________________ अलियवयण 776 - अभियानराजेन्द्रः - भाग 1 अलियवयण शुद्धपरिहारिकाः समागताः। एवं छलाऽभिप्रायेण कथयत एव मासलघु। भूयस्ते साधवः परिहारिकसाधुदर्शनोत्सुकाः पृच्छन्ति- कुत्र ते दृष्टाः ? स प्राह- उद्याने। एवं भणतो मासगुरु।ततः साधवः परिहारिकदर्शनार्थं चलिताः, व्रजन्तो यावत् न पश्यन्ति तावत्तस्य कथयतश्चतुर्लघु / तत्र गतैदृष्टष्ववसन्नेषु कथयतश्चतु-गुरु। अवसन्ना अमी इति कृत्वा निवृत्तेषु कथयतः षड्लघवः / ते साधव ईपिथिकी प्रतिक्रम्य गुरूणामालोचयन्ति- विप्रतारिता वयमनेन साधुनेति, एवं बुवाणेषु तस्य षड्गुरु आचार्यरुक्तम्-किमेव विप्रतास्यसि? सचेष्टोत्तरं दातुमारब्धःपरिहरन्तोऽपि कथमपरिहारिणो भवन्ति ? एवं ब्रुवतश्छेदः / साधवो भणन्ति- किं ते परिहरन्ति येन परिहारिका उच्यन्ते ? इतरः प्राहस्थाणुकण्टकादिकं तेऽपि परिहरन्ति, एवमुत्तरं ददतो मूलम् / ततस्तैः सर्वरपिसाधुभिरुक्तो, दुष्टोऽसियदेवंगतेऽप्युत्तरं ददासीति। ततः स प्राहसर्वेऽपि यूयमेकत्रीभूताः, अहं पुनरेकोऽसहायोऽतः पराजीये, न परिफल्गु मदीयं जल्पितम्, एवं भणतोऽनवस्थाप्यम् / अथ ज्ञानमदावलिप्त एवं ब्रवीति- सर्वेऽपि यूयं प्रवचनस्य बाह्याः, एवं सर्वानधिक्षिपतः पाराश्चिकं भवति। इदमेवाऽन्त्यपदं व्याचष्टे - किं छागलेण जंपह, किं मं कोप्पह एवऽजाणंतं / बहुएहिं को विरोहो, सलमेहिं व नागपोयस्स ?|| किमेवं छागलेन न्यायेन जल्पथ, बोकडवन्मूर्खतया किमेवमेवं प्रलपथेत्यर्थः। किञ्च-मामेवाजानतोऽपि (कोप्पह) गले धृत्वा प्रेरयथ / अथवा- एवमपि बहुभिः सह को विरोधः? शलभैरिव नागपोतस्येति। अथ घोटकमुखीद्वारमाहभणइ य दिट्ठ नियत्ते, आलोए आडं ति घोडगमुहीओ। पूरुस सव्वे एगे, सव्वे बाहिं पवयणस्स॥ मासो लहुओ गुरुओ, चउरो मासो हवंति लहुगुरुगा। छम्मासा लहुगुरुगा, छेओ मूलं तह दुगं च / / 2 / / एकः साधुर्विचारभूमौ गतः, उद्यानोद्देशे वडवाश्चरन्तीरवलोक्य प्रतिश्रयमागतः, साधून विस्मितमुखः कथयति- शृणुत, यदद्य मया यादृशमाश्चर्यं दृष्टम्। साधवः पृच्छन्ति- कीदृशम् ? स प्राह-घोटकमुख्यः स्त्रियो दृष्टाः, एवं भणतो मासलघु। ते साधव ऋजुस्वभावाश्चिन्तयन्तियथा घोटकाकारमुखमनुष्यस्त्रियोऽनेन दृष्टा इति / ततस्ते पृच्छन्तिकुत्र तास्त्वया दृष्टाः ? स प्राह- उद्याने, एवं ब्रुवतो मासगुरु / साधवो द्रष्टव्यास्ता इत्यभिप्रायेण व्रजन्ति, तदानीं कथयतश्चतुर्लघु / दृष्टासु वडवासु चतुर्गुरु। प्रतिनिवृत्तेषु साधुषुषड्लघु।गुरूणामालोचितेषड्गुरु / ततो गुरुभिः पृष्टो यदि भणति आमं, घोटकमुख्य एवैता यतो दीर्घमधोमुखं प्रमुखं वडवानां भवतीत्येवं ब्रवीति तदा छेदः / ततः साधुभिर्भणितःकथं ताः स्त्रिय उच्यन्ते ? इतरः प्रत्याह- यदि न स्त्रियस्तर्हि किं पुरुषाः? एवं ब्रुवाणस्य मूलम्। सर्वे यूयमेकत्र मिलिता, अहं पुनरेक एव, एवं भणतोऽनवस्थाप्यम् / सर्वेऽपि प्रवचनस्य बाह्या इति भणलः पाराञ्चिकम्। अथाऽन्त्यप्रायश्चित्तं प्रकारान्तरेण प्राह - सव्वेगत्था मूलं, अहगं एकल्लओ य अणवढे। सव्वे बहिमावा पवयणस्स वयमाण चरिमं तु // यूयं सर्वेऽप्यकत्र मिलिता इति भणतो मूलम्। अहमेकाकी किं करोमीति भणतोऽनवस्थाप्यम् / सर्वेऽपि यूयं प्रवचनस्य बाह्या इति वदति पाराञ्चिकम् / इदमेवाऽन्त्यपदं व्याख्यानयतिकिं छागलेण जंपह, किं मं कुप्पेह एव जाणंता। बहुएरहिं को विरोहो, सलभेहि व नागपोयस्स?|| गतार्था / अथाऽवश्यंगमनद्वारमाह - गच्छसि ण ताव गच्छं, किं खु ण जासि त्ति पुच्छितो भणति। वेला ण ताव जायति, परलोगं वा वि मोक्खं वा॥ कोऽपि साधुः केनापि साधुना पृष्टः- आर्य ! गच्छसि भिक्षाचर्याम् / स प्राह- अवश्यं गमिष्यामि। इतरेण साधुना भणितम् -यद्येवं तत उत्तिष्ठ, व्रजामः / स प्राह- न ताक्दद्यापि गच्छामि। इतरेण भणितम्- किं खुरिति वितर्के। न यासि गच्छसि, त्वया हि भणितम्- अवश्यं गमिष्यामि ? एवं पृष्टो भणति- न तावद् अद्याऽपि परलोकं गन्तुं वेला जायते, अतो न गच्छामि / यद्वा-मोक्षं गन्तुं नाऽद्यापि वेला, अतो न गच्छामि / अपिः संभावने। किं संभावयति- अवश्यं परलोकं मोक्षं वा गमिष्यामीति। अथ 'दिसासु त्ति' पदं व्याख्यानयति -- कतरि दिसि गमिस्ससि, पुव्वं अवरं गतो भणति पुवे। किं वा ण होति पुव्वा, इमा दिसा अवरगामस्स // एकः साधुरेकेन साधुना पृष्टः- आर्य ! कतरां दिशं भिक्षा- चाँ गमिष्यसि ? स एवं पृष्टो ब्रवीति- पूर्वां गमिष्यामि। ततः प्रच्छकः साधुः पात्रकाण्युद्वाह्याऽपरां दिशं गतः / इतरोऽपि पूर्वदिग्गमनाप्रतिज्ञातां तामेवापरां दिशं गतः / तेन साधुना पृष्टम्- पूर्वा गमिष्यामीति भणित्वा कस्मादपरामायातः ? स प्राह- किं वा अपरस्य ग्रामस्येयं दिक् पूर्वा न भवति? येन मदीयं वचनं निरुध्यते। अथैककुलद्वारमाह - अहमेगकुलं गच्छं, वच्चह बहुकुलपवेसणे पुट्ठो। भणति कहं दोम्मि कुले, एगसरीरेण पविसिस्सं // कश्चित् केनचिद् भिक्षार्थ समपृच्छि। तेनोक्तम्- आर्य ! एहि व्रजावो भिक्षाम्। स प्राह-व्रजत यूयमहमेकमेव कुलंगच्छामि। एवमुक्त्वा बहुषु कुलेषु प्रवेष्टु लनः। ततोऽपरेण साधुना पृष्टः- कथमेकं कुलं गमिष्यामीति भणित्वा बहूनि कुलानि प्रविशसि ? स एवं पृष्टो भणति- द्वे कुले एकेन शरीरेण युगपत् कथं प्रवेक्ष्यामि ? एकमेव कुलमेकस्मिन् काले प्रवेष्टु शक्यम्, न बहूनीति भावः / अथैकद्रव्यग्रहणद्वारमाह - वचह एगं दव्वं, घेत्थं णेगगहे पुच्छिातो भणति। गहणं तु लक्खणं पोग्गलाण गेण्हेमि तेणऽहं एगं / / कोऽपि साधुभिक्षार्थ गच्छन् कमपि साधु भणति-व्रजामो भिक्षायाम् / स प्राह- व्रजत यूयमहमे कं द्रव्यं ग्रहीष्यामि / एवमुक्त्वा भिक्षां पर्यटन्नने कानामोदनद्वितीयाङ्गादीनां बहूना द्रव्याणां ग्रहणं कुर्वन साधुभिः पृष्टो भणति- (गहणं तु० इत्यादि) गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्ति-कायः, अवग हलक्षण आकाशास्तिकायः, उपयो गलक्षणो जीवा