________________ अरिद्व 762- अभिधानराजेन्द्रः - भाग 1 अरिदुणेमि वृषभाऽसुरे, कङ्कपक्षिणि, कङ्के (रीठा) इति ख्याते फेनिलफलकवृक्षे च / पुं०। अशुभे मरणचिह्न, तक्रे, चक्षुर्जले, सूतिकाऽगारे, मद्ये च / न०। वाचा ल० प्र०। अरिट्ठकु मार-पुं०(अरिष्टकुमार) कौमार्ये वर्तमानेऽरिष्टने मौ, "भृशमरिष्टकुमार ! विचारय'। कल्प०७ क्ष०। अरिष्टुणे मि-पुं०(अरिष्टनेमि) (धर्मचक्रस्य नेमिवन्नेमिः, गर्भस्थे मात्राऽरिष्टरत्नमयनेमेरुत्पतनदर्शनादरिष्टनेमिः) अवसर्पिण्या भरतक्षेत्रजे द्वाविंशे तीर्थकरे, अनु० धर्मचक्रस्य नेमिवन्नेमिः। 'सव्वे धम्मचक्कस्स णेमीभूय त्ति सामन्न, विसेसो गभगते तस्स मायाए अरिहरयणमयो (मह त्ति) महालयो नेमी उप्पिजमाणो सुमिणे दिलो त्ति तेण सोऽरिट्टनेमि त्ति' आव०२ अ०। आ० चू०। __ अथाऽरिष्टनेमिचरितम् - तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंच चित्ते होत्था। तं जहा - चित्ताहिं चुए, चइत्ता गब्भं वकंते, तहेव उक्खेवो० जाव चित्ताहिं परिनिव्वुए॥१७०|| (तेणं कालेणं इत्यादि) तस्मिन्काले तस्मिन् समये अर्हन्नरिष्ट-नेमेः पञ्चकल्याणकानि चित्रायामभवन्। तद्यथा- चित्रायांच्युतः, च्युत्वा गर्ने उत्पन्नः, तथैव चित्राऽभिलापेन पूर्वोक्तपावे वक्तव्य इत्यर्थः / यावत् चित्रायां निर्वाणं प्राप्तः // 170|| अथाऽरिष्टनेमेश्च्यवनम् - तेणं कालेणं तेणं समएणं अरहा अरिठ्ठनेमी, जे से वासाणं चउत्थे मासे सत्तमेपक्खे कत्तिअबहुले,तस्सणं कत्तियबहुलस्स बारसीदिवसेणं अपराजिआओ महाविमाणाओ बत्तीसं सागरोवमट्टिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रन्ने भारिआए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वक्कं ते सव्वं तहेव सुमिणदंसणदविणसंहरणाइ एत्थ भाणियव्वं / / 171 // (तेणं कालेणं इत्यादि) तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः, योऽसौ वर्षाकालस्य चतुर्थो मासः, सप्तमः पक्षः कार्तिकस्य बहुलपक्षः,तस्य कार्तिकबहुलस्य द्वादशीदिवसे अपराजितनामकाद् महाविमानाद् द्वात्रिंशत्सागरोपमाणि स्थिति-यंत्र ईदृशात् अनन्तरं च्यवनं कृत्वा अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे सौर्यपुरे नगरे समुद्रविजयस्य राज्ञःभार्यायाः शिवाया देव्याः कुक्षौ पूर्वाऽपररात्रसमये मध्यरात्रौ यावत् चित्रायां गर्भतया उत्पन्नः सर्वतथैव स्वप्नदर्शनद्रव्यसंहरणादिवर्णनमत्र भणितव्यम् // 171 / / अथ भगवतो जन्म, अपरिणयनं चतेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी, जे से वासाणं पढमे मासे दुचे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीदिवसेणं नवण्हं मासाणं बहुपडिपुन्नाणं जाव चित्ताहिं नक्खत्तेणं चंदजोग- मुवागएणं आरोग्गाऽऽरोग्गं दारयं पयाया। जम्मणं समुद्दविजयाभिलावेणं नेयव्वं० जाव तं होऊ णं कुमारे अरिट्ठनेमी नामेणं / (तेणं कालेणं इत्यादि)तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः, योऽसौ वर्षाकालस्य प्रथमो मासः, द्वितीयः पक्षः श्रावणशुद्धः, तस्य श्रावणशुद्धस्य पञ्चमीदिवसे नवसु मासेषु बहुपरिपूर्णेषु सत्सु यावचित्रानक्षत्रे चन्द्रयोगमुपागते सति अरोगा शिवा अरोगं दारकं प्रजाता। जन्मोत्सवः समुद्रविजयाऽभिधानेन ज्ञातव्यः, यावत् तस्माद् भवतु कुमारोऽरिष्टनेमि म्ना कृत्वा, यस्माद् भगवति गर्भस्थे माताऽरिष्टरत्नमयं नेमिं चक्रधारां स्वप्नेऽद्राक्षीत्, ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहारा-ऽर्थत्वाच्च अरिष्टनेमिरिति / रिष्टशब्दो हि अमङ्गलवाचीति। कुमारस्तु अपरिणीतत्वात् / कल्प०७ क्ष०। उत्त०। अपरिणयनं तु एवम्- एकदा यौवनाभिमुखं नेमि निरीक्ष्य शिवा देवी समवदत् - 'वत्स! अनुमन्यस्व पाणिग्रहणं, पूरय चाऽस्मन्-मनोरथम्। स्वामीतुयोग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ।ततः पुनरेकदा कौतुकरोहितोऽपि भगवान् मित्रप्रेरितः संक्रीडमानः कृष्णाऽऽयुधशालायामुपागमत्। तत्र कौतुको-त्सुकैमित्रर्विज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवञ्चक्रं भ्रामितवान्, शाङ्गधनुर्मृणालवन्नामितवान्, कौमोदकी गदां यष्टिवदुत्पाटित-वान्, पाशजन्यं शङ्ख च मुखे धृत्वा आपूरितवान्। तदा चनिर्मूल्याऽऽलानमूलं व्रजति गजगणः खण्डयन वेश्ममाला, धावन्त्युत्त्रौठ्य बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः। शब्दाऽद्वैतं समस्तंबधिरितमभवत्तत्पुरं व्यग्रमुग्रं, श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये॥१॥ स्रग्धरा। त तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः के शवस्त्वरितमायुधशालायामागतः, दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय 'आवाभ्यांबलपरीक्षा क्रियते' इति नेमिं वदन्तेन सह मल्लाक्षाटके जगाम। श्रीनेमिराह ... अनुचितं ननु भूलुठनादिकं , सपदि बान्धवयुद्धमिहाऽऽवयोः / बलपरीक्षणकृद् भुजवालनं, भवतु नाऽन्यरणः खलु युज्यते॥१।। द्वाभ्यां तथैव स्वीकृतम् - कृष्णप्रसारितं बाहुं, नेमिर्नेत्रलतामिव।। मृणालदण्डवच्छीघ्रं, वालयामास लीलया।१।। शाखानिभे नेमिजिनस्य बाहौ, ततः स शाखामृगवद्विलनः / चक्रे निजं नाम हरियथार्थमुद्यद्विषादद्विगुणाऽसिताऽऽस्यः / / 2 / / ततो महताऽपि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णोचित्तः कृष्णो मम राज्यमेष सुखेन गृहीष्यतीति चिन्ताऽऽतुरः स्वचित्ते चिन्तयामास - क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते। ममन्थ शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः।।१।। अथवा - क्लिशयन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते। दन्ता दलन्ति कष्टन, जिह्ना गिलति लीलया / / 1 / / ततो बलभद्रेण सहाऽऽलोचयति- किं विधास्ये, नेमिस्तु राज्यलिप्सुर्बलवान् च / तत आकाशवाणी प्रादुरभूत- अहो हरे ! पुरा नेमिनाथेन कथितमासीद्- यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एव प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तो निश्चयाऽथ नेमिना सह जलक्रीडां कर्तुमन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः। तत्रच -