________________ अरिट्ठणेमि 763- अभिधानराजेन्द्रः - भाग 1 अरिहणेमि प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु सरोऽन्तरे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलैधुसृणाविलैः / / 1 / / तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान्, यदयं नेमि-निःशहूं क्रीडया पाणिग्रहाभिमुखीकार्यः / ततश्च ता अपि - काश्चित केसरसारनीरनिकरैराच्छोटयन्ति प्रभु, काश्चिद् बन्धुरपुष्पकन्दुकभरैर्निघ्नन्ति वक्षःस्थले। काश्चित्तीक्ष्णकटाक्षलक्ष्यविशिखैर्विद्ध्यन्ति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला विस्मापयाञ्चकिरे / / 1 / / शार्दूल० ततश्च- तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिझरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम्।। प्रावर्तन्त मिथो हसन्ति सततं क्रीडोल्लसन्मानसाः, तावद् व्योमनि देवगीरिति समुद्भूता श्रुता चाऽखिलैः / / 2 / / मुग्धाः स्थ प्रमदाः ! यतोऽमरगिरौ गीर्वाणनाथैश्वतुःषट्या योजनमानवक्त्रकुहरैः कुम्भैः सहस्राऽधिकैः / बाल्येऽपि स्नपितो य एष, भगवान्नाऽभूतमनागाकुलः, कुर्तु तस्य सुयत्नतोऽपि किमहो ! युष्माभिरीशिष्यते ? ||3|| ततो नेमिरपि हरि ताश्च सर्वा जलैराच्छोटयति स्म, कमलपुष्पकन्दुकैस्ताडयति स्म, इत्यादि सविस्तरं जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णाऽऽसने निवेश्य सर्वा अपि गोप्यः परिवेष्ठा स्थिताः / तत्र रुक्मिणी जगौ - निर्वाहकातरतयोद्वहसेन यत्त्वं, कन्यां तदेतदविचारितमेव नेमे!। भ्राता तवाऽस्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा / / 1 / / वसन्ततिलका। तथा सत्यभामाऽप्युवाच - ऋषभमुख्यजिनाः करपीडन, __ विदधिरे दधिरे च महीशताम्। बुभुजिरे विषयांश्च बहून् सुतान्, सुषुविरे शिवमप्यथ लेभिरे।।२।। उपेन्द्रवज्रा। त्वमसि किन्तु नवोऽद्य शिवंगमी, भृशमरिष्टकुमार ! विचारय। कलय देवर ! चारुगृहस्थतां, रचय बन्धुमनःसु च सुस्थताम्॥३।। उपेन्द्रवज्रा। अथ जगाद च जाम्बवती जवात्, शृणु पुरा हरिवंशविभूषण। स मुनिसुव्रततीर्थपतिही, शिवमगादिह जातसुतोऽपि हि॥४॥ उपेन्द्रवजा। पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम्। नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः॥५॥ वसन्ततिलका। गान्धारी जगौ - सज्जन्ययात्राशुभसङ्घसार्थ पर्वोत्सवा वेश्मविवाहकृत्यम्।। उद्यानिकापुंक्षणपर्षदश्च, शोभन्त एतानि विनाऽङ्गनां नो॥६।। उपजातिः। गौर्युवाच - अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम्। नीमे स्वकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढदृक् त्वम्॥७॥ उपजातिः। लक्ष्मणाऽप्यवोचत् - स्नानादिसङ्गिपरिष्क्रियायां, विचक्षणः प्रीतिरसाऽभिरामः ! विसभ्पात्रं विधुरे सहायः, कोऽन्यो भवेत् नूनमृते प्रियायाः॥८॥ उपजातिः। सुसीमाऽप्यवादीत् - विना प्रियां को गृहमागतानां, प्राघूर्णकाना मुनिसत्तमानाम्। करोति पूजाप्रतिपत्तिमन्यः?, कथं च शोभां लभते मनुष्यः ? |6|| उपजातिः। एवमन्यासामपि गोपाङ्ग नानां वाचोयुक्त्या यदूनामाग्रहाच मौनावलम्बितमपि स्मिताऽऽननं जिनं निरीक्ष्य,"अनिषिद्धमनु-मतम्" इति न्यायाद् नेमिना पाणिग्रहणं स्वीकृतमिति ताभिबर्बादमुद्घोषितम्, तथैव जनोक्तिरिति। ततः कृष्णेनोग्रसेनपुत्री राजीमती मार्गिता, लग्नं पृष्ट, क्रोष्टिकनामा ज्योतिर्वित् प्राह - वर्षासु शुभकार्याणि, नाऽन्यान्यपि समाचरेत्। गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ? ||1|| समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नाऽर्हति। नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः।।२।। मा भूद विवाहप्रत्यूहो, नेदीयस्तदिनं वद / श्रावणे मासि तेनोक्ता, ततः षष्ठी समुज्वला // 3 / / अनुष्टुप् / चलितश्च श्रीनेमिकुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो रथाऽऽरूढो धृताऽऽतपत्रसारः श्रीसमुद्रविजयादिदशाह के शवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजेगीयमानधवलमङ्गल-विस्तरः पाणिग्रहणाय अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरम् ? इति पृष्टवान् / ततः सोऽमुल्यग्रेण दर्शयन् इति जगादउग्रसेननृपस्य तव श्वशुरस्याऽयं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने मिथो वार्तयतः / तत्र मृगलोचना विलोक्य चन्द्राननां प्राऽऽह - हे चन्द्रानने ! स्त्रीवर्ग एका राजीमत्येव वर्णनीया, यस्या अयमेतादृशो वरः पाणिं ग्रहीष्यति। चन्द्रवदनाऽपि मृगलोचनामाह - राजीमतीमद्भुतरूपरम्या, निर्माय धाताऽपि यदीदृशेन / / वरेण नो योजयति प्रतिष्ठा, लभेत विज्ञानविचक्षणः काम् ? ||1|| इतश्च तूर्यशब्दमाकर्ण्य मातृगृहाद् राजीमती सखीमध्ये प्राप्ता, हे सख्यौ ! भवतीभ्यामेव साऽऽडम्बरमागच्छन्नपि वरो विलोक्यते, अहमपि विलोकयितुं न लभेयमिति बलात्तदन्तरे स्थित्वा नेमिमालोक्य साश्चर्य चिन्तयति स्मकिं पातालकुमारः ? किं वा मकरध्वजः सुरेन्द्रः किम् ? | किंवा मम पुण्यानां, प्राग्भारो मूर्तिमानेषः ? ||1 / / आर्या / तस्य विधातुः करयोरात्मानंन्युञ्छनं करोमि मुदा। येनैष वरो विहितः, सौभाग्यप्रभृतिगुणराशिः।।२।। आर्या ! मृगलोचनाराजीमत्यभिप्रायपरिज्ञाय सप्रीतिहासं-हे सखि! चन्द्रानने ! समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं परार्थिन्यां राजीमत्यांशृण्वन्त्यांवक्तुंन शक्यते! चन्द्राननाऽपि- हे सखि ! मृगलोचने ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवाऽऽचरणीयम् / राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती-हे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे