________________ अरिडणेमि ७६४-अभिधानराजेन्द्रः - भाग 1 अरिद्रणेमि दूषणंतुदुग्धमध्यात्पूतरकर्षणप्रायमसम्भाव्यमेव। तदनुताभ्यां सविनोद कथितम्- भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते / तद्गौरत्वं तु कज्जलाऽनुकारमेवाऽस्मिन् दृश्यते। राजीमती सेयं सख्यौ प्रत्याह- अद्य यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः / यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपितम्, शृणुतं तावत् सावधानीभूय भवत्यौ श्यामत्वे श्यामवस्त्वाश्रयणे च गुणान्, केवलगौरत्वे दोषांश्च / तथाहि - भूचित्तवल्लि अगुरू , कत्थूरी घण कणीणिगा केसा। कसवट्ट मसी रयणी , कसिणा एए अणग्धफला।।१।। इति कृष्णत्वे गुणाः। कप्पूरे अंगारो 1, चंदे चिंघं 2 कणीणिगा णयणे 31 भुजे मरिय 4 चित्ते, रेहा 5 कसिणा वि गुणहेऊ ।सा इति कृष्णवस्त्वाश्रयणे गुणाः / खारं लवणं दहिणं, हिमंच अइगोरविग्गहो रोगी। / परवसगुणो अचुण्णो, केवलगोरत्तणेऽवगुणा / / 4 / / एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्तस्वरं श्रुत्वा साक्षेपम्- हे सारथे ! कोऽयं दारुणः स्वर? सारथिः प्राह- युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामयस्वरः। इत्यक्तेस्वामी चिन्तयति स्म-धिग् विवाहोत्सवं, यत्राऽनुत्सवोऽमीषां जीवानाम्। इतश्च- हल्ली सहिओ ! किं मे दाहिणं चक्खु परि-प्फुडइ ? त्ति, वदन्तीं राजीमतीं प्रति सख्यौ प्रतिहतममङ्गलम् , इत्युक्त्वा थुथुत्कारं कुरुतः। नेमिस्तुहे सारथे! रथमितो निवर्तय। अत्राऽन्तरे नेमिं पश्यन्नेको हरिणः स्वग्रीवया हरिणी-ग्रीवां पिधाय स्थितः। अत्र कविघटना,स्वामिनं निरीक्ष्य हरिणो ब्रूते - मा पहरसु मा पहरसु, एयं मह हिययहारिणिं हरिणिं। सामी ! अम्हं मरणं, विदुस्सहो पियतमाविरहो।।१।। हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते - एसो पसन्नवयणो, तिहुयणसामी अकारणं बंधू। तविण्णवेसु वल्लह !, रक्खत्थं सव्वजीवाणं / / 2 / / हरिणोऽपि पत्नीप्रेरितो नेमिं ब्रूतेनिज्झरणनीरपाणं, अरण्णतणभक्खणं च वणवासो। अम्हाण निरवराहाण जीवियं रक्ख रक्ख पहो ! ||3|| एवं सर्वेऽपि पशवः स्वामिनं विज्ञपयन्ति। तावत् स्वामी बभाषे-भोः पशुरक्षकाः ! मुञ्चत मुञ्चत इमान् पशून्, नाऽहं विवाहं करिष्ये। पशुरक्षकाः | श्रीनेमिवचसा पशून् मुञ्चन्ति स्म। सारथिरपि रथं निवर्त्तयति स्म। अत्र कवि:हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१।। इति / समुद्रविजयशिवादेवीप्रमुखाजनास्तु शीघ्रमेव रथं स्खलयन्ति स्म। शिवा च सबाष्पं ब्रूते - पत्थेमिजणणिबल्लह-वच्छ! तुम पढमपत्थणं किंपि। काऊण पाणिगहणं, मह दंसे निअवहूवयणं / / 1 / / नेमिराह - मुशाऽऽग्रहमिमं मात ! मानुषीषु न मे मनः। मुक्तिस्त्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते॥१।। यतः - या रागिणि विरागिण्यस्ताः स्त्रियः को निषेवते? अतोऽहं कामये मुक्तिं, या विरागिणि रागिणी // 1 // इत्यादि। राजीमती- हा दैव ! किमुपस्थितमित्युक्त्या मूछां प्राप्ता, सखीभ्यां चन्दनद्रवैराश्वासिता कथमपिलब्धसंज्ञा सबाष्पंगाढस्वरेण प्राह - हा जायवकुलदिणयर!, हा निरुवमनाण ! हा जगसरण!। हा करुणायर ! सामी!, मं मुत्तूणं कहं चलिओ? ||1|| हा हिअय धिट्ठ ! निट्ठुर!, अज्ज वि निल्लज्ज ! जीविअं वहसि / अन्नत्थ बद्धराओ, जइ नाहो अत्तणो जाओ / / 2 / / पुनर्निःश्वस्य सोपालम्भं जगाद - जइ सयलसिद्धभुत्ताइ मुत्तिगणिआइ धुत्त ! रत्तोऽसि / ता एवं परिणयणाऽऽरंभेण विडंबिआ किमहं ? ||3|| सख्यौ सरोषम् - लोअपसिद्धी वत्तडी, सहिए इक्क सुणिज्ज। सरल विरलं सामलँ, चुक्किअ विही करिज्ज॥१॥ पिम्मरहिअम्मि पिअसहि!, एअम्मि वि किं करेसि पिअभावं?| पिम्मपरं किं पि वरं, अन्नयरं ते करिस्साम्रो / / 2 / / राजीमती कर्णी पिधाय- हा! अश्राव्यं किं श्रावयथःजइ कह विपच्छिमाए, उदयं पावेइ दिणयरो तह वि।। मुत्तूण नेमिनाहं, करेमि नाऽहं वरं अन्नं / / 1 / / पुनरपि नेमिनं प्रति - व्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः। मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः // 2 // अथ विरक्ता राजीमती प्राह - जइ विहु एअस्स करो, मज्झ करे नो आसि परिणयणे। तह वि सिरे मह सुचिअ, दिक्खासमए करो होही॥३॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ - नाभेयाद्याः कृतोद्वाहाः, मुक्ति जग्मुर्जिनेश्वराः। ततोऽप्युच्चैः पदं ते स्यात्, कुमारब्रह्मचारिणः / / 1 / / नेमिराह - हे तात ! क्षीणभोगकर्माऽहमस्मि / किञ्च - एकस्त्रीसंग्रहेऽनन्त-जन्तुसंघातघातके। भवतां भवतान्तेऽस्मिन, विवाहे कोऽयमाग्रहः? ||1|| अत्र कविः - . मन्येऽङ्गनाविरक्तः, परिणयनमिषेण नेमिरागत्य। राजीमती पूर्वभव-प्रेम्णा समकेतयत् मुक्त्यै / / 1 / / कुमाराऽवस्थावासःअरहा अरिट्ठनेमी दक्खे० जाव तिन्नि वाससयाई कुमारे अगारवासमज्झे वसित्ता, पुणरवि लोगंतिएहिं सव्वं तं चेव भाणियव्वं० जाव दाणं दाइयाणं परिमाइत्ता। अर्हन अरिष्टनेमिः दक्षः, यावत् त्रीणि वर्षशतानि कुमारः सन् गृहस्थावस्थामध्ये उषित्वा पुनरपिलोकान्तिकैरित्यादि सर्वं तदेव पूर्वोक्तं भणितव्यम् / लोकान्तिका देवा यथा- जय निर्जित-कन्दर्प !, जन्तुजाताभयप्रद ! नित्योत्सवाऽवतारार्थ, नाथ ! तीर्थ प्रवर्त्तय।।१।। इति स्वामिनं प्रोच्य स्वामी वार्षिकदानाऽनन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयाऽऽदीन् प्रोत्साहयन्ति स्म। ततः सर्वेऽपि सन्तुष्टाः / दानविधिस्तु श्रीवीरवद् ज्ञेयः॥१७२|| कल्प०७ क्ष०ा स०)