________________ अरिद्वणेमि 765 - अभिधानराजेन्द्रः - भाग 1 अरिद्वणेमि अथ निष्क्रमणम् - जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुव्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए समणुगम्ममाणे० जाव बारवईए मज्झं मज्झेणं निग्गच्छइ। निग्गच्छ इत्ता जेणेव रेवयए उजाणे तेणेव उवागच्छइ / उवागच्छइत्ता असोगवरपायवस्स अहे सीयं ठावेइ। ठावेइत्ता सीयाओ पचोरुहइ / पचोरुहइत्ता सयमेव आभरणमल्लालंकार ओमुयइ / ओमुयइत्ता सयमेव पंचमुट्ठियं लोयं करेइ / करे इत्ता छ? णं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूससमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए / / 173 / / (जे से वासाणं पढमे० इत्यादि) योऽसौ वर्षाकालस्य प्रथमो मासो द्वितीयः पक्षः श्रावणस्य शुक्लः पक्षः / तस्य श्रावणशुद्धस्य षष्ठीदिवसे पूर्वाह्नकालसमये उत्तरकुरायां शिबिकायां स्थितो देवमनुष्याऽसुरसहितया पर्षदा समनुगम्यमानो यावद् द्वारवत्या नगर्या मध्यभागे निर्गच्छति / निर्गत्य यत्रैव रैवतकमुद्यानं तत्रैव उपागच्छति / उपागत्य अशोकनामवृक्षस्य अधस्तात् शिबिका स्थापयति / संस्थाप्य शिबिकातः प्रत्यवतरति / प्रत्यक्तीर्य स्वयमेव आभरणमाल्याऽलङ्कारान् अवमुञ्चति, अवमुच्य स्वय-मेव पञ्चमौष्टिकं लोचं करोति / कृत्वा च षष्ठेन भक्तेन अपानकेन जलरहितेन चित्रायां नक्षत्रे चन्द्रयोगमुपागते सति एकं देवदूष्यं गृहीत्वा एकेन पुरुषाणां सहस्रेण सार्द्ध मुण्डो भूत्वा प्रभुरगारात् निष्क्रम्य साधुतां प्रतिपन्नः // 173 / / कल्प०७क्षा स०) अथ केवलोत्पादः - अरहा अरिट्ठनेमी चउप्पन्नं राइंदियाई निचं वोसट्टकाए तं चेव सव्वं० जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तचे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आयोयबहुलस्स पन्नरसीपक्खेणं दिवसस्स पच्छिमे भाए उजिंतसेलसिहरे वेयसस्स पायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंतेजाव जाणमाणे पासमाणे विहरइ॥१७॥ (अरहा अरिहनेमी इत्यादि) अर्हन् अरिष्टनेमिः चतुष्पञ्चाशत् अहोरात्रान् यावद् नित्यं व्युत्सृष्टकायः, तदेवपूर्वोक्तं सर्व वाच्यं यावत् पञ्चपञ्चाशत्तमस्य अहोरात्रस्य अन्तरा वर्तमानस्य योऽसौ वर्षाकालस्य तृतीयोमासः, पञ्चमः पक्षः,आश्विनस्य कृष्णपक्षः, तस्य आश्विनबहुलस्य पञ्चदशे दिवसे, दिवसस्य पश्चिमे भागे उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् अष्टमेन भक्तेन अपानकेन जलरहितेन चित्रायां नक्षत्रे चन्द्रयोगमुपागते सति शुक्लध्यानस्य मध्यभागे वर्तमानस्य प्रभोरनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान् जानन् पश्यंश्च विहरति / तत्र केवलज्ञान रैवतकस्थे सहस्राऽऽमवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत् / विष्णुरपि महा भगवन्तं वन्दितुमाययौ / राजीमत्यपि तत्राऽऽगता / अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रद्वयनृपयुतो व्रतमाददे / हरिणा च राजीमत्याः स्नेहकारणे पृष्ठे प्रभुर्धनवतीभवादारभ्यतया सहस्वस्य नवभवसम्बन्धमाचष्टे / तथाहि- प्रथमे भवेऽहंधननामा राजपुत्रः, तदेयं धनवती नाम्नी मत्पत्नी अभूत् 1, ततो द्वितीये भवे प्रथमे देवलोके आवां देवदेव्यौ 2, ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरः, तदेयं रत्नवती मत्पत्नी 3, ततश्चतुर्थे भवे चतुर्थे कल्पेद्वावपि देवौ 4, पञ्चमे भवेऽहं अपराजितराजा, एषा प्रियतमा राज्ञी५, षष्ठे एकादशे कल्पेद्वावपि देवौ 6, सप्तमेऽहं शवो नामराजा, एषा तु यशोमती राज्ञी 7, अष्टमेऽपराजिते द्वावपि देवौ 8, नवमेऽहमयम्, एषा राजीमती। ततः प्रभुरन्यत्र विहृत्य क्रमात् पुनरपि रैवतके समवासरत्। अनेकराजकन्यापरिवृता राजीमती तदा, रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः / अन्यदा च राजीमती प्रभुं नन्तुं प्रतिव्रजन्ती मार्गे वृष्ट्या बाधिता एकां च गुहां प्राविशत्। तस्यां च गुहायां पूर्व प्रविष्ट रथनेमिमजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्विक्षेप। ततश्च तामपहसितत्रिदशतरुणीरामणीयका साक्षात् कामरमणीमिव रमणीयां तथा विवसानां निरीक्ष्य प्रातुर्वैरादिव मदनेन मर्मणि हतः कुललज्जामुत्सृज्य धीरतामवधीर्य स्थनेमिः तां जगाद - अयि ! सुन्दरि! किं देहः शोष्यते तपसा त्वया ? | सर्वाङ्गभोगसंयोग-योग्यः सौभाग्यशेवधिः॥१॥ आगच्छ स्वेच्छया भद्रे!, कुर्वहे सफलं जनुः / आवामुभावपि प्रान्ते, चरिष्यावस्तपोविधिम् // 2 // ततश्च महासती तदाकर्ण्य तं दृष्ट्वा चधृताऽद्भुतधैर्या तं प्रत्युवाचमहानुभाव ! कोऽयं ते-ऽभिलाषो नरकाऽध्वनि। सर्वं सावद्यमुत्सृज्य, पुनर्वाञ्छन्न लजसे ?||1|| अगन्धकुले जातास्तिर्यचो ये भुजङ्गमाः। तेऽपि नो वान्तमिच्छन्ति, त्वं नीचः किं ततोऽप्यसि ? ||2|| इत्यादिवाक्यैः प्रतिबोधितः श्रीनेमिपार्श्वे तदुश्चीर्णमालोच्य तपस्तप्त्वा मुक्तिं जगाम / राजीमत्यपि दीक्षामाराध्य शिवशय्या-मारुढा, चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवापायदाह - छद्मस्थावत्सरं स्थित्वा, गेहे वर्षचतुःशतीम्। पञ्चवर्षशतीं राजी, ययौ केवलिनी शिवम्।।१।। 174 / / (कृष्णाऽग्रमहिषीप्रव्राजनम् 'अग्गमहिसी' शब्देऽस्मिन्नेव भागे 174 पृष्ठेउक्तम् / अथ गणाऽऽदिसंपत् - अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा, अट्ठारस गणहरा हुत्था॥१७॥ (अरहओणं अरिहनेमिस्स त्ति) अर्हतोऽरिष्टनेमेरष्टादशगणाः, अष्टदश गणधराश्च अभवन्॥१७५|| कल्प०७क्ष०ा अथ श्रमणश्रमणीसंपत्अरहओ णं अरिट्टनेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था।१७६) (अरहओ णं अरिहनेमिस्सेत्यादि)अर्हतोऽरिष्टनेमेः वरदत्त-प्रमुखाणि अष्टादश श्रमणानां सहस्राणि, उत्कृष्टा एतावती श्रमणसम्पदा अभवत् // 176 //