________________ [सिद्धहेम०) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] तलवेण्टं तालवेण्टं, ठविओ ठाविओ भवेत्। तलवोण्टं तालवोण्टं, पायसं पयसं,स्मृतम्॥ हलिओ हालिओ, नारा-ओ नराओ च, खाइरं। खइरं, कुमरोवाच्यः, कुमारो, वलया पुनः // वलाया, बाम्हणो बम्ह-णो, पुव्याण्हो मतान्तरे। पुव्वण्होच, चडू चाडू, दावग्गीच दवग्यपि॥ उत्खातं चामरं ताल-वृन्तं प्राकृतहालिको। स्थापितः कालको नारा-चो बलाका च खादिरः / / कुमारो, ब्राह्मणः पूर्वा-हश्चमौ कस्यचिन्मते। उत्खातादिरयं धीरे-राकृत्या परिगण्यते // घवृद्धेर्वा // 6 // धनिमित्तो वृद्धिरूपो, य आकारोऽस्तु तस्य वाऽद् / 'पवाहो पवहो' वा स्यात्, 'पयारो पयरो' तथा // 'पत्थावो पत्थयो' क्वापि, न 'राओ' रागवाचकः। महाराष्ट्रे // 6 // महाराष्ट्र हकारस्या-ऽऽकारस्य त्वविधानतः / 'मरहट्ठमरहट्ठो,' पुनपुंसकतो भवेत्॥ मांसादिष्वनुस्वारे॥७०|| कृतानुस्वारमांसादा-वाकारो यात्यकारताम्। मंसं कसंतथा पंसू, पंसणो कंसिओऽपि च॥ वंसिओ पंडवो संसि-द्धिओ संजत्तिओ यथा। 'अनुस्वारे' इति कथम्? 'मासं पास्' न चाऽदिह।। मांस कास्यं पांसनं का-सिकं वांशिकपाण्डवौ। पांसुः सांसिद्धिकः सांया-त्रिको मांसादिरिष्यते॥ श्यामाके मः // 71 / / श्यामाके तु मकारस्य, य आकारोऽस्ति तस्य तु। अदादेशेन श्यामाकः, 'सामओ' विनिगद्यते।। इ: सदादौ वा // 7 // सदादिशब्देष्यित्वं स्या-दाकारस्य विभाषया। 'सया सइ' च वा रूपं, 'कुप्पासो कुप्पिसो'ऽपि च। 'निसाअरो निसिअरो,' तथैवान्ये सदादयः॥ आचार्य चोऽच / / 73 / / आचार्यशब्दे चस्याऽऽत-इत्वमत्त्वंचवा भवेत्। रूपं 'आयरिओ' तेन, सिद्धम् 'आइरिओ' तथा॥ ई:स्त्यान-खल्वाटे॥७४|| स्त्यान-खल्वाटयोरादे-रात ईत्वं विधीयते। ठीणं थीण तथा थिण्णं, खल्लीडो तेन सिद्धयति / / उःसास्ना-स्तावके ||7|| सास्ना-स्तावकयोरादे-रात उत्यं निगद्यते। तेन सास्ना भवेत् 'सुण्हा',स्तावकः 'थुवओ' भवेत्॥ ऊद्धाऽऽसारे // 76 / / आसारशब्दे स्यादादे-रात ऊत्त्वं विभाषया। तेन सिद्ध्यति 'ऊसारो, आसारो 'रुपयुग्मकम्॥ आर्यायां यः श्वत्र्वाम् / / 77|| र्यस्याऽऽत ऊत्त्वं 'आर्यायाम,''अज्जू श्वश्रवां ततो भवेत्। 'प्रयश्यामिति' तु किम्? अजा, साध्वी श्रेष्ठाऽपि भण्यते। एद्ग्राह्ये॥७८|| ग्राहाशब्दे भवेदेत्त्व-मातो गेज्झं ततो भवेत्। द्वारे वा||७|| द्वारशब्दे भवेदेत्त्व-माकारस्य विभाषया। देरं पक्षे दुआरं स्याद, दारं बारं पदं तथा।। 'नेरइओ नारइओ,' स्यातां नैरयिकनारकिकयोस्तु। आर्षेऽन्यत्रापि यथा,-'पच्छेकम्म' तथाऽन्यदपि। पारापते रो वा||८|| भवेत् पारापते रस्या-ऽऽकारस्यैत्त्वं विकल्पनात्। तेन 'पारेवओपारा-वओ' रूपद्वयं मतम्॥ मात्रटिवा॥१॥ स्यान्मात्रट्प्रत्यये वाऽऽत-एत्त्वं रूपद्वयं ततः। एकं 'एत्तिअमेत्तं ए-त्तिअमत्तं' तथाऽपरम्॥ बहुला मात्रशब्दे 'भो-भणमेत्तं ततो भवेत्। उदोगाऽऽर्दै // 22 // आकारस्याऽसर्द्रशब्दे स्या-दुत्त्वमोत्त्वं विभाषया। 'उल्लं ओल्लं' तथा पक्षे,'अल्लं अई' च वा भवेत्॥ ओदाल्यां पकौ॥८३| 'आली' शब्दे भवेदात-ओत्त्वंपङ्क्तयर्थबोधने। 'ओली' पक्ति विजानीयात्, 'आली' नात्र, सखी यदि।। हस्वःसंयोगे ||4|| दीर्घवर्णस्य हस्वत्वं, संयोगे परतो भवेत्। तद्यथादर्शनं वेद्यं,न सर्वत्र विधीयते॥ ताम्र 'तम्ब' आनं 'अम्बं,' आस्यम् 'अस्सं' प्रयुज्यते। मुनीन्द्रस्तु'मुणिन्दो' स्यात्, तीर्थ 'तित्थं तथा पुनः।। गुरूल्लापाः 'गुरुल्लावा,'चूर्णः 'चुण्णो' प्रपठ्यते। नरेन्द्रस्तु'नरिन्दो' स्यात्, 'मिलिच्छो' म्लेच्छ उच्यते॥ अधरोष्ठो 'हरुट्ट' सं-वेद्यं,नीलोत्पले तथा। 'नीमुप्पलं' विजानीया-देवमन्यद् निदर्शनम्॥ इत एदा॥८॥ संयोगे तुपरे वाऽऽदे-रित एत्त्वं विभाष्यते। पिण्डं पेण्डं च धम्मिल्ल, धम्मेल्लं विबुधा विदुः। स्यात् सिन्दूरंतु सन्दूर, विण्हू वेण्हू निगद्यते। "पिटुं पेटुं' अनित्यत्वात्, "चिंता' इत्यत्र नो भवेत्॥ किंशुके वा // 86|| एत्वं वाऽऽदेरितो वेद्यं, किंशुके वाचके यथा। 'केसुअंकिंसुअ' चैतद्, द्वयं रूपं विदुर्बुधाः।। मिरायाम् // 7 // भवेदेत्त्वमिकारस्य मिरा मेरा ततो भवेत्। पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-विभीतकेष्वन्॥५|| पथि प्रतिश्रुत् पृथिवी,हरिद्रा-मूषिके तथा। विभीतके भवेदादे-रितोऽत्वमिति भण्यते। पहो च पुहवी पुढयो, पडसुआ मूसओ हलद्दी तु / वा स्यादत्र हलद्दा, 'वहेडओ' कापि वैकल्प्यम्। 'पंथं किरदेसित्ते, 'त्यत्र तु पथिशब्दतुल्यवाच्यस्य। पन्थशब्दस्य रूपं,ज्ञातव्यं शब्दविनिरिह। शिथिलेगुदेवा // 86 // शिथिलेङ्गुदयोरादेरितोऽद्या संप्रयुज्यते।