________________ अलियवयण 775 - अभिधानराजेन्द्रः-भाग 1 अलियवयण एव निहवने निहवने प्रायश्चित्तं वर्द्धते, यावत् स्वपदम्, पाराञ्चिकं, तद्यथा- पञ्चमं वारं निहनुवानस्य षड्लघु, षष्ठं वारं षड्गुरु, सप्तमं मूलम्, नवममनवस्थाप्यं, दशमं वारं निर्द्ववानस्य पाराञ्चिकम् / अत्र च प्रचलादिषु सर्वेष्वपि द्वारेषु यत्र यत्र लधुमासो वा भवति तत्र तत्र सूक्ष्मो मृषावादः, यत्र तु चतुर्लघुकादिकं भवति, तत्र बादरो मृषावादो भवति गतं प्रचलाद्वारम्। अथाऽऽर्द्रद्वारमाह - किं णीमि, वासमाणे, ण णीसि णणु वासबिंदवो एए। भुंजंति हीण मरुगा, कहिं ति नणु सस्सगेहेसु // कोऽपि साधुर्वर्षे पततिप्रस्थितः,स चाऽपरणे भणितः - किं वासमाणे, वर्षति निर्गच्छामि ? एवं भणित्वा तथैव प्रस्थितः। तत इतरेण साधुना भणितम्- कथं न निर्गच्छामीति भणित्वा निर्गच्छसि ? स प्राह- वासृ शब्दे, इति धातुपाठाद् / वासति शब्दायमाने यो गच्छति स वासति निर्गच्छतीत्यभिधीयते। अत्र तुनकश्चिद् वासति, किन्तु वर्षबिन्दव एते, तेषु गच्छामि / एवं छलवादेन प्रत्युत्तरं ददानस्य तथैव प्रथमवारादिषु मासलघुकादिकं प्रायश्चित्तम्।। अथ मरुकद्वारम्। कोऽपि साधुः कारणे विनिर्गत उपाश्रयमागत्य साधून भगति- साधवो यात, भुञ्जते मरुकाः / एवमुक्ते ते साधव उद्ग्राहितभाजना भणन्ति- (कहिंति त्ति) क्व ते मरुका भुञ्जते? इतरः प्राह- ननु सर्वे आत्मीयगृहेषु, एव छलेनोत्तरं प्रयच्छति। अथ प्रत्याख्यानद्वारमाह - भुजसु पचक्खातं, मए त्ति तक्खण पभुजओ पुट्ठो। किं व ण मे पंचविहा, पञ्चक्खाया अविरईओ॥ कोऽपि साधुना भोजनवेलायां भणितः - भुक्ष्व समुद्दिश / स | प्राहप्रत्याख्यातं मयेति। एवमुक्त्वा मण्डल्यां तत्क्षणादेव प्रभुक्तो, भोक्तुं प्रवृत्तः। ततो द्वितीयेन साधुना पृष्टः - आर्य ! त्वयेत्थं, भणितम्- मया प्रत्याख्यातम् ? स प्राह- किं वा मया प्राणातिपातादिका पञ्चविधा अविरतिर्न प्रत्याख्याता ? येन प्रत्याख्यानं न घटते ? अथ गमनद्वारमाह - वचसि नाहं वचे, तक्खण वच्चए पुच्छिओ भणइ। सिद्धतं न वि जाणसि, नणु गम्मइ गम्ममाणं तु // केनापि साधुना चैत्यवन्दनादिप्रयोजनेव्रजता कोऽपि साधुरुक्तः - किं त्वमपि व्रजसि ? गच्छसीत्यर्थः / स प्राह- नाऽहं व्रजामि / एवमुक्त्वा तत्क्षणादेव व्रजितुं प्रवृत्तः / तेन पूर्वप्रस्थितसाधुना पृष्टः - कथं न व्रजामीति भणित्वा व्रजसि ? स भणति- सिद्धान्तं न जानीषे त्वम्। नन्वित्याक्षेपे। भो मुग्ध ! गम्यमानमेव गम्यते, नाऽगम्यमानम्, यस्मिश्च समये त्वयाऽहं पृष्टस्तस्मिन्नाऽहं गच्छामि ? इति। अथ पर्यायद्वारमाह - एस एयस्स य मज्झ य, पुच्छिय परियाय बेइ उ छलेण / मम नवए वंदिअम्मि, भणाइबे पंचगा दसओ॥ कोऽपि साधुनाऽऽत्मद्वितीयः केनाऽपि साधुना वन्दितुकामेन पृष्टः - | कति वर्षाणि भवतां पर्यायः? इति। स एवं पृष्टो भणति- एतस्य साधोर्मम च दश वर्षाणि पर्याय इति। एवं छलेन तेनोक्ते, स प्रच्छकः साधुः - मम नव वर्षाणि पर्याय इत्युक्त्वा वन्दितुं लग्नः / इतरश्छलवादी भणतिउपविशत, भवन्तः स्वयमेव वन्दनीया इति / कथं पुनरहं वन्दनीयः ? इति तेनोक्ते, छलवादी भणति- मम पञ्च वर्षाणि पर्यायः, एतस्याऽपि साधोः पञ्च / एवं द्वेपञ्चके मीलिते दश भवन्ति। ततोयूयमावयोरुभयोरपि वन्दनीया इति भणति। अथ समुद्देशद्वारमाह - वट्टइ उ समुद्देसो, किं अत्थह कत्थ एस गगणम्मि। वटुंति संखडीओ, घरेसुनणु आउखंडणया / / कोऽपि साधुः कायादिभूमौ निर्गत्य आदित्य राहुणा ग्रस्यमानं दृष्ट्वा साधून स्वस्थान् मौनान् भणति- आर्याः ! समुद्देशो वर्तते किमेवमुपविष्टशस्तिष्ठथ ? ततस्ते साधवो नाऽयमलीकं ब्रूते इति कृत्वा गृहीतभाजनमुपस्थिताः पृच्छन्ति। कुत्राऽसौसमुद्देशो भवति? स प्राहनन्वेष गगनमार्गे सूर्यस्य राहुणा समुद्देशः प्रत्यक्षमेव दृश्यते। अथ संखडीद्वारम् / कोऽपि साधुः प्रथमालिकापानकादिनिमित्तं विनिर्गतः प्रत्यागतो भणति-प्रचुराःसंखड्यो वर्तन्ते, किमेवं तिष्ठथ? ततस्ते साधवो गन्तुकामाः पृच्छन्ति-ब्रूत ताः संखड्यः / स छलवादी भणति- तेषु तेषु गृहेषु संखड्यो वर्तन्त एव / साधवो भणन्ति- कथं ता अप्रसिद्धाः संखड्य उच्यन्ते? छलवादी भणति-नणु आउखंडणयत्तिः ननु इति आक्षेपे। पृथिव्यादिजीवानामायूंषि गृहे गृहे रन्धनादिभिरारम्भैः संखड्यन्ते, ताः कथं न संखड्यो भवन्ति ? / अथ क्षुल्लकद्वारमाह -- खुड्डग ! जणणी ते मिया, रुइए जीवइ त्ति अण्ण भणितम्मि। माइत्ता सव्वजिया, भवेसु तेणेस ते माता। कोऽपि साधुरुपाश्रयसमीपे मृतां शुनीं दृष्ट्वा क्षुल्लकमपि भणति. क्षुल्लक ! जननी तव मृता। ततः क्षुल्लकः प्ररुदितो,रोदितुंलग्नः। तमेवं रुदन्तं दृष्ट्वा स साधुराह- मा रुदिहि, जीवति ते जननी / एवमुक्ते क्षुल्लकोऽपरेच साधवो भणन्ति-कथंपूर्वं मृतेत्युक्त्वा संप्रति जीवतीति भणसि ? स प्राह- एषा या शुनी मृता, सा तव माता भवति। क्षुल्लको ब्रूते-कथमेषा मम माता? मृषावादी साधुराह- सर्वेऽपि जीवा अतीते काले तव मातृत्वेन बभूवुः। तथा च प्रज्ञप्तिसूत्रम् - "एगमेगस्सणंजीवस्स सव्वजिया माइत्ताए पिइत्ताए भायत्ताए पुत्तत्ताए धूयत्ताए भूतपुव्वा ? हंता गोयमा ! एगमेगस्स जीवस्स जीवा तहा भूतपुव्वा' / तेनैव कारणेनैषा शुनी त्वदीया मातेति / अथ परिहारिकद्वारमाह - उज्जाणे दठूणं, दिट्ठा परिहारग त्ति लहु करणे। कत्थुखाणे गुरुयं, वयंति दिढेसु लहुगुरुगा // 1 // छल्लउगा उणिउत्ते, आलोइए तम्मि छग्गुरू होति। परिहरमाणा वि कहं, अप्परिहारी भवे छेदो // 2 // किं परिहरंति णणु थाणुकंटए मूल तुज्झ सव्वे य / अहमेगो अणवटुं, बहिं पवयणस्स पारंची॥३॥ कोऽपि साधुरुधाने स्थितानवसन्नान् दृष्ट्वा प्रतिश्रयमागत्य भणति- मया परिहारिका दृष्टा इति / साधवो जानते, यथा