजं लोगगरहणिज्जं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोगनेम असुद्धपरिणामसंकिलिटुं भणंति।। यस्माच्छरीरं सादिकमित्यादि, तस्माद्दानव्रतपौषधानां वितरणनियमपर्वोपवासानां, तथा- तपोऽनशनादि, संयमः वृत्त्यादि-रक्षा, ब्रह्मचर्य प्रतीतम् / एतान्येव कल्याणं कल्याणहेतु-त्वात्तदादिर्येषां ते ज्ञानश्रद्धादीनां, तानि तथा, तेषां / नाऽस्ति फलं कर्मक्षयसुगतिगमनादिक, नाऽपि च प्राणिवधाऽलीकवचनम-शुभफलसाधनतयेति गम्यम् / तथैव नैव च चौर्यकरणं, परदार-सेवनं वाऽस्त्यशुभफलसाधनम्, तथैव सह परिग्रहेण यद्वर्त्तते, तत्सपरिग्रह, तच्च तत्पापकर्मकरणं च पातकक्रियासेवन, तदपि नाऽस्ति किञ्चित्, क्रोधमानाद्यासेवनरूपा नारकादिका च जगतो विचित्रता स्व-भावादेव, न कर्मजनिता। तदुक्तम् - "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य च चित्रता / वर्णाश्च तामूचूडानां, स्वभावेन भवन्ति हि" // 1 // इति मृषावादिता चैवमेतेषाम्स्वभावो हि जीवाद्यनर्थाऽन्तरभूतः, तदा प्राणातिपातादिजनितकर्म क्त्रकरोऽसावनान्तरभूतः, ततो जीव एवाऽसौ, तदव्यतिरेकात् तत्स्वरूपवत, ततो निर्हेतुका नारकादिविचित्रता स्यात्। न च निर्हेतुकं किमपि भवति, अतिप्रसङ्गादिति। तथा- न नैरयिकतिर्यड्मनुष्यजाना योनिरुत्पत्तिस्थानं पापपुण्यकर्मफल-भूताऽस्तीति प्रकृतम्। नदेवलोको वाऽस्तीति पुण्यकर्मफल-भूतः, नैवाऽस्ति सिद्धिगमनं, सिद्धेः, सिद्धस्य वाऽभावात्। अम्बापितरावपिन स्तः, उत्पत्तिमात्रनिबन्धनत्वामाता-पितृत्वस्य। न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः। यतः कुतोऽपि किञ्चिदुत्पद्यत एव। यथा- सचेतनात् चेतनं यूकामत्कुणादि, अचेतनंच मूत्रपुरीषादि। अचेतनाच सचेतनं, यथा-काष्ठाद घुणकीटकादी, अचेतनं च चूर्णादि। तस्माजन्यजनकभावमात्रमर्थानामस्तिनाऽन्यो मातापितृपुत्रादिविशेष इति / तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः / मृषावादिता चैषां वस्त्वन्तरस्य पित्रोः स्वजनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्वात्। हितत्वं च तयोः प्रतीतमेव। आह च- दुष्प्रतीकारावित्यादि / नाऽप्यस्ति पुरुषकारः, तं विनय नियतितः सर्व प्रयोजनानां सिद्धेः / उच्यते च - "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभाऽशुभो वा / भूतानां महति कृतेऽपि हि प्रयन्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः" ||1|| मृषाभाषिता चैवमेषाम् - सकल लोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताऽभ्युपगमादिति / तथाप्रत्याख्यानमपि नाऽस्ति, धर्मसाधनतया धर्मस्यैवाऽभावादिति। अस्य च सर्वज्ञवचनप्रामाण्येनाऽस्तित्वात् , तद्वादिनामसत्यता / तथानैवाऽस्ति कालमृत्युः,तत्र कालो नाऽस्ति, अनुपलम्भात् / यद्य वनस्पतिकुसुमादिकाललक्षणमाचक्षते, तत्तेषामेव स्वरूपमिति मन्तव्यम् / असत्यं तेषामपि, स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् / तथा- मृत्युः परलोकप्रयाणलक्षणः, असावपि नास्ति, जीवाऽभावेन परलोकगमनाभावात्। अथवा कालक्रमेण विवक्षिताऽऽयुष्कर्मणः सामस्त्यनिर्जराऽवसरे मृत्युः कालमृत्युः, तदभावश्च / आयुष एवाऽभावात् / तथा- अर्हदादयोऽपि (नस्थित्ति)न सन्ति, प्रमाणाऽविषयत्वात् ।(नेवऽत्थि केइ रिसओत्ति) नैव सन्ति केचिदपि ऋषयो गौतमादिमुनयः, प्रमाणा-ऽविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्याऽसत्त्वात्, सतोऽपि वा निष्फलत्वादिति। अत्र च शिक्षाऽऽदिप्रवाहाऽनुमेयत्वादर्हदाद्यसत्त्वस्यानन्तरोक्तवादिनामसत्यता, ऋषित्वस्याऽपि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थाऽपलापिनां सर्वत्राऽसत्यवादिता भावनीयेति / तथा- धर्माऽधर्मफलमपि नाऽस्ति किञ्चिद्, बहुकं वा स्तोकं वा / धर्माऽधर्मयोरदृष्टत्वेन नाऽस्तित्वात्। 'नत्थि फलं सुकए" इत्यादि यदुक्तं प्राक, तत् सामान्यजीवाऽपेक्षया, यच्च "धम्माऽधम्म'' इत्यादि, तविशेषाऽपेक्षयेति, न पुनरुक्ततेति / (तम्ह ति) यस्मा-देवं तस्मादेवमुक्तप्रकारं वस्तु विज्ञाय (जहा सुबहुइंदियाणुकूलेसु त्ति) यथा यत्प्रकारा सुबहुधा अत्यर्थमिन्द्रियाऽनुकूला ये ते तथा, तेषु सर्वेषु, विषयेषु वर्तितव्यम् / नाऽस्ति काचित् क्रिया वा अनिन्द्यक्रिया वा पापक्रिया वा, उभयक्रिययोरास्तिककल्पितत्वेनाऽपरमार्थिकत्वात् / भणन्तिचपिब खाद च चारुलोचने!,यदतीतं वरगात्रि! तन्नते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्।।१।। एवमित्यादिनिगमनम्। तथा- इदमपि द्वितीयं नास्तिकदर्शना-उपेक्षया कुदर्शनं कुमतमसद्भावं वादिनः प्रज्ञापयन्ति मूढाः व्यामोहवन्तः / कुदर्शनताच वक्ष्यमाणस्यार्थस्याऽप्रामाणिकत्वाद्वादिप्रोक्तप्रमाणस्य प्रमाणाभासत्वाद् भावनीया। किंभूतं कुदर्शनम् ? इत्याह- सम्भूतो जातोऽण्डकाद् जन्तुयोनिविशेषाद् लोकः, क्षितिजलाऽनलाऽनिलनरनारकिनाकितिर्यगृपः / तथा स्वयंभुवा ब्रह्मणा स्वयं चाऽऽत्मना निर्मितो विहितः। तत्राऽण्डकप्रभूतभुवनवादिनो मतमित्थमाचक्षतेपुव्यं आसि जगमिणं, पंचमहब्भूयवञ्जियं गभीरं। एगण्णवं जलेणं, महप्पमाणं तहिं अंड।।१।। वीईपरंपरेणं, घोलंतं अस्थि उ सुइरकालं। फुट्ट दुभागजायं अज्झं भूमी य संयुत्तं / / 2 / / तत्थ सुरासुरनारग-समणुय सचउप्पयंजगं सव्वं / उप्पण्णं भणियमिणं, बंभंडपुराणसत्थम्मि // 3 // तथा स्वयंभूनिर्मितजगद्वादिनो भणन्ति - आसीदिदं तमोभूत- मप्रज्ञातमलक्षणम्। अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ तस्मिन्नेकार्णवीभूते, नष्ट स्थावरजङ्गमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे // 2 // केवलं गहरीभूते, महाभूतविवर्जिते। अचिन्त्यात्मा विभुस्तत्र, शय्यानस्तप्यते तपः // 3|| तत्र तस्य शय्यानस्य, नाभेः पद्यं विनिर्गतम्। तरुणरविमण्डलनिभं, हृद्यं काश्चनकर्णिकम् / / 4 / / तस्मिन्पो स भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नतेन जगन्मातरः सृष्टाः / / 5 / / अदितिः सुरसंघानां, दितिरसुराणां मनुमनुष्याणाम्। विनता विहङ्गमाना, माता सर्वप्रकाराणाम् / / 6 / / नकुलादीनामित्यर्थः / कद्रूः सरीसृपाणां, सुलसा माता च नागजातीनाम्। सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम् / / 7 / / इति /