________________ अलियवयण 777 - अभिधानराजेन्द्रः - भाग 1 अलियवयण ऽस्तिकायः, ग्रहणलक्षणः पुद्गलास्तिकायः / एषां च पञ्चानां द्रव्याणां मध्यात्पुद्गलानामेव ग्रहणरूपं लक्षणं, नाऽन्येषां धर्मास्ति-कायादीनाम्, तेन अहमेकमेव द्रव्यं गृह्णामि, न बहूनीति व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्द्धम् / अथ ''पडियाइखित्ताया भुंजणयत्ति" पश्चार्द्ध व्याख्यायते, प्रत्याख्याय 'नाऽहं गच्छामीति प्रतिषिध्य' गमनं करोति / प्रत्याख्याय च 'नाऽहं भुजे इति भणित्वा' भुङ्क्ते / अपरेण च साधुना पृष्टो ब्रवीतिगम्यमानं गम्यतेनाऽगम्यमानम्, भुज्यमानमेव भुज्यते नाऽभुज्यमानम् / अनेन पश्चार्द्धन गमनद्वारप्रत्याख्यानद्वारे व्याख्याते इति प्रति-पत्तव्यम्। इह सर्वत्रापि प्रथमवार भणतो मासलघु / अथाऽभि-निवेशेन वदन् निकाचयति, तदा पूर्वोक्तनीत्या पाराश्चिकं यावद्-दृष्टव्यम् / तदेवं येषु / स्थानेष्वलीक संभवति, यादृशीच यत्रशोधिः, तदभिहितम्। संप्रति ये अपायारते सापवादा इति द्वारम् / तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सह-संखडाद्युत्पत्तिः संयमाऽऽत्मविराधनारूपासप्रपञ्च सुधिया वक्तव्या। अपवाद पदं तु पुरस्ताद्भणिष्यते। बृ०६ उ०ा जीत०। अलीकवचनाख्याऽधर्मद्वारस्य व्याख्या - जंबू ! बितियं च अलियवयणं लहुसगलहुचवलभणियं भयकरदुहकरअयसकरवेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसाइजोयबहुलं णीयजणणिसे वियं निसंसं अप्पच्चयकारगं परमसाहुगरहणिज्ज, परपीलाकारकं परमकण्हलेससहियं दुग्गतिविणिपायवड्डणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं कित्तियं बितियं अहम्मदारं। 'जम्बूः!' इति शिष्याऽऽमन्त्रणवचनम्। 'द्वितीयं च' द्वितीयं पुनराश्रवद्वारम्, अलीकवचनं मृषावादः / इदमपि पञ्चभिर्यादृशकादिद्वारैः प्ररूप्यते / तत्र यादृशमिति द्वारमाश्रित्याऽलीक-वचनस्य स्वरूपमाहलधुर्गुणगौरवरहितः, स्व आत्मा येषां ते लघुस्वकाः, तेभ्योऽपि ये लघवस्ते लघुस्वकलघवः, तेच ते चपलाश्च, कायादिभिरिति कर्मधारयः / तैरेव भणितं यत्तत्तथा / तथा- भयकरं दुःखकरमयशःकरं वैरकर च यत्तत्तथा / अरति-रतिरागद्वेषलक्षणं मनःसंक्लेशं वितरति यत्तत्तथा / अलीकः शुभफलापेक्षया निष्फलो यो निकृतेर्बन्धनप्रच्छादनार्थवचनस्य, (साइत्ति) अविश्रम्भस्य च अविश्वासक्चनस्य योगो व्यापारः, तेन बहुलं प्रचुर यत्तत्तथा / नीचैर्जात्यादिहीनैः प्राय इदं निषेवितं तत् तथा / नृशंसं सूकावर्जितं, निःशंसं वा श्लाघारहितम, अप्रत्ययकारक विश्वासविनाशकम्। इतः पदचतुष्टयं कण्ठ्यम्। तथा- भवे संसारेपुनर्भवः पुनःपुनर्जन्म करोतीति, न च पुन-र्भवकरम्, चिरपरिचितमनादि संसारेऽभ्यस्तम्, अनुगत-मव्यवच्छेदेनाऽनुवृत्तं, दुरन्तं विपाकदारुणं, द्वितीयमधर्मद्वारं कीर्तितम्। एतेन यादृश इत्युक्तम्। अथ यन्नामेत्यभिधातुकाम आह - तस्य य णामाणि गोणाणि ति तीसं / तं जहाअलियं 1, सठं 2, अणज्नं 3, मायामोसो 4, असंतगं 5, कूडकवडमवत्थु 6, निरत्थयमवत्थगं च 7, विद्देसगरहणिज्जं ८,अणुजुगं 6, कक्कतकारणा य 10, वंचणा य 11, मिच्छापच्छाकडं च 12, साती 13, उच्छत्तं 14, उक्कूलं च | 15, अट्ट 16, अन्भक्खाणंच 17, किव्विसं 18, वलयं 19, गहण च 20, मम्मणं च 21, नूमं 22, नियती 23, अपचओ 24, असमओ 25, असचसंधत्तणं 26, विवक्खो 27, अवहीयं 28, उवहिअसुद्धं 26, अवलोवोत्ति अविय 30, तस्स एयाणि एवमाईणि णामधेजाणि हुंति तीसं सावजस्स अलियस्स वइजोगस्स अणेगाई। "तस्स" इत्यादि सुगमं यावत्तद्यथा - अलीकं 1, शठः, शठस्य मायिनः कर्तृत्वात् 2, अनार्यवचनत्वादनार्यः 3, मायालक्षणकषायानुगतत्वात् मृषारूपत्वाच्च मायामृषा 4, (असंतगति) असदर्थाभिधानरूपत्वादसत्यम् 5, (कूडकवडमवत्थुत्ति) कटं परवशनार्थ न्यूनाधिक भाषणं, कपटं भाषाविपर्ययकरणम्, अविद्यमानवस्त्वभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथञ्चित् समानार्थत्वेनैकतमस्यैव गणनादिदमेकं नाम ६,(निरत्थयमवत्थयं चेति) निरर्थकं सत्याऽर्थात् निष्क्रान्तम्, अपार्थकम् अपगतसत्यार्थम्, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेकत्वम्७.(विद्देसगरहणिजंति) विद्वेषो मत्सरस्तस्माद् गर्हति निन्दति येन, अथवा- तत्रैव विद्वेषाद् गति साधुभिर्यत्त-द्विद्वेषगर्हणीयमिति 8, अनृजुकं वक्रमित्यर्थः 6, कल्कं पापं माया वा, तत्कारणं कल्क माया पापं च 10, वञ्चना च 11, (मिच्छापच्छाकडं चत्ति) मिथ्येति कृत्वा पश्चात्कृतं निराकृतं न्यायवादिभिर्यत्तत्तथा 12, (सातीति) अविश्रम्भः १३.(उच्छत्तंति) अपसदं विरूपंछत्रं स्वदोषाणां परगुणानां चाऽऽवरणमपच्छत्रम्, उच्छत्रं वा न्यूनत्वम् 14, (उचूलं चत्ति) उत्कूलयति सन्मार्गापदध्वंसयति, कूलाद्वा न्यायसरित्प्रवाह-तटादूर्ध्वं यत्तदुल्कूलम् / पाठान्तरेणउत्कूलम् ऊर्ध्व धर्म-कलाया यत्तत्तथा 15 आर्तम्, ऋतस्य पीडितस्येदं वचनमिति कृत्वा 16, अभ्याख्यानं चोद्घाटनम्- असतांदोषाणामित्यर्थः 17, किल्विषं किल्विषस्य पापस्य हेतुत्वात् 18, वलयमिव वलयं, वक्रत्वात् 16, गहनमिव गहने, दुर्लक्ष्याऽन्तस्त्वात् 20, मन्मनमिव मन्मनंच, अस्फुटत्वात् 21, (नूम ति) प्रच्छादनम् 22, निष्कृतिर्मायायाः प्रच्छादनार्थं वचनम् 23, अप्रत्ययः प्रत्ययाऽभावः 24, असमयोऽसम्य-गाचारः 25, असत्यमलीकं संदधाति करोतीति असत्यसन्धः, तद्भावोऽसत्यसन्धत्वम् 26, विपक्षः सत्यस्य, सुकृतस्य चेति भावः 27, (अवहीयंति) अपसदा निन्द्या धीर्यस्मिन्तदपधीकम। पाठान्तरेण-'अण्णाइयं' आज्ञा जिनादेशमतिगच्छत्यतिक्रामति यत्तदाज्ञाऽतिगम् 28 / (उवहिअसुद्धति) उपधिना मायया अशुद्धं सावद्यमुपध्यशुद्धम् 26, अवलोपो वस्तुसद्भाव-प्रच्छादनम्, इत्येवंप्रकारर्थः। अपि चेति समुच्चयार्थः 30 / (तस्स एयाणि एवमाईणि नामधेज्जाणि हुंति सावजस्स अलियस्स वइजोगस्स अणेगाइत्ति)इह वाक्ये एवमक्षरघटना कार्या-तस्याऽलीकस्य सावद्यस्य वाग्योगस्य एतान्यनन्तरोदितानि त्रिंशत् एवमादीन्येवंप्रकाराणि चाऽनेकानि नामधेयानि नामानि भवन्तीति / यन्नामेति द्वारं प्रतिपादितम्। अथ ये यथा चाऽलीकं वदन्ति, ताँस्तथा चाऽऽह - तं च पुण वदंति के इ अलियं पावा असंजया अविरया क वडकु डिलक डु यचडु लभावा कुद्धा लुद्धा भया य